________________ 152 यति-जीतकल्पे जातात्रय एतावन्त आरोपणाया मासा, यदि वेयं तृतीयारोपणेति ते षण्मासानिभिर्गुण्यन्ते जाता अष्टादश, द्वौ स्थापनामासौ प्रयश्वारोपणामासा इत्यागताः सर्वसङख्यया त्रयोविंशतिमासाः / / __ अथवाऽन्यथा झोषपरिमाणं कथयतिठवणादिवसे माणा विसोहइत्ताण भयह रुवणाए / जो छेयं सविसेसो अकसिणरुवणाइ सो झोसो / मानात-षण्मासदिवसपरिमाणात् अशीतिशतात् स्थापनादिवसान्-अधिकृतस्थापनावासगन् विशोध्य यच्छेषमवतिष्ठते तत् आरोपणया-अधिकृतारोपणादिवसैर्भज-भागहारं कुरु / भागे च हृते यच्छेदशिानां विश्लेषः / इह विश्लेषे कृते सति यदवतिष्ठते, तदपि विश्लेषतो जातत्वात् विश्लेषः / स तावत्प्रमाणोऽकृस्नारोपणायां झोषः / यथां षण्मासदिवसपरिमाणादशीतिशतात् विंशतिकायाः स्थापनाया दिवसा विंशतिरिति शोध्यते / जातं षष्टयधिकं शतं 160 / ततः पाक्षिक्यामारोपणायां सञ्चयमासा ज्ञातुमिष्टा इति पञ्चदशमिर्भागो ह्रियते, स्थिताः शेषा दश अधस्ताच्छेदः पञ्चदश / तेभ्यो दश विश्लिष्यन्ते स्थिताः पञ्च, आगतं पञ्चदशिक्यामकृत्स्नारोपणायां पञ्चको झोषः / तथा अशीतिशतात् स्थापनादिवसा विंशतिः शोध्यन्ते, जातं षष्टं शतं 160 / ततः पञ्चविंशतिदिनाया आरोपणायाः सञ्चयमासा ज्ञातुभिष्टा इति पञ्चविंशत्या भागो ह्रियते, शेषा दशच्छेदोऽधस्तात् पञ्चविंशतिः तस्य दशविश्लिष्यन्ते स्थिताः पश्चदश / आगतं पञ्चविंशतिदिनायामारोपणायां पक्षो झोषः। एवं सर्वत्र भावनीयम् / / जत्थ पुण देइ शुद्धं भागं आरोवणाओ सा कसिणा। दुण्हं पि गुणसु लद्धं इच्छिअरुवणाइ जइ मासा / / यस्यां पुनरारोपणायामुपरितनो राशिः शुद्धभागं प्रयच्छति, व किश्चित पञ्चायस्योवतिष्ठते इतिभावः / सा आरोपणा कृत्स्ना ज्ञातव्या / यथा विंशतिदिना / तथाहि-केनाऽपि पृष्टं-विशिकास्थापना विंशिका चारोपणा कतिमिर्मासैः प्रतिसेवितैर्नि पन्ना 1 उच्यते-अष्टादशभिर्मासैः / तद्यथा-षण्णां मासानामशीतिशतं दिवसाः, तेभ्यो विंशतिर्दिना स्थापनाया विंशतिर्दिनान्यारोपणायाः शोध्यन्ते जातं शेषं चत्वारिंशं शतं / ततोऽधिकृतया विशिकया आरोपणया भोगे हृते उपरितनो राशिनि लेपः शुद्धः / एषा कृत्स्नारोपणा लब्धाः सप्त मासाः / इयमारोपणा द्वाभ्यां मासाभ्यां निष्पन्नेति सप्त मासा द्वाभ्यां गुण्यन्ते जाताश्चतुर्दश मासाः। ततो द्वौ स्थापनामासौ द्वौ चारोपणामासौ चतुर्दशसु प्रक्षिप्यन्ते, आगतं विशिका स्थापना विशिका चारोपणा अष्टादशमासैनिष्पन्नेति / 'दुण्डंपि' इत्यादि / द्वयोरपि आरोपणयोः कृत्स्नाकृत्स्नयोलब्धमीप्सिताया आरोपणाया यति मासा यतिभिर्मासैरीप्सितारोपणा निष्पन्नेति यावत् ततिभिर्गुणय / योकेन मासेन निष्पन्ना तत एकेन गुणय / अथ द्वाभ्यां मासाभ्यां निष्पन्ना तर्हि द्विकेन / अथ त्रिभिः ततस्त्रिमिरित्यादि / अथवा द्वयोरप्यारोपणयोः कृत्स्नाकृत्स्नयोर्लब्धं यति मासास्तत ईप्सितया आरोपणया गुणय / यदि प्रथमा तत एकेन गुण्यते / अथ द्वितीया ततो द्वाभ्यामथ तृतीया ततनिभिरित्यादि एवं सर्वत्र भावनीयम् // अथ स्थापनारोपणादिवसेभ्यो यथा मासा आगच्छन्ति मासेभ्यो वा दिवसास्तथा प्रतिपादयतिदिवसा पंचहिं भइआ दुरूवहीणाउ ते भवे मासा / मासा दुरूवसहिआ पंचगुणा ते भवे. दिवसा / /