________________ आरोग्णा-प्रकाराः चतुर्थे स्थाने प्रथमा एकदिना, द्वितीया द्विदिना, तृतीया त्रिदिना, चतुर्थी चतुर्दिना, एवमेकोत्तरवृद्धथातावन्नेतव्यं यावदेकोनाशीत्यधिकशतदिनप्रमाणा एकोनाशीतिशततमा स्थापना / एवमारोपणाया अपि प्रथमे स्थाने पञ्चदशदिना / विंशतिदिना, पञ्चविंशतिदिना, एवं पञ्चकवृद्धथा तावज्ज्ञातव्यं यावत् पष्ट यधिकशतदिनप्रमाणा त्रिंशत्तमा आरोपणा / द्वितीयस्थाने पञ्चदिना प्रथमा / दशदिना द्वितीया / पञ्चदशदिना तृतीया / एवं पन्चकवृद्धथा तावत् ज्ञेयं यावत् पञ्चषष्टयधिकशतदिनप्रमाणा त्रयस्त्रिंशत्तमाऽऽरोपणा / तृतीयेऽपि स्थाने पञ्चदिना प्रथमा / दशदिना द्वितीया / पश्चदशदिना तृतीया, एवं पञ्चकवृद्धथा तावद् गन्तव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा पञ्चत्रिंशत्तमाऽऽरोपणा / चतुर्थे पुनरारोपणास्थाने स्थापना चतुर्थस्थानवदेकोनाशीतिशतप्रमाणान्यारोपणास्थानान्यवगन्तव्यानि / विंशतिदिनादिकासु च स्थापनासु पाक्षिक्यादिका आरोपणाः प्रत्येक योज्याः / एवं पाक्षिक्यादिकासु स्थापनासु पञ्चाहिकादिका आरोपणाः प्रत्येकं योज्याः / पञ्चाहिकादिस्थापनासु पश्चाहिकाद्या आरोपणा, एकाहिकादिस्थापनासु पुनरेकाहिकाचा आरोपणा योजनीयाः। एवं स्थापनारोपणानां परस्परं संबेधतोऽनेके भङ्गा भवन्ति / ते च स्वयं निशीथव्यवहारतो ज्ञेयाः / स्थापनारोपणयोंश्च सर्वत्र वृद्धिः तावती कार्या यावत्या उभयमीलने षण्मासाः पूर्णा भवन्ति नाधिकम् / / अथ का स्थापना आरोपणां च कतिषु मासेषु प्रतिसेवितेषु द्रष्टव्या ? इत्येतत्परिज्ञानार्थमाहठवणारोवणदिवसे माणाउ विसोहइत्तु तु जं सेसं / इच्छिअरुवणोए भए असुज्झमाणे खिवइ झोसं / / मानात्-पण्णां मासानां दिवसपरिमाणात् अशीत्यधिकशतरूपात् विवक्षितायाः स्थापनाया विवक्षितायाश्वारोपणाया ये दिवसाः तान् विशोधयेत् / विशोध्य च यच्छेषमुपलभ्यते तत् ईप्सितया अधिकतया आरोपणयां भजेत-भाग डियात / भागेच इते यदि राशिनिलेपः शध्यति / ततो न किमपि प्रक्षिप्यते, केवलं सारोपणा कृत्स्नेति व्यपदिश्यते / यदि पुनर्निर्लेपो न शुद्धथति ततः क्षिपति झोषम् / यस्मिन् प्रक्षिप्ते समो भागहारो भवति सा चारोपणा अकृत्स्नभागहरणादकृत्स्नेति व्यवहर्तव्या / यथा केनापि पृष्टं-विंशिका स्थापना पाक्षिकी चारोपणा कतिमिर्मासैः प्रतिसेवितनिष्पन्ना ? उच्यते-त्रयोदशमिर्मासैः। तथाहि-षण्णां मासानां मानमशीतं दिवसशतमित्यशीतं शतं धियते / 180 ततो विंशतिकायाः स्थापनाया विंशतिदिनानि पाक्षिक्याश्वारोपणायाः पञ्चदश दिनानि शोध्यन्ते / शोधिते च शेषं जातं पञ्चचत्वारिंशं शतं / ततोऽधिकृतयो पञ्चदशदिनया आरोपणया भागो ह्रियते, तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पञ्चसु च प्रक्षिप्तेषु प्रयच्छतीति पञ्चपरिमाणोऽत्र झोषः प्रक्षिप्यते / ततो भागे हृते लब्धा दश मासाः / वक्ष्यमाणकरणतो द्वौ स्थापनाया मासौ एकश्वारोपणाया मास इत्यागतास्त्रयोदश मासाः प्रतिसेविताः / एवं विशिका स्थापना पञ्चविंशतिदिना चारोपणा कतिभिर्मासैः प्रतिसेवितैनिष्पन्ना ? उच्यते-त्रयोविंशतिमासैः। तथाहि-स्थापनादिवसा विंशतिरारोपणादिवसाः पञ्चविंशतिरेते मिलिताः पञ्चचत्वारिंशत / ते षण्मासदिवसेभ्योऽशीतिशतसङ्ख्येभ्य शोध्यन्ते / जातं शेषं पश्चत्रिंश शतम् / ततोऽधिकृतपञ्चविंशतिदिनया आरोपणया तस्य भागो लियते / तत्र चोपरितनो राशिः शुद्धं भागं न प्रयच्छति, पञ्चदशसु च प्रक्षिप्तेषु प्रयच्छतीति पञ्चदशपरिमाणोऽत्र झोषः प्रक्षिप्यते लब्धाः षण्मासाः। तथा वक्ष्यमाणकरणतोऽधिकृतारोपणया पञ्चभिर्भागो वियते लब्धाः पञ्च ते द्विरूपहीनाः क्रियन्ते,