________________ यति-जीतकल्पे कोहे बहुदेवसिए आसवककोलमाइएसुं वा / लसुणाइसु लहुमासो तन्नाईबंधमुअणे अ॥२१२॥ व्याख्या-अत्र वाशब्दोऽनुक्तसमुच्चये / तेन पूर्वोक्तं चतुर्गुरु प्रायश्चित्तमाकृष्यते / ततश्च क्रोधे बहुदेवसिके-चिरकालीने पक्षाचातुर्मासकोचोपर्यपि रहिते चतुर्गुरु / तथा 'आसवककोलमाइएसु'। आसत्रोधातक्यादिभावितइक्षुरसस्तस्मिन् कथश्चित्पीत इति शेषः / कक्कोलादिषु-कक्कोललवङ्गपूगफलजातिफलताम्बुलादिषु च भक्षितेषु चतुर्गुरु प्रायश्चित्तम् / लशुनादिषु अचित्ते लशुने, आदिशब्दात् पलाण्डौ च भक्षिते / तथा तन्नाइ ति / तों-वत्स आदिशब्दात् मयूरतित्तिरादयः तेषां बन्धोन्मोचने लघुमासः / / भूतिगअपेह अझुसिरतण भिन्नं सेसपंचगेसु लहू / चउलहु पुत्थयपणए अपेहि पणगे गुरुगं च तसे // ___व्याख्या-इह साधुभिः चतुर्भागावशेषायां चरमपौरुष्यां प्रस्रवणोच्चारकालभूमयः प्रतिलेख्याः ताः सप्तविंशतिर्भवन्ति / तद्यथा-उपाश्रयस्य मध्ये कायिकाभूमयस्तिस्रोऽनधिसहनीया आसन्ने मध्ये दूरे चाधिसहनीया अपि तिस्रः / एवमेताः षट कायिकाभूमयो वसतिमध्ये / बहिरप्येवमेव षट् कायिकाभूमयः / एवं प्रस्रवणे द्वादश / एवं सञ्ज्ञाभूमयोपि द्वादश / तिस्रः कालमण्डलभूमयः / एवमेताः सर्वाः सप्तविंशतिः / ततो भुवां-प्रस्रवणोच्चारकालभूमीनां त्रिकं भूत्रिकं तस्याऽप्रत्युपेक्षणे भिन्नमासः / निशीथे तु लघुमासः आज्ञादयश्च दोषाः / अप्रतिलेखिते च स्थण्डिले यदि व्युत्सृजति ततः षट्कायविराधना / बिलादिसम्भवे अप्रतिलेखिते अहिवृश्चिकादिमिरात्मविराधना / स्थण्डिलं न प्रतिलेखितमिति न व्युत्सृजति यदि ततो मूत्रनिरोधे चक्षुर्विनाशः / वचोंनिरोधे जीवितनाशः / ग्लानकार्यव्याकुलत्वाग्निसम्भ्रमग्रामविकाल. प्राप्त्यादिकारणैः पुनरप्रतिलेखयन्नपि शुद्धः / तथा अशुषिरतृणेसु दर्भादिषु निष्कारणं पग्भुिक्तषु मिन्नमासः / शेषपञ्चकेषु लघुमासः। तानि च पञ्चकानि-तृणपञ्चकं 1 अप्रतिलेख्यदृष्यपञ्चकं 2 दुष्प्रतिलेख्यदूष्यपञ्चकं 3 पुस्तकपश्चकं 4 चर्मपञ्चकं चेति 5 / तत्र शालिव्रीहिकोद्रवरालकारण्यकतृणरूपं तृण. पञ्चकम् / तूली संस्कृतरुतादिभृता अर्कतूलादिभृता वा प्रतीता 1 आलिङ्गनिका पुरुषप्रमाणा या राजेति बद्धथा समालिङग्य राजान्तःपुर्यः शेरते 2 मस्तकोपधानं हंसरोमादिपुर्णमच्छीषकं 3 गल्लमसरिका४ पञ्चमो मसूरकश्चर्मकृतो वस्त्रकृतो वा बूयादिपुर्ण आसनक्रियायोग्यश्च कलकगष्टिकारूपः / 5 एतदप्रतिलेख्यदूध्यपञ्चकं सर्वथापि प्रत्युपेक्षितुमशक्यम् अन्तश्चक्षुरविषयत्वात् / कोयवि-प्रावारक-पूरिका-दाढिकालि-विरालिकाख्यं दुष्प्रतिलेख्यदूष्यपञ्चकं चक्षुषा सम्यगनिरीक्ष्यम् / तत्र कोयविर्नाम रूतपूरितपट्टरूपा या लोके माणिकीत्युच्यते / 1 प्रावारो बृहत्कम्बलो नेपालादिः प्रतिशीरा वा 2 पूर्यते स्तोकैरपि तन्तुभिः पूर्णा भवतीति पूरिका स्थूलशणगुणमयपट्टात्मिका यया धान्यगोणिकाः क्रियन्ते हस्त्योद्यास्तरणानि च / 3 दाढिकालिर्यमलिततन्तुद्वयव्यूता पटी / अयमन्वयः / मुखमध्ये हि यमलितोभयदन्तपङक्तिरूपा दाढिकालि-दंट्रिकावलिनिरीक्ष्यते / एवं द्विसूत्रपट थपि / और्णिकी सौत्रिकी वा दाढिकालिसदृशीव दृश्यमाना प्रतिभातीति दाढिकालिरित्युच्यते / 4 विरालिका नाम द्विसरसूत्रपटी 5 / तथा गण्डीपुस्तकः 1 कच्छपिपुस्तकः 2 मुष्टिपुस्तकः 3 छेदपाटीपुस्तकः 4 सम्पुटफलकपुस्तकः 5 चेति पुस्तकपञ्चकम् / एतत्स्वरूपं बाहल्लपुहत्तेहिं गंडीपुत्थो अ तुल्गो दीहो / कच्छवि अंते तणुओ मज्हो पिहुलो मुंणेयव्यो /