________________ यति-जीतकल्पे श्चतुर्विधः सङ्घोऽपि / कृतः प्रवचनस्य प्रणामो येन स कृतप्रवचनप्रणामोऽहं वक्ष्ये प्रायश्चित्तदानसझेपम् / पापं छिनत्ति इति पोपछित् / अथवा प्रायः चित्तं-जीवं मनो वाऽतीचारमलमलिनितं शोधयतीति प्रायश्चित्तम् / आर्षत्वात् प्राकृतेन पच्छित्तम् / उक्तं च पावं छिंदइ जम्हा पायच्छित्तंति भण्णए तम्हा। पाएण वा वि चित्तं विसोहई तेण पच्छित्तं // तस्य दानं तस्य सक्षेपः-सङग्रहस्तं जीतव्यवहारकृतं-जीतव्यवहारो-'वत्तणुवत्ते 'त्यप्रेतनगाथयैव वक्ष्यमाणलक्षणस्तेन कृतम्-उपदिष्टं, जीतव्यवहारगतं वा जीतव्यवहारानुप्रविष्टम् / जोवस्य ‘जोव प्राणधारणे जिजीव जीवति जीविष्यती 'त्युपयोगलक्षणत्वेन त्रिकालमपि जीवनाज्जीवस्तस्य विशेषेण शोधनम् / विशेषश्चायं-द्विजादयोऽपि स्थूलबुद्धयः क्वापि प्राणवधादौ सामान्येन प्रोयश्चित्तं ददति, न पुनः सङ्घट्टनपरितापनोपद्रवादिभेदैः सर्वेषामेकेन्द्रियादि-त्रसपर्यन्तानां विषयभेदेन प्रायश्चित्तं दातुं जानन्ति / नह्ययमुपदेशस्तदीयशास्त्रेष्वस्ति / इह पुनः प्रवचने सर्वमस्ति / अत एव यथा पलाशक्षारारिष्टकोदकादिर्वस्त्रमलम्य शोधनम् / तथाऽत्रापि कर्ममलमलिनस्य जीवस्य जीतव्यवहारोपदिष्टं विशोधनं . परमं-प्रकृष्टमनन्यसदृशं, नान्यत्रैवं विशिष्टप्रायश्चित्तविधिरस्तीत्यर्थः / इह शिष्यः प्राह-विशेषणं हि व्यवच्छेदकं भवति, यथा नीलोत्पलमित्यत्र नीलविशेषणं रक्तोत्पलादेरपि सम्भवात् तद्व्यवच्छेदाय / तत् किमत्राप्यन्येऽपि व्यवहाराः सन्ति ? येन जोतव्यवहारगतमिति विशेष्यते / गुरुराह-सन्त्यन्येऽपि आगम-श्रुता-ऽऽज्ञा-धारणाव्यवहारास्तद्व्यवच्छेदाय तज्जीतपदम् / पुनः शिष्योऽभिधत्ते-भगवन्नमीषां मिथः को विशेषः ? / गुरुराह-आगमव्यवहारिणस्तावत् षड्विधाः / तद्यथा-केवलिनो मनःपर्यायज्ञानिनोऽवधिज्ञानिनश्चतुर्दशपूर्विणो दशपूर्विणो नवपूर्विणश्च / अत्र यदा केवली प्राप्यते तदा तस्याऽग्रे प्रायश्चित्तं गृह्यते, तदभावे मनःपर्यायज्ञानिनः, तस्याप्यभावेऽवधिज्ञानिनः, तदप्राप्तौ चतुर्दशपूर्विणः, तदनुपलम्भे दशपूर्विणः , तस्याऽप्यनासादने नवपूर्विण इति / श्रुतव्यवहारिणश्चाऽष्ट-सप्त षट्-पञ्च-चतु-स्त्रीद्वकार्द्धपूर्विण एकादशाङ्गधारिणो निशीथकल्पव्यवहार-दशाश्रुतस्कन्ध-पञ्चकल्पाद्यशेषश्रुतसूत्रार्थाभिज्ञाश्च / श्रुतव्यवहारश्चोऽऽचाराङ्गादीनामष्टमपूर्वान्तानामेव / यदुक्तम्-'आयारपकप्पाई सेसं सव्वं सुअं विणिहिट्ठ 'मिति [ व्यवहारभाष्ये ] अत्राह कश्चित्-किमष्टमपूर्वान्तमेव श्रुतं, नवमपूर्वादीनां न श्रुतत्वम् ? उच्यते-आगम्यन्ते-परिच्छिद्यन्तेऽतीन्द्रियोः पदार्था येन स ओगम इति व्युत्पत्तेनवमपूर्वादीनां श्रुतत्वाऽविशेषेऽपि केवलज्ञानादिवदतीन्द्रियार्थेषु विशिष्टज्ञानहेतुत्वेन सातिशयत्वादागमत्वेनैव व्यपदेशः / शेषश्रुतस्य तु नातीन्द्रियार्थेषु तथाविधोऽवबोधस्ततोऽस्मिन् श्रुतव्यवहारः / इदानीं चाऽऽगमव्यवहारिणामभावे समयानुसारेणोत्कृष्टतमश्रुतानां श्रुतव्यवहारिणां सन्निधावालोच्यते / आज्ञाव्यवहारस्तु कावपि गीतार्थावाचार्यों सम्यगधीताशेषसूत्रार्थों क्षीणजङ्घोबलौ दवीयोदेशवासिनौ परस्परेणोपान्तमागन्तुमक्षमा तयोरेकः प्रायश्चित्तं जिघृक्षुरगीतार्थशिष्यं मतिधारणाकुशलं सन्दिष्टवस्तुनयनसमर्थमागमभाषया गूढान्यपराधपदानि कथयित्वा लिखित्वा वा समर्प्य मन्दमेधसं शिष्यं द्वितीयाऽऽचार्यसमीपे प्रस्थापयति, सोऽपि तथैव गूढपदैः प्रायश्चित्तं कथयित्वा लिखित्वा वा समय॑ प्रेषयति, एष आज्ञालक्षणः तृतीयो व्यवहारः / तदुक्तं- 'देसंतरटिआणं गूढपयालोअणा आणा' आलोचना च प्रतिसेवकस्य प्रतिसेवनीयप्रतिसेवनातः स्यात् / तत्र प्रतिसेवकः साध्वादिः / प्रतिसेवनीयं च व्रतषट्कादीन्यष्टादशस्थानानि / तद्यथा