________________ आरोपणा-प्रकाराः 153 स्थापनाया आरोपणाया वा दिवसाः पञ्चभिर्भज्यन्ते, ततो भोगे हृते ये लब्धास्ते द्विरूपहीनाः क्रियन्ते, ततो यदवशिष्यते ते भवेयुर्मासाः / यथा विंशिकायाः स्थापनाया दिवसो विंशतिः, तेषां पञ्चमिर्भागे हृते लब्धाश्चत्वारस्ते द्विरूपहीना कृताः स्थितौ द्वौ / आगतं विंशिकास्थापना द्वाभ्यां मासाभ्यां निष्पन्ना / तथा पाक्षिक्या आरोपणायो दिनानि पञ्चदश, तेषां पञ्चभिर्भागे हृते लब्धाः त्रयस्ते द्विरूपहीनाः कृताः स्थित एक, आगतं पाक्षिकी आरोपणा एकेन मासेन निष्पन्ना विशिकारोपणा विशिकास्थापना च द्विमासनिष्पन्ना / एवं सर्वत्र भावनीयं / 'मासा दुरूवसहिआ' इत्यादि / यति मासाः स्थापनायामारोपणायां वा अधिकृतकरणवशात् लब्धास्ते दिवसानयनाय द्विरूपसहिताः क्रियन्ते / ततः पश्चगुणास्ततोभवेयुर्यथोक्ता दिवसाः / यथा विशिकायाः स्थापनाया द्वौ मासौ तौ द्विरूपसहितौ क्रियेते जाताश्चस्वारस्ते पञ्चभिर्गुण्यन्ते / आगतं विशिकास्थापनाया विंशतिर्दिनानि / तथा पाक्षिक्यामारोपणायामेको मासः / स द्विरूपसहितः कृतो जाताः त्रयः ते पञ्चभिर्गुण्यन्ते / आगत पाक्षिक्यारोपणाया पञ्चदश दिनानि / एवं सर्वत्र भावनीयं / / तदेवं करणान्यभिधायोपसंहारमाहठवणारोवणसहिआ संचयमासा हवंति एवइआ / कत्तो किं गहिरं ति अ ठवणामासे ततो सोहे / / पूर्व * ठवणारोवण दिवसे माणाउ विसोहइत्तु ' इत्यादि करणवशात् ये लब्धा मासास्तेऽनन्तरोक्तकरणवशादानीता ये स्थापनारोपणामासाः तत्सहिताः क्रियन्ते, ततः शिष्येभ्य एवं प्ररूप्यते / अस्यां स्थापनायामस्यां चारोपणायामेतावन्तः सञ्चयमासाः सर्वप्रायश्चित्तसङ्कलनमासा भवन्ति / अथ तस्यां स्थापनायामारोपणान्यां च सञ्चयमानानां मध्ये कुतो मासात् किं गृहीतम् ? / अत्र करणमाह ‘ठवणामासे ततो सोहे' / ततः सञ्चयमाससख्यातः स्थापनामासान् शोधयेत् / शोधिते च सतिदिवसेहिं जइहिं मासो निष्फनो हवइ सव्वरुवणाणं / तइहिं गुणिआउ मासा ठवणादिणजुआउ छम्मासा / / .. सर्वासामारोपणानां यतिभिर्दिवसैर्मासो भवति निष्पन्नस्ततिमिर्गुणितास्ते कर्तव्याः / पुनः स्थापनादिनयुक्तास्ततस्ते षण्मासा भवन्ति / यथा प्रथमायां स्थापनायामारोपणायां च त्रयोदश सञ्चयमासास्तेभ्यः स्थापनामासौ द्वौ शोधितौ स्थिता एकादश / अत्रारोपणायामेको मासः, स च पञ्चदशभिदिनैर्निष्पन्न इति ते एकादश पश्चदशमिर्गुण्यन्ते / जातं पञ्चषष्टं शतं / ततो विंशतिदिवसाः स्थापनासत्काः प्रक्षिप्यन्ते / जोतं पश्चाशीतं शतं पश्चझोष इति ते त्यक्ताः / जाताः षण्मासाः। आगतं द्वाभ्यां स्थापनीकृताभ्यां मासाभ्यां दश दश दिनानि गृहीतानि / शेषेभ्यस्त्वेकादशेभ्यः पञ्चदश पञ्चदश दिनानि / केवलं तन्मध्यात् पश्चझोषः कृतः पञ्च दिनानि त्यक्तानीति भावः / एतान्येव च प्राक् राशिसमकरणार्थं प्रक्षिप्तानीति समकरणः प्रक्षेपणीयो राशिझोषशब्देनोक्तः / एवं सर्वत्र झोषभावना ज्ञेया / तथा विशिकायां स्थापनायो विशिकायां चारोपणायोमष्टादश किल सञ्चयमासाः तेभ्यो द्वौ स्थापनामासौ शोधितौ जाताः षोडश / अत्र विंशतिदिनारोपणा द्विमासेत्येकको मासो दशभिदिनैर्निष्पन्नः, ततस्ते षोडश दशभिगुण्यन्ते जातं षष्टं शतं 160 / ततः स्थापनादिवसा विंशतिः प्रक्षिप्यन्ते जातमशीतिशतम् / आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः / शेषेभ्योऽपि षोडशेभ्यो गात्रतो दश दशेति / तथा 20