________________ ऋतुबद्धकाले उपधिधावने दोषाः 115 चउरंगुलदीहो वा वट्टागिइमुट्ठीपुत्थगो अहवा / चउरंगुलदीहु चिय चउरंसो होइ विन्नेओ / / दीहो वा हस्सो वा जो पिहुलो होइ अप्पबाहल्लो / तं मुणिअसमयसारा छिवाडिपुत्थं भयंतीह / / संपुडगो दुगमाइ-फलगा / गोमहिषाऽजैडकमृगाणां चर्माणि चर्मपञ्चकम् / द्वितीयमपि चर्मपञ्चक भवति / यथा-तलिगाखल्लगवद्धे कोसगकत्ती अ बीअंतु / कोशकाद्याधारं चर्म / कृत्तिः प्रलम्बविकर्तनाय / अत्र च तृणपञ्चके दुष्प्रतिलेख्यदूष्यपञ्चके चर्मपञ्चके च निष्कारणपरिभुक्ते लघुमासः / अप्रतिलेख्यदूष्यपञ्चके गुरुमासः / पुस्तकपञ्चके च गृहीते चतुर्लघुकाः / यच्च त्रसानां द्वीन्द्रियादीनाम् पुस्तकान्तर्गतानां वा वधे आपद्यते तदपि च प्रायश्चित्तं भवतीत्यर्थः। त्रसविराधना च पुस्तकेष्वित्थमुक्ता / ___ जइ तेसिं जीवाणं तत्थ गयाणं तु लोहिअं हुज्जा / पीलिज्जते धणिअंगलिज्ज तं अक्खरे फुसिउं॥ यदि तेषां तत्र गतानां-पुस्तकपत्रान्तरस्थितानां जीवानां कुन्थुप्रभृतीनां लोहितं भवेत्। ततः पुस्तकबन्धनादिकाले तेषां धणियं-गाढतरं पीडयमानानां तत् रुधिरमक्षराणि स्पृष्ट्वा बहिः परिगलेत् / अत एवजत्तिअमित्ता वाराउ मुंचई बंधई व जइ वारा / जइ अक्खराणि लिहइ तइ लहुगा जं च आवज्जे / / यावन् मात्रान् वारान् पुस्तकं मुञ्चति-छोटयति / यति वारांश्च बध्नाति / यति वा यावन्ति अक्षराणि लिखति / तति-तावन्ति चतुर्लघूनि / यच्च कुन्थुपनकादीनां सङ्घट्टनं परितापनमपद्रवणं वा आपद्यते तन्निष्पन्नं च प्रायश्चित्तं भवति / द्वितीयपदेन तु मेधाधारणादिपरिहाणि विज्ञाय कालिकोत्कालिकश्रुतस्य दानग्रहणादौ भाण्डागारमेवेदं भविष्यतीत्येवमर्थं पुस्तकपन्चकमपि गृह्यते / उक्तं च-पिप्पा पुत्थगपणगं कालिअनिज्जुत्तिकोसट्ठा / तथाछल्लहु अकालधुअणे फुल्लिअ-धुवणंडुवद्दवे छगुरू / मत्तविणु बहिनिरोहे लहुगा लोहे गुरुग नठे // व्याख्या-वर्षारम्भकालं विना यदुपधिप्रक्षालनं तदकालधावनं तच्च साधूनां न कल्पते / अनेकदोषसम्भवात् / उक्तं च ' उउबद्धधुवण बाओस बंभविणासो अट्ठाणठवणं च / संपाइमवाउवहो पावणभूओवधाओ अ // ऋतुबद्धे काले चीवरधावने चरणं बकुशं भवति उपकरणबकुशत्वात् / तथा ब्रह्मविनाशो-मैथुनप्रत्याख्यानभङ्गः। प्रक्षालितवासःपरिधानभूषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः / ततः कामिनीकटाक्षविक्षेपादिक्षोभितोऽवश्यं ब्रह्मचर्यादपभ्रश्यति / तथा अस्थानस्थापनम् / इयमत्र भावना-यदि कथञ्चित्तत्ववेदितया संयमविषयनिष्प्रकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति तथापि लोकेनासौऽस्थाने स्थाप्यते / यथा-नूनमयं कामी कथमन्यथात्मानमित्थं भूषयति / न खल्वकामी मण्डनप्रियो भवतीति / तथा सम्पातिमानां मक्षिकादीनां प्रक्षालनजलादिषु निपततां वायोश्च वधो भवति / तथा प्लावनेन-प्रक्षालनजलपरिष्ठापने पृथिव्यां रेलणेन भूतोपघातः पृथिन्याश्रितकीटिकादिसत्त्वोपमर्दो भवति / तस्मान्न ऋतुबद्धकाले वस्त्रं क्षालनीयम् / नन्वेते दोषा वर्षाकालादर्वागपि धावने सम्भवन्ति / ततस्तदानीमपि न चीवराणि प्रक्षालनीयानि / तन्न, तदानीं चीवराऽप्रक्षालने अनेकदोषसम्भवात् / उक्तं च