________________ वर्द्धमानादितीर्थे उत्कृष्टतपः 155 .मासेभ्यः पञ्च पञ्च पञ्चदश वासराश्च झोषीकृता इति / एवं सर्वत्र भावनीयम् / / __ अथ -- दिवसा पंचहि भइआ' इत्यादि करणं यत्र न प्रवर्त्तते तत्र विधिमाहजत्थ य दुरूवहीणं न हुन्ज भागं च पञ्चहिं न दिज्जा / तहिं ठवणरुवणमासो एगो उ दिणाउ ते चेव / / यत्र पुनः स्थापनासु आरोपणासु पञ्चदिनादिकासु पञ्चभिर्भागे हृते लब्धं तत् द्विरूपहीनं न भवेत् / पञ्चदिनादिकासु नवदिनपर्यन्तासु द्वयोरेव रूपयोरसम्भवात् / दशदिनादिकासु तु चतुर्दशदिनपर्यन्तासु द्विरूपहीनतायां शून्यतापत्तेः / यदि वा यासु स्थापनास्वारोपणासु चकदिनादिषु चतुर्दिनपर्यन्तासु पञ्चभिर्भागमुपरितनो राशिनं दद्यात् स्तोकत्वात्तत्र तासु स्थापनास्वारोपणासु चैको मासो द्रष्टव्यः / 'दिणाउत चेवत्ति / दिनान्यपि तान्येव यान्यपात्तानि / न पुनर्माससङख्यां द्विरूपसहितां कृत्वा पञ्चभिश्च गुणयित्वा दिनान्यानेतव्यानीति भावः / अथ यत्रोत्कृष्टा स्थापनारोपणा वा स्थापनारोपणाभ्यामेव षण्णां मासानां परिपूर्णभवनात् / 'ठवणारोवणदिवसे माणाउ विसोहइत्तु जं सेस' मित्यादिकरणं न प्रवर्त्तते, तदप्रवृत्तौ च कथं सञ्चयमाससङ्कलनं कर्तव्यं ? तत आह उक्कस्सारूवणाणं मासा जे हुंति करणनिहिट्ठा / ते ठवणामासजुआ संचयमासाउ सव्वासि / / सर्वासामुत्कृष्टानामारोपणानां ये मासा भवन्ति करणनिर्दिष्टाः-' दिवसा पंचहिं भइआ' इत्यादिना आरोपणाकरणेन निर्दिष्टास्ते स्थापनामासयुताः-स्थापनायां करणवशतो लब्धा मासास्तैः संयुक्ताः सञ्चयमासा द्रष्टव्याः / यथा विशिकायां स्थापनायां षष्टदिनशतायामारोपणायां द्वात्रिंशन् मासाः / तथाहि-स्थापनायां द्वौ मासौ लब्धौ, तौ च प्रागेव भावितौ आरोपणायाः पञ्चभिर्भागो हियते, लब्धा द्वात्रिंशत् सा द्विरूपहीना क्रियते, जाताः त्रिंशत् / स्थापनामासौ तत्र प्रक्षिप्तावागतं द्वात्रिंशत् प्रतिसेविता मासाः / अथात्र कुतो मासोत् किं गृहीतं ? उच्यते-द्वौ द्वात्रिंशतः सञ्चयमासेभ्यः स्थापनामासौ . शोध्येते स्थिताः त्रिंशन् मासास्त्रिंशता मासैनिष्पन्नास्त्रिंशद्भागाः क्रियन्ते / आगत एकैकस्मिन् भागे एकैको मासः / तत्र प्रथमभामः पञ्चदशभिर्गुण्यते, जाताः पञ्चदश, शेषा एकोनत्रिंशत् पञ्चभिर्गुण्यन्ते जातं पञ्चचत्वारिंशं शतं 145 / उभयभीलने षष्टं शतम् 160 / अत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातमशात शतम् / आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश दिवसा गृहीताः / एकस्मात् पञ्चदश, शेषेभ्यः पञ्च पञ्चेति / एवं सर्वत्र भावनीयं / श्रीवर्द्धमानतीर्थे च पाण्मासिकमेवोत्कृष्टं तपो दातव्यं नाधिकम् / यदुक्तं बारस अटु य छक्कग माणं भणिअं जिणेहिं सोहिकरं / तेण परं जे मासा संहणंता परिसडंति / / मीयते-परिच्छिद्यते वस्त्वनेनेति मानं / तत् द्विधा-द्रव्ये भावे च / तत्र द्रव्येषु प्रस्थकादिषु, भावतः पुनरिदं मान-प्रायश्चित्तमानं जिनस्तीर्थकृद्भिस्त्रिविधं शोधिकरं भणितम् / तद्यथा-प्रथमतीर्थकरस्य द्वादशमासा, मध्यमतीर्थकृतामष्टौ मासा, वर्द्धमानस्वामिनः षट्कं-षण्मासाः / इतोऽधिकं न दीयते किन्तु बहुष्वपि प्रतिसेवितेषु मासेष्वेतावन् मात्रमेव / अत्र प्रस्थकदृष्टान्तो यथा-प्रस्थकेन मीयमानं तावन्मीयते यावत्प्रस्थकस्य शिखा परिपूर्णा भवति / ततः परमधिकमारोह्यमाणमपि परिपतति / एवं षण्णां मासानामधिकं यद्यपि