________________ गृहादिविरुद्धस्थानेषु सञ्ज्ञा व्युत्सर्जने दोषाः पुनः सज्ञाभूमिगमनाऽसमर्थः बाढमाबाधितो वा सञ्ज्ञाभूभ्यऽभावे वा पृथिव्यादिविराधनादिकारणे वा मोत्रके सज्ञां व्युत्सृज्य परिष्ठापयन्नपि शुद्धः / विरुद्धस्थाने च सज्ञाव्युत्सर्जने प्रायश्चित्तं, तच्च विरुद्धस्थानं विधा-आत्मसंयमप्रवचनोपघातकारिभेदात् / तत्रात्मोपघातकारि गृहादि तच्च परिगृहीतमपरिगृहीतं वा भवति / अपरिगृहीते मासलघु / परिगृहीते चतुर्लघु | ग्रहणाकर्षणादयश्च दोषाः / श्मशानादि प्रवचनोपघातकारि / तत्र चतुर्लघु / अशुचिस्थानसेविन एते कापालिका इवेति प्रवचनोपघोतः / अङ्गारादिदाहस्थानादीनि संयमोपघातीनि / तत्र कायविराधनानिष्पन्नं प्रायश्चित्तं / गृहादि विरुद्धस्थानेषु सञ्ज्ञाव्युत्सर्जने चैते दोषाः-दृष्टे छर्दाप्यते प्रान्ताप्यते वाऽमत्रं वो पात्यते / अदृष्टे पुनरङ्गारादिदाहस्थानमन्यत् कुर्वन्ति, तत्र च कायविराधनातीव, तां वा सञ्ज्ञां कायानामुपरि क्षिपन्ति / तथा असंसक्तग्रहणीकः साधुरुष्णे सञ्ज्ञां विसृजति / संसक्तग्रहणीः पुनः छायायाम अथोष्णे व्युत्सृजति ततः चतुर्लघु / तथा दकेन-जलेन सहिता मृत्तिका दकमृत्तिका तम्यां गमने, रक्तादिविकारे जलौकोमोचने सन्ध्यायामुत्सूरे सामाचार्यन्तरे पुन: कालवेलायां पानीयपाने चतुर्लघुकोः / तथा गुरुगो दगुल्लवत्थाइघट्टणे फुसिअमत्तगाइ लहू / सुत्थे वसओ वासुवरि गुरुग मासोवरि लहुगा // 219 // ____व्याख्या-दकेन-जलेना भिन्नं यद्वस्त्रादि, आदिशब्दात् कम्बलादिपरिग्रहः तस्य घट्टनेस्पर्शने गुरुको मासः / म्पृष्टमात्रकादौ / स्पृष्टे जलेन भिन्नमात्रकाण्डकापकरणे लघुमासः / स्पृष्टमात्रकादिघट्टने वा / तथा सौस्थ्ये-अशिवाद्यभावे वर्षाकाले वर्षाकालस्य चतुर्मासकरूपस्योपरि एकत्र स्थाने वसतः-तिष्ठतः साधोश्चत्वारो गुरुकाः / ऋतुबद्धकाले तु मासस्योपरि वसतो लघुकाश्चत्वारो भवन्ति / यतः-ऋतुबद्धवर्षास्वतिरिक्तं वसतो नियतवासो भवति / स च चतुर्द्धा-द्रव्यतः क्षेत्रतः कालतो भावतश्च / तत्र द्रव्यक्षेत्राभ्यां नियतवासे चतुर्भङ्गो / तद्यथा-द्रव्यतः क्षेत्रतश्च नियतः 1 द्रव्यतो नियतः क्षेत्रतस्त्वनियतः 2, द्रव्यतोऽनियतः क्षेत्रतस्तु नियतः 3. द्रव्यतः क्षेत्रतश्चानियतः / तत्र संस्तारकद्विविधोपधिप्रस्रवणसञ्ज्ञखेलमात्रकादीनि तान्येव द्रव्याणि कालद्वयातिक्रमे तस्मिन्नेव क्षेत्रे परिभुञ्जानस्य तेष्वेव च कुलेष्वाहारं गृह्णानस्य प्रथमो भङ्गः / तान्येव संस्तारकादीनि द्रव्याणि अन्यत्र क्षेत्रे नीत्वा परिभुञ्जानस्य द्वितीयो भङ्गः। तस्मिन्नेव क्षेत्रे वसतिस्वाध्यायभूमिसञ्ज्ञाभूमिकुलग्रामादिरूपे अन्यानि संस्तारकादीनि द्रव्याणि परिभुञ्जानस्य तृतीयो भङ्गः / चतुर्थस्तु शून्यो नियतवासमाश्रित्य / एवं कालभावाभ्यामपि चतुर्भङ्गो / कालतो भावतश्च नियतः 1, कालतो नियतो भावतस्त्वनियतः 2, कालतोऽनियतो भावतस्तु नियतः 3, कालतो भावतश्चानियतः 4 / तत्र ऋतुबद्धवर्षासु मोसचतुर्मासातीतं वसतः श्राद्धशय्याभक्तपानादिषु च प्रतिबद्धस्य प्रथमः / कालद्विकातीतं वसतः श्राद्धादिषु अप्रतिबद्धस्य च द्वितीयः / कालद्वयनिर्गतस्यापि श्राद्धादिषु रागप्रतिबद्धस्य तृतीयः / चतुर्थः शून्यः / वृद्धनिमित्तं च वसन् वहुकालेनापि नियतवासी न भवति / वृद्धकार्यपरिसमाप्तौ तु उपरिष्टाद्वसन् नियतवासी भवति / तत्र द्रव्यं प्रतीत्य नियतवासे उत्कृष्टोपधौ फलके च चतुर्लघु / क्षेत्रं प्रतीत्य देशे राज्ये च चतुर्लघु / कालं प्रतीत्य वर्षातीते वृद्धवासातीते च चतुर्लघु / रागेण भावनियतवासे सर्वत्र चतुर्गुरु / शेषेषु द्रव्यादिषु प्रायो मासलघु / डगलकारमल्लकेषु पञ्चामिति निशीथे / बहिरऽशिवाघमबोधिकादिगाढभयमासकल्प