________________ यति-जीतकल्पे मरणम् , अतिवेगेनास्थण्डिले छर्दनं तत्र षट्कायविराधना / यच्चात्मानमग्लानं ग्लानं करोति तनिष्पन्न च प्रायश्चित्तम् / तथासुइमाई इक्विका गुरुण सेसाण वंससिंगसुई / गिहिमाइणा तदुत्तरकरणे गुरुगो तहाणाई // 236 / / व्याख्या- सूची-लोहमयो वस्त्रादिसीवनोपकरणम् , आदिशब्दान्नखहरणी-कर्णशोधनादिकमौपग्रहिकोपकरणम् / एतान्येककान्येव गुरूणां भवन्ति / शेषा अपि तैरेव कार्यं कुर्वन्ति / अथवा महान्तं गच्छमाश्रित्य शेषसाधूनामेकैका वंशमयी शङ्गमयी वा सूची भवति / गृहिणा गृहस्थेनादिशब्दादन्यतीर्थिकेन तस्य सूच्यादेरुत्तरकरणे समारचनरूपे कारिते सति गुरुमासः तथा आज्ञादयो दोषाः / / अथ पञ्चकल्यप्रायश्चित्तशोध्यमपराधजातं पादोनगाथाद्वयेनाहसाहहिं लेहसालं चिगिच्छचप्पुडिअरक्वडिअखडिअं / सिसुकीलनघरकम्मं कयविक्यमेसिमेहि वा / / कंकणिअकंडगाई गणत्तिआहारपोअणाई तहा / कारिते पणकल्लं लहू तदन्भंग पयधुवणे // 238 // व्याख्या- इदं गाथाद्वयं श्राद्धजीतकल्पसम्बद्धं तेन तत्प्राधान्येन प्रायश्चित्तमत्र निबद्धं प्रतुते प्युपयोगीत्यत्रापि लिखितमतोऽत्र साधुप्राधान्येन प्रदश्यते, यथा-यदि साधुभिः श्राद्धो लेखशालां-शिशु. पाठनरूपां कारयति / चिकित्सा-रोगप्रतीकारं / चपुटिकां रक्षाटिकां खटिकां शिशुक्रोडनं गृहकर्म वा धवलनचित्रकरणादि कारयति, तदा साधोरेतानि कुर्वाणस्य प्रत्येकं पञ्चकल्यं भवति / तथा एतेषां गृहस्थानां सम्बन्धिवस्तुनः क्रयविक्रययोः करणे, एतैर्वा गृहस्थैः स्वसम्बन्धिवस्तुक्रयविक्रयविधापने पञ्चकल्यम् / तथा कङ्कणिका-कराभरणं कण्डकं-वलयम् , अदिशब्दात आभरणसमारचनादि / तथा गणेत्रिकाहारप्रोतनादि / आदिशब्दादन्यदप्येवंविधं साधुजनानुचितगृहकर्म गृहस्थो यत्र कारयति तत्र साधोः प्रत्येकं पञ्चकल्यं प्रायश्चित्तं भवति / तथा तेन गृहस्थेन गात्राभ्यङ्गविधापने पादधावने च लघुमासः / / अथ कल्यशोध्यमपराधमाहसंसद्वदाणगहणे कल्लं निज्जूहणा अणुवसंते / पडिलेहणकालंमि वि फिडिए कलं'पमत्तस्सा // 239 // व्याख्या-संसृष्टमुच्छिष्टं भक्तादि तस्य दाने ग्रहणे च साधोघट्टयित्वा-त्वयैवं पुनर्न कार्यमित्युक्त्वा कल्यं प्रायश्चित्तं गुरुदत्ते / तथा अनुपशान्तस्य-तस्माद्दोषादनिवृत्तस्य दायकस्य ग्राहकस्य च नियूहणा-गणान् निष्कासनं भवति / तथा प्रतिलेखनाकालेऽपि स्फिटिते-प्रमादपरवशतया अतिक्रान्ते प्रमत्तस्य माधोः कल्यं भवति / पुनः कल्याणकप्रायश्चित्तशोध्यातिचारस्थानानि गाथायगलेनाहदप्पेणं पंचिंदियवोरमणे संकिलिट्ठकम्मे अ / दीहद्धाणासेविसु गिलाणकप्पावसाणे अ // 24 // सव्योवहिकप्पमि अ पुरि मत्तापेहणे अ चरिमाए / चउमासवरिससव्वुवहिधुवणअंते अ पणकल्लं / व्याख्या-दो-धावनवल्गनडेपनादिः प्राग्व्याख्यातः / तं कुर्वता पञ्चेन्द्रियव्यपरोपणं विघांतनं कृत स्यात् तस्मिन् दर्पण पञ्चेन्द्रियव्यपरोपणे / संक्लिष्टं कर्म यदङ्गादानस्य-लिङ्गस्य करपरिमद्दनेन