________________ वीर्याचारविषयं प्रायश्चित्तम् 133 सिआ एगयओ लटुं विविहं पाणभोअणं / भद्दगं भगं भुच्चा विवन्नं विरसमाहरे / / जाणंतु ता इमे समणा आयअट्ठी (मोक्षार्थी) अयं मुणी / संतुट्ठो सेवए पंत लहवित्तीसु तोसओ' / / इत्यादिकासु यशोऽर्थं कृतासु मायासु पुनश्चतुर्गुरुकाः / तथाविज्जाइसुविणलक्षणकोउअभूईनिमित्तपसिणेसु / गिहिणा उवहिवहावणि वमणविरेआइसु अ लहुगा व्याख्या-विद्या-स्त्र्यभिधाना सोपचारसाधना वा, आदिशब्दान् मन्त्र-योगा गृह्यन्ते / तत्र मन्त्रःपुरुषाभिधानः पठितसिद्धो वा, वशीकरणविद्वेषणोच्चाटनपादलेपान्तर्दानादिका योगा अनेकविधास्ते पुनः सर्वेऽपि सविद्या अविद्या वा भवन्ति / स्वप्नं-सुप्तजागरावस्थायां प्रायो यद् दृश्यते तच्च शुभाशुभमागामिसुखदुःखनिमित्तं भवति / लक्षणं द्विधा-बाह्यमभ्यन्तरं च / तत्र बाह्यं स्वरवर्णादि / अभ्यन्तरं स्वभावसत्त्वादि / तत्र प्राकृतमनुष्याणां बाह्यानि द्वात्रिंशल्लक्षणानि भवन्ति / बलदेववासुदेवानामष्टोत्तरं शतम् / चक्रवर्तितीर्थकराणामष्टात्तरं सहस्रम् ! यानि हस्तपादादिषु स्फुटानि लक्ष्यन्ते तेषामिदं प्रमाणं, यानि पुनरन्तः स्वभावसत्त्वादीनि तैः सह बहुतराणि भवन्ति / उपलक्षणाद्वयञ्जनमपि ज्ञेयम् / लक्षणव्यञ्जनयोरयं विशेषः-मानान्मानादिकं लक्षणं, मषतिलकादिकं व्यञ्जनम् / अथवा शरीरेण सहोत्पन्नं लक्षणं पश्चात्समुत्पन्नं व्यञ्जनम् / मानोन्मानप्रमाणानां चेदं व्याख्यानं - .. जलदोणमद्धभारं समुहाइं समुस्सिओ व जो नव उ / माणुम्माणपमाणं तिविहं खलु लक्खणं एआ। कौतुकं-निन्दुप्रभृतीनां श्मशानचत्वरादिषु स्नानविधापनम् / भूतिकर्म-रक्षानिमित्तं विद्याभिमन्त्रितरक्षाप्रदानम् / निमित्तमतीतादिकालत्रयगतलाभोलाभसुखदुःखादिकथनम् / प्रश्नो-नानाविधा लोकपृच्छा लग्नबलादिना तस्य कथनम् / प्रश्नात्प्रश्नो वा / स चायं स्वप्नमध्ये विद्या किञ्चित्कथयति / अथवा विद्याभिमन्त्रिता घण्टिका कर्णमूले चाल्यते तत्र देवता कथयति तस्य परेषां कथनं, ततो विद्यामन्त्रसविद्ययोगप्रयोगे स्वप्नलक्षणव्यञ्जननिमित्तप्रश्नकथने कौतुकभूतिकर्मकरणे, उपलक्षणत्वानिधानधातुवादकथने शिल्पद्वासप्ततिकलाशिक्षणे मार्ग पृच्छतां मार्गकथने च चतुर्लघुकाः प्रायश्चित्तं भवति / अविद्ययोगप्रयोगे तु मासलघु / मिश्रे पुनः संयोगप्रायश्चित्तम् / तथा गृहिणा-गृहस्थेनाऽन्यतीर्थिकेन वा उपधेः-स्वोपकरणस्य वाहने चतुर्लघुकाः / आज्ञादयश्च दोषाः / इमे चापरे-स गृहस्थोऽन्यतीर्थिको वा उपकरणं पातयेत् भाजनं वा भिन्द्यात् , मलिने दुर्गन्धे चोपकरणे जुगुप्सां कुर्यात षट्पदिका वा पातयेत् मारयेद्वा। अयोगोलकल्पो वाऽसौऽस्थण्डिले पृथिव्यादौ स्थापयेत् तद्भारेण वा तस्यात्मविराधना भवेत तत्र परितापनादि, यच्च पश्चादौषधभेषजानि कुर्वन् विराधयति तन्निष्पन्नं च तस्य प्रायश्चित्तं स्यात् / स वा तदुपकरणं हरेत् तस्यानुपयुक्तस्याऽन्यो हरेत्, ग्लानत्वादिकारणैः पुनरुपकरणवाहनेपि न दोषः। तथा वमनमूवं विरेचः / विरेचोऽधःश्रावणम् , आदिपदात्तैलादिना गात्राभ्यङ्गः वर्णबलादिनिमित्तं घृतादिस्नेहपानं रूपमेधास्वरमाधुर्यादिनिमित्तं रसायनसेवनं, वलिपलितनाशनार्थमौषधकरणं नासाऽर्शःप्रभृतिरोगनाशनार्थं तस्य करणं बस्तिकर्म च / एतेषु वमनविरेचादिषु निष्कारणं कृतेषु चतुर्लघुकाः प्रायश्चित्तम् / इमे च दोषाः। अतीव वमने मरणं, वमननिरोघे कुष्ठं, व!निरोधे