________________ साध्वीनां वस्त्रदानविधिः नखान्तरे सञ्ज्ञा तिष्ठत्यतोऽशुचय एते / पादनखेषु च दीर्घष्वन्तरे रेणुस्तिष्टति तया च चक्षुरुपहन्यते / एतद्दोषपरिहरणार्थ नखकर्त्तनं कुर्वन्नपि शुद्धः / तथा व्रणगण्डभगन्दरादिषु रोमाण्युपघातं कुर्वन्तीतिरोमच्छेदने शिरोरोगिणो वा केशकर्तने न दोषः / दन्तरोगे काष्ठादिना दन्तघर्षणे न दोषः / तथा आदर्शस्फटिकादिमणिजलतेलघृतादिभाजनादिषु स्वं मुखं रूपं वा विलोकमानस्य चतुर्लघु प्रायश्चित्तम् / आज्ञाभङ्गादयो दोषाः / इमे चान्ये / आदर्शादिषु आत्मानं रूपवन्तं दृष्ट्वा विषयान् भुनज्मीति प्रतिगमनं कुर्यात् / अन्यतीर्थिकेषु वा प्रविशति / सिद्धपुत्रो वा भवति / सिद्धपुत्री वा सेवते, स्वलिङ्गन वा संयतीं प्रतिसेवते, विरूपं वात्मानं दृष्टवा निदानं कुर्यात् , देवताराधनवशीकरणयोगादि वा शरीरबाकुश्यं वा कुर्यात् / आदर्श वाऽऽत्मनो रूपं दृष्ट्वा शोभेऽहमिति गौरवं कुर्यात् / रूपेण हृष्टो विरूपो वा विषादेन क्षिप्तादिचित्तो भवेत् / सागारिकैर्वा हष्टे उड्डाह-एष न तपस्वी कामी एषोऽजितेन्द्रिय इति / रोगादिकारण पुनरादर्शादिष्वात्मरूपविलोकनेऽपि न दोषः / तथा कपाटस्य प्रेरणे-अयतनयाऽग्रतः पश्चाच्च क्षेपणे लघुमासः / तथा काले-आवश्यकवेलायामप्रतिक्रमणे-आवश्यकाकरणे लघुकाश्चत्वारो भवन्ति / तथा मण्डल्यां-यथाज्येष्ठानुक्रमव्यवस्थितसाधुश्रेणिरूपायामप्रतिक्रमणे च कृते प्रतिक्रमणाऽकरणे / कुत्सितं शोलमाचारो येषां ते कुशीलाः पार्श्वस्थावसन्नादयस्तैः सार्धं प्रतिक्रमणे च कृते चतुर्लघुका भवन्ति / / गुरु उवहिअपडिलेहे छप्पइअ असोहि कमतदग्गहणे / लहुगा गुरुगजाणं सयमेव य वत्थपायगहे // व्याख्या-गुरुणामाचार्याणां परिभोग्यस्योपधेरप्रतिलेखने, षट्पदिकोनामशोधने क्रमेण-परिपाट था विभज्य तासामग्रहणे च चत्वारो लघुको भवन्ति / उपलक्षणत्वात् प्रपन्नानशनग्लानत स्विस्थविरप्राघूर्णकशक्षाणामुपधेरप्रत्युपेक्षणे चतुर्लघुकाः / तथा आर्याणां संथतीनां गृहस्थसकाशात् स्वयमेव वस्त्रपात्रग्रहणे चतुर्गुरुकाः / यतः संयतीनां गृहस्थेभ्यः स्वयमेव वस्त्रादिग्रहणे अनेकदोषाः सम्भवन्ति / तथाहि-संयतों गृहस्थाद्वस्त्राणि गृह्णन्तीं दृष्ट्वा कोऽप्यभिनवश्राद्धो मिथ्यात्वं गच्छेत् / निर्ग्रन्थ्योऽपि भाटिं गृहन्तीति शङ्कते . वा। गृहस्थो वा वस्त्राणि दत्त्वा मैथुनमवभाषेत प्रतिषिद्धे चैषामेव वस्त्राणि गृहित्वा उक्तं न करोतीत्युडहं कुर्यात् / स्त्री च स्वभावेनाल्पसत्त्वा ततो येन तेन वा वस्त्रादिनाऽल्पेनापि लोभ्यते, लोमिता चाऽकार्यमपि करोति / बहुमोहा च स्त्री, ततः पुरुषैः सह संलापं कुर्वत्या वस्त्राणि गृह्णन्त्याश्च तस्याः पुरुषसम्पर्कतो मोहो दीप्यते / उदाररूपां वा संयती दृष्ट्वा कार्मणादिना कश्चिद्वशीकुर्यात् / वशीकृता च चारित्रविराधनां करोति / तस्माद् निर्ग्रन्थीभिः गृहस्थेभ्यः स्वयं वस्त्राणि न ग्राह्याणि. किन्तु तासां तानि गणधरेण दातव्यानि / तत्रायं विधिः-संयतीप्रायोग्यमुपधिमुत्पाद्य सप्त दिनानि स्थापयति / ततः कल्पं कृत्वा स्थविरं स्थविरां वा परिधापयति / यदि नास्ति विकारस्ततः सुन्दरम् / एवं परीक्षामकृत्वा यदि ददाति तदा चतुर्गुरुकम् / तं च परीक्षितमुपधिमाचार्यो गणिन्याः प्रयच्छति / गणिनी च संयतीनां विधिना ददाति / अथाचार्यः स्वयं तासां ददाति तदा चतुर्गुरुकम् / यतः काचिन् मन्दधर्मा भणेदस्याश्चोक्षतरं दत्तम् / एषाऽम्येष्टा यौवनस्था च / एवमस्थाने स्थापयति / तस्मादाचार्येण प्रवर्त्तिन्या एव प्रदातव्यम् / आचार्यश्च संयतीवर्तापकः प्रथमभङ्गवर्ती अनुज्ञातो. न शेषभङ्गत्रयवर्ती / ते चामी भङ्गाः-सहिष्णुरपि भीतपरिषदपि 1, सहिष्णुर्न भीतपरिषत् 2, असहिष्णुः परं भीतपरिषत् 3, असहिष्णुरभीतपरिषच्च 4 / तत्रेन्द्रियनिग्रहसमर्थः संयतीप्रायोग्यक्षेत्रवस्त्रपात्रादीनामुत्पादनायां प्रभविष्णुः सहिष्णुरुच्यते / यस्य तु सर्वोऽपि