________________ 150 यति-जीतकल्पे देशोनपूर्वकोटिप्रमाणः पर्यायोऽवशिष्यते तथापि सर्वोपि युगपदेकदिनेनैव छिद्यते इति सर्वछेदलक्षणं ततो मूल / ततो द्वितीयदिवसेऽनवस्थाप्यं / तृतीये पाराञ्चिकम् / एषा गाथाऽनियतविषयाऽप्येवं प्रतिनियतविषयत्वेन भाविता निशीथादौ तथादर्शितत्वात् / / अथ श्रीवीरतीर्थे उत्कृष्टा तपोभूमिः पाण्मासिकं तपो भवति / ततः परमपि कश्चित् तत्प्रायश्चित्तमापन्नः स्यात्तस्य कथं प्रायश्चित्तं प्रदीयत ? इत्याह - जइ छम्मास परेण वि आवन्नो जाव मास असिइसयं / ठवणरुवणाइ ते वि हु काउ दिणे दिज छम्मासं // व्याख्या - यदि कश्चित् साधुः षण्मासेभ्यः परतोऽपि सप्तमासादीनि प्रायश्चित्तानि यावदशीतिशतमासरूपमुत्कृष्टं तपोहप्रायश्चित्तमापन्नः तदा तान सर्वानपि मासान् स्थापनारोपाप्रकारेण दिवसान् कृत्वा पाण्मासिकमेवोत्कृष्टं तपस्तस्य दद्यान्नाधिकम् / इयमत्र भावना-मासादारभ्य यावत षण्मासास्तावत् स्थापनारोपणाव्यतिरेकेणापि सूत्रेणैव प्रायश्चित्तं दीयते / ततः पराणि तु यानि सप्तमासादीनि प्रायश्चित्तानि यावदशीतिशतमासरूपमुत्कृष्टं प्रायश्चित्तं तानि अपरिणामकस्याऽतिपरिणामकस्य वाऽगीतार्थस्य स्थापनारोपणाप्रकारेणेव दीयन्ते / तयोः प्रत्ययहेतुत्वात्तत्प्रकारस्याऽन्यथादोषसम्भवाच्च / गीतार्थस्य अगीतार्थस्य वा परिणामकस्य पुनर्न स्थापनारोपणाप्रकारेण तानि दीयन्ते, तयोरन्यथा दानेऽपि प्रत्ययसम्भवात् दोषाभावाच / स्थापनारोपणाप्रकारश्वायं-यावन्तो मासा दिवसा प्रतिसेविताः तावन्तः सर्वेऽप्येकत्र स्थाप्यन्ते, स्थापयित्वा च यत सक्षेपार्ह विशिकादिकं प्रतिसेवितं तत स्थाप्यते एषा स्थापना / तदनन्तरं येऽन्ये मासाः प्रतिसेवितास्ते सफलीकर्तव्या इत्येकैकस्मान् मासात प्रतिसेवनापरिणामानुरूपं स्तोकान् स्तोकतरान् समान् विषमान वा दिवसान् गृहीत्वैकत्र रोपयति / एषा आरोपणा / एषा चोत्कर्षतः तावत्कर्तव्या यावन् स्थापनया सह संकलय्यमानाः षण्मासाः पूर्यन्ते, नाधिकाः / अनेन हि प्रकारेण प्रायश्चित्तदानेऽतिपरिणामकोऽपरिणामको वा चिन्तयति-सर्वे मासाः सफलीकृता इति शुद्धोऽहमिति / तत्र स्थापनाया आरोपणायाश्च चत्वारि स्थानानि भवन्ति / तद्यथा-प्रथमं स्थानं त्रिंशत्स्थानात्मकं / द्वितीयं त्रयस्त्रिंशत्स्थानात्मकं / तृतीयं पञ्चत्रिंशत्स्थानात्मकम् / चतुर्थमेकोनाशीत्यधिकस्थानकशतप्रमाणम् / एतेषु च चतुर्वपि स्थानकेष्विमा जघन्या स्थापनारोपणा // ठवणा वीसिअ पक्खिअ पंचिअ एगाहिआ उ बोधव्वा / आरोवणा वि पक्खिअ पंचिअ तह पंचएगाही। स्थापनायाः प्रथम स्थाने जघन्यास्थापना विंशिका-विंशतिरात्रिंदिवप्रमाणा / द्वितीये पाक्षिकी / तृतीये पञ्चदिवसात्मिका / चतुर्थे एकाहिका / आरोपणापि प्रथम स्थाने जघन्या पाक्षिकी। द्वितीये पश्चिका-पञ्चदिनप्रमाणा / तृतीयेऽपि पश्चिको / चतुर्थे एकाहिका | आद्येषु च त्रिषु स्थापनारोपणास्थानेषु पञ्चोत्तरा वृद्धिः / चतुर्थे त्वेकोत्तरा वृद्धिः / तथाहि-प्रथमस्थापनास्थानके विंशतिदिनस्थापना१ पञ्चविंशतिदिना२ त्रिंशद्दिना३ एवं पञ्चकवृद्धथा तावन्नेयं यावत्पश्चषष्टयधिकशतदिनप्रमाणा त्रिंशत्तमा स्थापना / द्वितीये स्थापनास्थाने पञ्चदशदिना प्रथमा, द्वितीया विंशतिदिना, तृतीया पञ्चविंशतिदिना, एवं पञ्चकवृद्धथा तावन्नेतव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा त्रयस्त्रिंशत्तमा स्थापना / तृतीये स्थाने प्रथमा पञ्चदिना, द्वितीया दशदिना, पञ्चदशदिनो तृतीया, एवं पञ्चोत्तरवृद्धथा तावन्नेतव्यं यावत् पञ्चसप्तत्यधिकशतदिनप्रमाणा पञ्चत्रिंशतत्तमा स्थापना /