________________ 116 यति-जीतकल्पे अइभार चुडण पणए सीअलपाउरणजीरगेलन्ने / ओहावण कायवहो वासासु अधोवणे दोसा / / वर्षाकालादर्वागपि यदि वासांसि न प्रक्षालयन्ते तदानीमतिभारः-सर्वतः सलिलमयीसु वर्षासु क्लिन्नमलसम्पर्कतो वासांसि गुरुतरभाराणि भवन्ति / तथा चुडणंति / वाससामधावने वर्षासु जीर्णताभवनेन शाटो भवति / न च वर्षासु अभिनववस्त्रग्रहणं न चाधिकः परिग्रहस्ततो वस्त्राभावे ये दोषाः समये प्रसिद्धास्ते सर्वेऽपि यथायोगमुपढौकन्ते / तथा मलक्लिन्नेषु वस्त्रेषु पनकः सञ्जायते / तथा वर्षासु शीतलोभूतवाससां प्रावरणे भुक्ताहारस्याजीर्णतायां ग्लानत्वमुपजायते / तथा च सति प्रवचनम्यापभ्राजना / यथा अहो! बठरशिरोमणयोऽमी तपस्विनो ये नाम वर्षास अप्रक्षालितानां वाससां परिभोगे मान्द्यमुपजायते इत्येतदपि नावबुध्यन्ते-ते पृथग्जनापरिछेद्यं स्वर्गापवर्गमार्गमवगच्छन्तीति दुःश्रद्धेयम् / तथा भिक्षाद्यर्थं विनिर्गतस्य साधोर्मेघवृष्टौ मलिनवस्त्रकम्बलसम्पर्कतोऽप्कायविराधना / एते वर्षासुवर्षाप्रत्यासन्नकाले वस्त्रादीनामप्रक्षालने दोषास्तस्मादवश्यं वर्षाकालादर्वाग् वासांसि प्रक्षालनीयानि / ये च सम्पातिमसत्त्वोपघातादयो दोषाश्चीवरप्रक्षालने प्रोक्तास्तेऽपि सूत्रोक्तनीत्या यतनया प्रवतमानस्य न सम्भवन्ति / यो हि सूत्राज्ञामनुसृत्य यतनया सम्यग् प्रवर्त्तते स यद्यपि कथञ्चित् प्राण्युपमईकारी तथापि नासौ पापभाग भवति / नापि तीव्रप्रायश्चित्तभागी। सूत्रे बहुमानतो यतनया प्रवर्त्तमानत्वात् / / सूत्रं चेदंअप्पत्ति च्चिअ वासे सव्वं उवहिं धुवंति जयणाए / असइए उदगस्स य जहन्नओ पायनिज्जोगो / / आचार्यादीनां पुनरकालेपि वस्त्रधावने न दोषः / यदुक्तं'आयरिअ-गिलाणाण य मइला मइला पुणोवि धोवंति। मा हु गुरूण अवण्णो लोअंमि अजीरणं इअरे'। ततश्च शेषसाधोरकाले ऋतुबद्धकाले कल्प-चोलपट्टादेः कियन्मात्रस्योपधेः प्रक्षालने षड्लघु प्रायश्चित्तं, सर्वस्य तूपधेरकालधावने प्रायश्चित्तम भणिष्यते / तथा पुष्पितस्य-पनकजीवाश्रितस्योपधेः प्रक्षालने अण्डस्य-चटकादिसत्त्वस्योपद्रवे-प्रमादादिना विनाशे च षड्गुरु / तथा मात्रकं विना बहिः केवलभूमावेव निरोधे कृते चतुर्लघुकाः / लोहे सूचीनखहरणिकादिके नष्टे चतुर्गुरुकाः / तथालहु कायभंग कवाडपिल्लणे लहुग कालऽपडिकमणे / मंडलिअपडिक्कमणे समं कुसीलेहिं पडिक्कमणे // व्याख्या-कायस्य-शरीरस्याभ्यङ्गस्तैलादिना मर्दनम् / अस्थिमांसरोमत्वक्सुखप्रदा सम्बाधनेत्यर्थः / तस्मिन् कायाभ्यने निष्कारणे कृते कोरिते च लघुमासः / एवं कायस्य कल्कादिना उद्वर्त्तने मलप्रस्वेदस्फेटने नखसंस्करणे दीर्घरोमकर्त्तने काष्ठादिना दन्तधावने अलक्तकादिरङ्गेन नखादिरजने च लघुमासः / आज्ञाभङ्गादयश्च दोषाः / इमे चापरे दोषाः। गाढसम्बाधनायां चर्मापनोयते. अस्थिभङ्गो वा भवेत, अभ्यङगे च मक्षिकादिसम्पातिमजीववधः / मलम्फेटननखसमारणादौ आत्मपरमोहोदीरणं बाकुश्यदोषः / सूत्रार्थपरिमन्थः। साधुझियाविपर्ययः श्रावकमिथ्यादृष्टिलोके वा परिवादः / अभ्यङ्गादिकरणेन परिज्ञायते न साधुरिति / वातादिरोगमार्गश्रमादिना कारणेन पुनरभ्यङ्ग उद्वर्त्तनं वा कारयन्नपि शुद्धः / एवमनाभोगादिना मलाद्यपनयन्नपि शुद्धः / तथा पादनखा दीर्घाश्चक्रमणे उपलादिषु आरिफटन्ति, भज्यन्ते वा हस्तनखा, माजनलेपं विनाशयन्ति, देहे वा क्षतं कुर्वन्ति / तथा च लोको भणेदेष कामी कामिनीकृतक्षतत्वादिति / लोकश्च भमति दीर्घ