SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 154 यति-जीतकल्पे विशिकायां स्थापनायां पञ्चविंशतिकायां चारोपणायां त्रयोविंशतिः सञ्चयमासास्तेभ्यो द्वौ स्थापनामासो शोधितौ जाता एकविंशतिः / पञ्चविंशतिदिनारोपणा त्रिभिर्मासै निष्पन्नेत्येकैको मासः स त्रिभागैरष्टमिदिननिष्पन्नस्तत एकविंशतिरमिर्दिनैर्गुणिता जातमष्टषष्टं शतं, त्रिभागगुणने च लब्धाः सप्त तेपि तत्र प्रक्षिप्यन्ते जातं पश्चसप्ततं शतं तत्र विंशतिः स्थापनादिवसाः प्रक्षिप्यन्ते जातं पश्चनवतं शतं 195 / तत्र पञ्चदश दिनानि झोष इति तान् अपनीयन्ते जातमशीतं शतम् / आगतमत्र द्वाभ्यां स्थापनीकृतमासाभ्यां दश दश दिवसा गृहीताः, शेषेभ्यस्त्वेकविंशतिमासेभ्यो गात्रतोऽष्टावष्टौ दिवसाः सत्रिभागाः, केवलं तत्रापि पञ्चदश दिनानि झोषीकृतानि / तदेवं स्थापनातः शेषमासेभ्य गात्रतो यत् गृहीतं तत्प्रतिपादितम् / / अधुना शेषमासेभ्यो यद् येभ्यो विशेषतो गृहीतं तत्प्रतिपादनार्थं करणमाह रुवणाए जइ मासा तइभागं तं करे तिपंचगुणं / सेसं च पंचगुणिअंठवणादिवसाजुआ दिवसा / / स्थापनामासेषु शोधितेषु यच्छेषमवतिष्ठते तत आरोपणायां यति मासाः ततिभागं-तावत्सङ्ख्याकभागं करोति / तत्राद्यं त्रिपञ्चगुणं-पञ्चदशगुणं करोति, शेषं तु समस्तमपि पञ्चगुणम् / एतच्चैवं द्रष्टयंपाक्षिक्यादिष्वारोपणादिषु यदि पुनरेकदिना द्विदिना यावचतुर्दशदिना आरोपणा तदा यतिदिनारोपणा ततिगणं कुर्यात् / ततः ते दिवसाः स्थापनादिवसयुताः क्रियन्ते ततो दिवसाः षण्मासदिवसा भवन्ति / तद्यथाप्रथमायां स्थापनायां प्रथमायां चारोपणायां त्रयोदश सञ्चयमासाः, तेभ्यो द्वौ स्थापनामासौ शोधितौ जाता एकादश. अधिकृतारोपणा एकमासनिष्पन्नेति / ते एकादश एकभागेन क्रियन्ते / एकभागकृतं च तत्तथारूपमेव भवतीति समुदिता एव ते एकादश। ततः 'तिपंचगुणिअ'मिति वचनात् पञ्चदशमिर्गुण्यन्ते जातं पञ्चषष्टं शतं 165 / तत्र स्थापना दिवसा विंशतिः प्रक्षिप्ता जातं पञ्चाशीतं शतं, ततः पञ्च दिनानि झोषीकृतानीति तान्यपसार्यन्ते जातमशीतं शतम् / आगतं द्वाभ्यां स्थापनाकृतमासाभ्यां दश दश दिनानि गृहीतानि शेषेभ्यस्त्वेकादशमासेभ्यः पञ्चदश पञ्चदश दिनानि यावत् झोषीकृतानि / तथा विशिकायां स्थापनायां विशिकायां चारोपणायामष्टादश सञ्चयमासाः, तेभ्यो द्वौ स्थापनामासावपनोती जाताः षोडश / ततोऽत्रारोपणा द्वाभ्यां मासाभ्यां निष्पन्नेति षोडश द्वाभ्यां भागाभ्यां क्रियन्ते / उपर्यष्टौ अधोप्यष्टौ। तत्रोपरितनमाद्यभागं पञ्चदशभिर्गुणयेत् / जातं विशं शतं 120 / अधस्तनास्त्वष्टौ पञ्चभिर्गुण्यन्ते माता चत्वारिंशत् 40 उभयमीलने जातं षष्टं शतं 160 / अत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातमशीतं शतम्, आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश दिनानि गृहीतानि / अष्टाभ्यो मासेभ्यः पञ्चदश पञ्चदश / अन्ये त्वष्टाभ्यः पञ्च पञ्चेति / तथा विशिकायां स्थापनायां पञ्चविंशिकायां चारोपणायां त्रयोविंशतिः सञ्चयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ जातो एकविंशतिरत्रारोपणा त्रिभिर्मासैनिष्पन्नेति ते एकविंशतिः सञ्चयमासास्त्रिभागाः क्रियन्ते जातात्रयः सप्तकोः पुञ्जाः। तत्र प्रथमसप्तकः पञ्चदशमिगुण्यन्ते जातं पञ्चोत्तरं शतं, तत्र पक्षो झोष इति पञ्चदश शोध्यन्ते जाता नवतिः 90 / शेषौ च द्वौ भागौ सप्तको प्रत्येकं पञ्चभिर्गुण्येते / जाता उभयत्र प्रत्येकं पञ्चत्रिंशत् / उभयमीलने सप्ततिः, सा. पूर्वराशौ क्षिप्ता जातं षष्टयधिकं शतं 160 / तत्र विंशति, स्थापनादिवसाः प्रक्षिप्ता जोतमशीतं शतमागतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः, सप्तभ्यो मासेभ्यः पञ्चदश पञ्चदश, चतुर्दशभ्यो
SR No.004416
Book TitleJai Jiya Kappo
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy