________________ णमोत्थु णं समणस्स भगवओ महावीरस्स / आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूरीश्वरेभ्यो नमः / साधुशिरोमणि-साधुरत्नसूरिविहितवृत्तियुतः तपागच्छाधिराज-श्रीसोमप्रभसूरिप्रणीतः जइ-जीयकप्पो जयति महोदयशाली भास्वाञ् श्रीवर्धमानतीर्थपतिः। विशदं चरणपथं सा तपस्थितिर्यदुदिता तनुते // 1 // जयति प्रवचनदीपः प्रतिहतदुरपोहमोहतिमिरौघः। चित्रं निरञ्जनोऽयं जगति गुणग्रामवृद्धिकरः // 2 // सकलत्रिलोकविस्मयविधायिनिस्सीमधीगुणातिशयान् / बहुविधलब्धिसमृद्धान् निखिलानपि गणधरान्नौमि // प्रणमामि विश्रुतश्री-जिनभद्रगणिक्षमाश्रमणमुख्यम् / सङ्क्षिप्तजीतकल्पं महाश्रुताद्यः समुद्दधे // 4 // श्रीसोमप्रभसूरीन् गुरूत्तमान् स्तौमि विश्रुतातिशयान् / सुविहितहिताय विहितः सव्यासो यैरसावेव / / 5 / / श्रीसोमतिलकसूरीन् वन्दे विख्यातवैभवाभ्युदयान् / यैरस्य जीतकल्पस्याऽऽतेने वृत्तिरतिविशदा // 6 // मन्दमतिबोधहेतोरतिगहनमहागमावगाहनया / कालानुभाववशतो व्युच्छिन्ना सा तदैव परम् ॥युग्मम् / / जगति जयन्ति गरिष्ठां गरवः श्रीदेवसन्दरमनीन्द्राः। सम्प्रति निष्प्रतिमगुण-प्रभाप्रभावादभता विदिताः॥ ये निजवचनसुधाञ्जन-वशेन शिष्यस्य मादृशस्यापि / उद्घाटयन्ति लोचन-मान्तरमज्ञानतिमिरभूतम // तस्याः पुनरालेखचित्रकलाकौशलेन विकलोऽपि / तैः स्वविनेयकनिष्ठो-ऽप्यादिष्टोऽयं ततो यतते // 10 // यद्यपि साहसमेवं कुर्वन् हास्योऽस्मि तदपि किं कुर्वे / यन्मामत्र प्रसभं प्रेरयति गुरुप्रसादोऽयम् // 11 // इह दुःषमान्धकारनिमग्नजिनप्रवचनप्रदीपायमान-श्रीजिनभद्रगणिक्षमाश्रमणविरचितो जीतकल्पोऽतिसङ्क्षिप्तः / निशीथभाष्यादिछेदग्रन्थाश्चातिमहान्तो दुरवगाहाश्च / अतः साध्वनुग्रहाय पूज्यश्रीसोमप्रभसूरयः किश्चित् विस्तरप्रायश्चित्तविधिप्रतिपत्तये प्रायो जीतकल्पनिशीथाद्यन्तर्गतगाथा'मिरेव यतिप्रायश्चित्तविभागाविर्भावकं जीतकल्पनामकं प्रकरण चिरन्तनजीतकल्पात् किश्चित् समधिकगाथाकदम्बकं कृतवन्तः / परं द्विधा विनेयाः-योग्या अयोग्याश्च / तत्र योग्या ये रङ्गत्संवेगतरङ्गिणीतरङ्गप्रक्षालिताऽऽन्तरमलाः परिमलितबुद्धयः समस्तसिद्धान्तमहार्णवपारीणाः परिणतवयसः सार्वपथीनप्रतिभाप्राग्भारसारचेतसः सततमुत्सर्गापवादगोचराऽऽचारचतुराश्विरप्रव्रजिताः / ये त्वेतद्विपरीताः तिन्तिणिकादयश्चाग्रतो वक्ष्यमाणस्वरूपाः तेऽयोग्याः / एतेषामयं जीतकल्पो न दातव्यः / यतः-आमे घडे निहित्तं जहा जलं तं घडं विणासेइ / इय सिद्धंतरहस्सं अप्पाहारं विणासेइ' // 1 // अतो योग्यानामेव दातव्यः / अत्र चादौ पूर्वजोतकल्पगतास्तद्रूपा एव चतुर्विशतिगाथाः सन्ति / तासां व्याख्याऽपि प्रायस्तद्रूपैव / तथाहि-सर्वाण्यपि शास्त्राणि मङ्गलाभिधेयप्रयोजनप्रतिपादनपुरःसराण्येव प्रणीयन्ते / विशेषतो निश्शेषकल्मषकरीपंकषो जीतकल्पस्ततस्तस्यादौ मङ्गलादिप्रतिपादिकेयं गाथा कयपवयणप्पणामो वुच्छं पच्छित्तदाणसंखेवं / जीअव्यवहारगयं जीवस्स विसोहणं परमं // 1 // . व्याख्या-प्रकर्षण-परसमयापेक्षया यथावस्थितभूरिभेदप्रभेदैरुच्यन्ते जीवाजीवादयः पदार्था अनेनाऽस्मिन्निति वा प्रवचनं-सामायिकादि बिन्दुसारपर्यन्तं मुख्यतः श्रुतज्ञानम् उपचारात् तत्रोपयुक्त