________________ अवधावित प्रत्यावृत्तसाधुविषयप्रायश्चित्तम् 135 शुकपुद्गलनिष्कासनं करकर्मेति यदुच्यते, चकाराल्लिङ्गभ्य स्नेहादिना म्रक्षणादिकं च तस्मिन् सक्लिष्टकर्मणि / 'दीहद्धाणासेविसु 'त्ति / षष्ठीसप्तम्योरथं प्रत्यभेदः , ततो दीर्घाध्वनि यदाधाकर्म अध्वकल्पादिकं च शुष्ककदलीफलादिवरणात्मकं तदाऽऽसेविनां, ग्लानकल्पावसाने च / ग्लानकल्पो ग्लानाचारः-आधाकर्मिक्वाथपथ्याशुपजीवनं सन्निधीभूतचूर्णाद्यासेवनं वा तस्य ग्लानकल्पस्यावसाने नीरोगित्वे जाते सतीत्यर्थः / चः समुच्चये / सर्वोपधिकल्पे च-वर्षारम्भं विनापि सर्वोपधेः कल्पे-क्षालने कृते सति 'पुरि मत्तापेहणे अ चरिमाए' सूचकत्वात् सूत्रम्य पुरि त्ति पौरुष्य ' चरिमाए' त्ति चरमभागोनायां प्रथमपादोनप्रहरे सतीत्यर्थः / मात्राप्रेक्षणे मात्रकस्य-भिक्षापात्रकस्य प्रमादेनाप्रतिलेखने. चातुर्मासिके वार्षिके पर्युषणाख्ये पर्वणि शुद्धौ प्रक्रान्तायां वर्षारम्भकालेऽपि सर्वोपधिधावनिकाप्रान्ते च पञ्चकल्यं सर्वेष्वप्येतेषु पदेषु शोधकं पञ्चकल्याणकं प्रायश्चित्तं भवतीत्यर्थः / अत्राह-दर्पतः पञ्चेन्द्रियबधादौ दीयतां नाम प्रायश्चित्तं, चातुर्मासिकवार्षिकेषु चातिचाराभावे कथं प्रायश्चित्तम् ' इति / अत्रोच्यतेप्रादोषिका-र्द्धरात्रिक-वैरात्रिक-प्राभातिकाख्यकालानां कदाचिदग्रहणं, सूत्रार्थपौरुष्योर्जात्वऽकरणम् अप्रतिलेखितादि चेत्यादीन् सूक्ष्मातिचारान् कृतानपि यतो न जानाति न वा स्मरति / ततश्चातुर्मासिकवार्षिकेषु निरतिचारस्यापि प्रायश्चित्तं भवति / ननु वर्षारम्भकाले सर्वोपधिधावनं सिद्धान्तोक्तमेव / ततः कथं तदा सर्वोपधिधावने प्रायश्चित्तम् ? उच्यते-तदापि सिद्धान्तोक्तविधिना यतनापुरस्सरमपि धाव्यमानेषु वस्त्रेषु कथञ्चिद्वायुविराधनारूपः षटपदिकोपमर्दाविरूपो वाऽसं मोऽपि सम्भाव्यते, ततः तच्छुद्धयर्थं तत्र प्रायश्चित्तम् / ओघनिर्युक्तौ तु तत्रैककल्यमेवोक्तमस्ति / चकारद्वयं चात्र गाथायां समुच्चयार्थ 'पुरि मत्तापेहणे अ चरिमाए' इत्यत्र तु यश्चकारः सोऽनुक्तसमुच्चयार्थः / तेन यधुपोषितः कश्चिञ्चरमायां पौरुष्यामपि पात्रकानि न प्रतिलेखयति, आस्तां प्रथमायां तदा तस्यैककल्याणकं दीयत इति समुच्चीयते / / अथ कर्मवशावधावित-प्रत्यावृत्तसाधुविषयप्रायश्चित्ताभिधित्सया गाथायुगलमाहसंविग्गो साविक्खो कम्मवसोहाविओ निरईआरो / तद्दिणनिअत्तसुद्धो न तस्स उवही वि उवहम्मे // संविग्गे अमणुन्ने एवं वसि आगए नवरि लहुगो / पासत्थाइसु लहुगा सच्छंदि गुरुगा उवहिघाओ / ___ व्याख्या-कश्चित्साधुः कर्मवशात् -चारित्रमोहनीयकर्मोदयवशादवधावितो-दुस्सहपरीषहपरो. जिततया गणादपगतस्ततः केनाप्यनुशिष्टः स्वयं वा प्रत्यावृत्तपरिणामः पुनः संविग्नः-सञ्जातसंवेगः समुत्पन्नज्ञानदर्शनचारित्रसमाराधनोद्यम इत्यर्थः / ततः सापेक्ष:-संयमसापेक्षचित्तो, निरतीचार:सर्वातीचारविवर्जितो यदि तस्मिन्नेव दिने निवृत्तः-पुनः स्वगणमध्ये समायातः, तदा शुद्धः-प्रयश्चित्तभोग न भवति उपधिरपि तस्य नोपहन्यते / साधुनामकल्प्यो न स्यात् / अथवा संविग्नेषु-संयमोद्यतेषु साधुषु अन्यसाम्भोगिकेषु मध्येऽसावुषित्वा आगतस्तदाप्येवम्-अमुना प्रकारेण तस्योपधिर्नोपन्यते, परं तस्य लघुमासः प्रायश्चित्तं भवति / अथ पार्श्वस्थादिषूषित्वा समागतस्तदा तस्य चतुर्लघुकाः / अथ स्वच्छन्देषु यथाछन्देषु उषित्वा यद्यागतस्तदा तस्य चतुर्गुरुकाः पार्श्वस्थादिकेषु च वसतः साधोरुपधिघातोऽपि भवति / अथ संविग्नादिभिरनुशिष्टः साधुनिवृत्तः परं तद्दिने एव गच्छे न मिलितो, न च बजिका-सङ्खडिकादिषु प्रतिबद्धः, ततः चिरेणापि मिलितस्य तस्योपधिर्नोपहन्यते / अथ पार्श्वरादीन् परिहरन्नेकाकी रात्रौ यदि