________________ 118 यति-जीतकल्पे सोधुसाध्वीवर्गों भयान्न कामप्यक्रियां करोति स भीतपरिषत् / तत्र प्रथमभङ्गे वर्तमानः संयतीपरिवर्त्तने समुचितः, शेषेषु त्रिषु भङ्गेषु वर्तमानो नानुज्ञातः / यदि परिवर्त्तयति तदा चतुर्गुरुकाः / यतो द्वितीयभड़े आत्मना सहिष्णः परमभीतपरिषत्तया स्वच्छन्दप्रचाराः सत्यो यत किमपि ताः करिष्यन्ति तत् सर्वमयमेव प्राप्नोति / तृतीयभङ्गे तु स्वयमसहिष्णुतया तासामङ्गप्रत्यङ्गादीनि दृष्ट्वा यदाचरति तन्निष्पन्नम् / चतुर्थभङ्गे द्वितीयतृतीयभङ्गदोषांश्वाप्नोति / प्रथमभङ्गवर्तिनश्चाचार्यस्य यथावत संयतीपरिवर्त्तने अतिमहती कर्मनिर्जरा यदुक्तं_ 'जइ पुण पव्वावेई जावज्जीवाए ताउ पालेई / अन्नासति कप्पे वि हु गुरुगा जं निजरा विउला'। यदीत्यभ्युपगमे / ततश्चायमर्थः-ताः प्रथमतोऽपि यतस्ततः प्रव्राजयितुं न कल्पन्ते / यदि पुनः प्रव्राजयति ततो यथोक्तविधिना यावज्जीवं ताः पालयति-योगक्षेमविधानेन सम्यग निर्वाहयतीत्यर्थः / स प्रथमभङ्गवी यदि जिनकल्पं प्रतिपित्सुरपरं चार्यिकाः परिवर्त्तयितव्याः / ततः किं करोत्विति चिन्तायां यद्यस्ति तदीये गच्छे कोऽप्यार्यिकाणां विधिना वर्तापकः ततः तस्य समर्प्य जिनकल्पं प्रतिपद्यते / अथ नास्त्यन्यो वर्त्तापकः तर्हि मा जिनकल्पप्रतिपत्तिं करोतु किन्तु आर्यिका एव परिवर्तयतु / कुत ? इत्याह अन्यस्य वर्त्तापकस्यासति-अभावे जिनकल्पेऽपि प्रतिपद्यमाने हुनिश्चये, चत्वारो गुरुकाः। आह-सकलकर्मक्षयाक्षुण्णकारणे जिनकल्पेऽपि प्रतिपद्यमाने किमेवं प्रायश्चित्तम् ? आह-यद्यस्मात्कारणात् जिनकल्प प्रतिपन्नस्य या निर्जरा तस्याः सकाशोत् विपुला निर्जरा यथावत् संयतीः परिपालयतो भविष्यतीति युक्तियुक्तमेव प्रायश्चित्तम् / तथाभिन्नमपेहे वसही सयणासणदंडथंडिलकडीणं / सज्झायकालगोअरचरिआई अपडिकमणे अ॥ व्याख्या-वसतिः-उपाश्रयः शयनं-शय्या आसनं-पीठकादि दण्डो-बाहुप्रमाणा यष्टिः स्थण्डिलं -प्रस्रवणोच्चारादि-व्युत्सर्जनभूमिः कटी-वंशखण्डादिमयीद्वारपिधानम् / एतेषामप्रत्युपेक्षणे प्रत्यु. पेक्षणां प्रमार्जनां च विनापि व्यापारणे प्रत्येकं भिन्नमासः / तथा स्वाध्यायकालगोचरचर्याणामप्रतिक्रमणेस्वाध्यायकालगोचरचर्याप्रतिक्रमणविस्मारणे प्रत्येकं भिन्नमासः / अत्र च निशीथादिभाष्यगतानां श्रीजिनभद्रगणिक्षमाश्रमणप्रणीतजीतसूत्रगतानां सुविहितजनाचीर्णजीतसमाचारीगतानां च गाथाना तद्रपाणामेव प्रायः सङ्गहीतत्वात् क्वचित् किश्चित् पदं पुनरुक्तमप्यदुष्टम् / / तथावरिसंताणि अभोगे लहुगा गुरुगा अकालसन्नाए / दगमट्टिजलुगमुअणे दगपिअणे लहुग सन्नाए / . व्याख्या-वर्षात्राण्याः-कम्बल्या वर्षादौ जलादिविराधनायां सत्योमभोगे-विनाशभयादिना अव्यापारणे चतुर्लघुकाः / अथवा वर्षति-वृष्टिं कुर्वति वारिदे यदानीतं भक्तादि तस्य भोगे-व्यापारगे चतुर्लघुकाः / अस्य पदस्यार्थोऽन्यथापि चिन्त्यः / अकालसञ्ज्ञायाम्-अकाले रजन्यां सञ्ज्ञाया व्युत्सर्जने चतुर्गुरुकाः / तथा निःकारणे मात्रके सज्ञां व्युत्सृज्य यः परिष्ठापयति तस्य मासलघु / मात्रके सज्ञा. व्युत्सर्जने चेमे दोषाः / शैक्षा गन्धेन दर्शनेन वो विपरिणामं व्रजेयुः जुगुप्सां वा कुर्युः / सागारिको वा दृष्ट्वा उडाहं कुर्यात् / अहो ! इमे अशुचयः सर्वलोकं विटालयन्तीति / भाजनभेदं वा विदध्यातू / ग्लानः