________________ आरोपणा प्रकाराः 149 र्भवति / द्वौ योगावेककालं कर्तुमसमर्थ इति कृत्वा सा आरोपणा स्थापितिका / कृत्स्ना नाम यत्र झोषो न क्रियते, अकृत्स्ना यत्र किश्चित् झोष्यते / हाडहडा त्रिविधा-सद्योरूपा स्थापिता प्रस्थापिता च / तत्र लघु. गुरुमासिकादि यत्तप आपन्नः तद्यदि सद्यस्तत्कालं दीयते न कालक्षेपेण तदा सा हाडहडा आरोपणा सद्योरूपा। यदि पुनर्यन् मासिकादिकमापन्नः तद्वैयावृत्त्यमाचार्यादीनां करोतीति स्थापितं क्रियते / तस्मिंश्च स्थापिते यदन्यदुद्घातमनुद्घातं वा आपद्यते तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते सा हाडहडा स्थापिता / पाण्मासिकपाश्चमासिकादितपो वहन् अन्तरा यदन्यदापद्यते उद्घातमनुद्घातं वा तत्तस्यापि प्रमादनिवारणार्थमनुद्घातं यदारोप्यते एषा हाडहडा आरोपणा प्रस्थापिता / / कस्मिन्नपराधे पुनरेवं क्रमेण तपःप्रभृति प्रायश्चित्तमापद्यत इति दर्शयतिसत्तरत्तं तवो होइ तओ छेओ पहावई / छेएणाछिन्नपरिआए तओ मूलं तओ दुगं // 271 // व्याख्या-सप्तरात्रमिति जातावेकवचनं, ततोऽयमर्थः-त्रीणि सप्तरात्राणि यावच्चतुर्गुदिकं तपो भवति / ततः सप्तरात्रत्रयानन्तरं छेदः तस्यापराधपदासेविनोऽमिमुखं प्रकर्षण धावति प्रधावति / छेदेनापि यस्य प्रभूतत्वात् पर्यायो न छियते तस्मिन्नपराधकारिणि छेदेणाछिन्नपर्याये एकेनैव दिवसेन मूलम् / ततो द्विकमनवस्थाप्यपारानिकलक्षणम् / इयमत्र भावना-यदा कश्चिदाचार्योऽगीतार्थस्याऽबहुश्रुतस्य वा गणं ददाति, स च तदनुज्ञातो गणं धारयति, तदा द्वयोरप्यनेन क्रमेण प्रायश्चित्तमापद्यते / तथाहि-तयोराचार्ययोः प्रथमतः सप्तरात्रं यावत् दिवसे दिवसे चतुर्गुरुकम् / यद्येतावति गते केनाप्यपरेण गीतार्थेन आर्या ! न कल्पते अबहुश्रुतस्यागीतार्यस्म वा गणं दातुं धारयितुं वा, ततः प्रतिपद्यध्वं सम्प्रत्यपि प्रायश्चित्तमिति प्रज्ञापितो स्वयं वा यधुपरतौ ततः प्रायश्चित्तमप्युपरतम् / अथ नोपरमेते ततो द्वितीयं सप्तगत्रं दिने दिने षडलघवः / तृतीयं सप्तरात्रं प्रत्यहं षड्गुरवः / यद्येतावता स्थितौ ततः सुन्दरमेव, नो चेत्ततश्छेदः प्रधावति / तत्रैके आचार्याः पञ्चरात्रिंदिवादारभ्य छेदं प्रस्थापयन्ति / अपरे पुनश्चतुर्गुरुकादिति / पश्चरात्रिंदिवप्रस्थापनायां भूयोऽप्याऽऽदेशयुगं तद्यथा-केचिदाचार्या लघुभ्यः केचित्तु गुरुभ्यः पञ्चरात्रिंदिवेभ्यश्छेदं प्रारभन्ते / तत्र लघुकं पश्चरात्रिंदिवप्रस्थापना प्रथमतो भाव्यते-सप्तरात्रत्रयानन्तरं तुरीयं सप्तरात्रं लघुपञ्चकछेदः / पञ्चमं गुरुपञ्चकः / षष्ठं लघुदशरात्रिंदिवः / सप्तमं गुरुदशरात्रिंदिवः / अष्टमं लघुपञ्चदशकः / नवमं गुरुपञ्चदशकः / दशमं लघुविंशतिगत्रिंदिवः / एकादशं गुरुविंशतिरात्रिंदिवः / द्वादशं लघुपञ्चविंशतिरात्रिंदिवः। त्रयोदशं गुरुपञ्चविंशतिकः / चतुर्दशं लघुमासिकः / पञ्चदशं गुरुमासिकः / षोडशं चतुर्लघुमासिकः / सप्तदर्श चतुर्गुरुमासिकः / अष्टादशं लघुषाण्मासिकः / एकोनविंशं सप्तरात्रं गुरुषाण्मोसिकछेद इति सर्वसङ्ख्यया त्रयस्त्रिंशं शतमहोरात्राणां भवति / गुरुपञ्चकप्रस्थापनायां तु सप्तरात्रत्रयानन्तरं सप्ताहोरात्राणि प्रथमत एव गुरुपञ्चकछेदः / ततः सप्ताहं लघुदशकः / एवं पूर्वोक्तविधिना गुरुदशकादयोऽपि षड्गुरुकान्ता छेदाः / सप्ताह सप्ताहं प्रत्येकं द्रष्टव्या इति / अत्र चाष्टादशभिः सप्तरात्रैः षड्विंशं शतं गत्रिंदिवानां भवति / यदा तु यतः प्रभृति तपः प्रायश्चित्तमुपक्रान्तं तत आरभ्य छेदविवक्षा क्रियते तदा चतुर्थे सप्तरात्र प्रथमत एव चतुर्गुरुकः छेदः / पञ्चमे षड्लघुकः / षष्ठे षड्गुरुकः एवं षभिः सप्तरात्रैर्द्विचत्वारिंशदिनानि भवन्ति / इत्थं त्रयाणामादेशानामन्यतमेनादेशेन छिद्यमानोऽपि भूयस्त्वात् यदा पर्यायो न छिद्यते / ततो यद्यपि