________________ कालातीतादिभक्तादिप्रायश्चित्तम् द्वितीयपदे ग्लानस्याध्वश्रान्तस्य वा देशग्नानं सर्वस्नानं वा न दुष्टम् / वादिनो वादपर्षदं गच्छतः पादादि-देशस्नानं सर्वस्नानं वा आचार्यस्याऽतिशय इति कृत्वा देशस्नानं सर्वस्नानं वाऽनुज्ञातम् / अथ कालातीतादिभक्तादिप्रायश्चित्तमाह - भिन्नं कालद्धाणाइत्थिअकरणंमि गुरुग परिभोगे / अविहिविर्गिचिणिआए भत्ताईणं तु लहुमासो॥ ___ व्याख्या- विकथादि प्रमादेन विस्मृत्या भक्तादेः कालाध्वातिक्रान्तकरणे कालातीते अध्वातीते वा भक्ते पाने वा कृते भिन्नमासः। कालाध्वातीतस्य भक्तादेः परिभोगे चतुर्गुरुकाः / कालाध्वातीतानामशुद्धगृहीतानामधिकीभूतानां वा भक्तादीनामन्येषां वा परिष्ठापनीयानां प्रस्रवणादीनामविधिविवेचनायामशुद्धस्थण्डिलादो परित्यागे पुनलघुमासः / अथवासंसट्ठासंसट्टे निद्धे चउगुरुग लुक्खसंसठे / गुरुगो इअरे लहुगो भत्ते संपइ अविहिचाए // 208 // ___ व्याख्या-संसृष्टे असंसृष्टे वा स्निग्धे भक्ते अविधिना परिष्ठोपिते चतुर्गुरुकाः / रूक्षसंसृष्टे गुरुको मासः / इतरस्मिन् रुक्षासंसृष्टे भक्ते अविधिना त्यक्ते लघुको मासः / सम्प्रति इदानी सामाचार्यागतमिदं प्रायश्चित्तमविधिपरिष्ठापनेऽवगन्तव्यम् / आगमे च परिष्ठापनेऽयं विधिः- मूलगुणाशुद्धे भक्ते परिष्ठाप्यमाने एकः पुञ्जः, उत्तरगुणाशुद्ध लोभातिरेकगृहीते च द्वौ पुञ्जौ / आचार्यग्लानप्राघुर्णकदुर्लभत्व. महसालाभहेतुकगृहीतेऽधिकीभूते शुद्धे भक्ते त्रयः पुजा वीथ्यादिनिर्गतानां साधूनां शुद्धाशुद्धपरिज्ञानार्थ क्रियन्ते / दुष्टविद्यामन्त्रचूर्णविषकृतं तु भक्तं भस्माकान्तं कृत्वा परिष्ठाप्यते / साम्प्रतं तु सर्व परिष्ठाप्यं प्रायो भस्माक्रान्तं कृत्वा परिष्ठाप्यते / तथाचउलहु भागे पाए चउगुरु किमिपाय संखडे वमणे / लहुगो इरिओवओगाकरणे सज्झाय गुरुगो अ॥ व्याख्या- प्रमादादिना हस्तपातनादितः पात्र भग्ने चतुर्लघु ! कृमिपातः कृमयो व्रणापानकुक्षिसमुद्भवा जन्तवस्तेषां पातः-पातनं निष्कासनं स चतुर्धा-निष्कारणे अविधिना, निष्कारणे विधिना, कारणे अविधिना, कारणे विधिना / काष्ठादिभिरविधिः / अगुल्यादिभिस्तु विधिः / अत्र चतुर्थे भङ्गे शुद्धो विधिना प्रवृत्तत्वात / शेषेषु त्रिषु प्रायश्चित्तं चतुर्गुरु / निशीथे तु आद्यभङ्गद्वये चतुर्लघु / तृतीये लघुमासः / उत्सर्गेण विधिना अविधिना वा न ते निष्कास्या यतस्तेषु विराध्यमानेषु संयमविराधना, क्षते त्वात्मविराधना ततोऽधिसोढव्यम् / यदुक्तं निशीथचूर्णी-' सीस आह-वेअणट्टेण किं कायव्वं ? आयरिअ आह नच्चुप्पइअं दुक्खं अभिभूओ वेअणाए तिव्वाए। अद्दीणो अव्वहिओ दुक्खं अहिआसए सम्मं // नञ्चत्ति ज्ञात्वा, किं ज्ञात्वा ? दुःक्खमुत्पन्नं, वेद्यते इति वेदना 'तिव्वाए वेअणाए सव्वं सरीरं' व्याप्तमित्यर्थः / न दीणो अदीणो पसण्णमणो स्वभावस्थ इत्यर्थः / न वा ओहयमणसंकप्पे / अथवा हा माते ! हा पिते! एवमादि न भासए जो सो अदीणो, न वेअणट्टो अपणो सिरोरुकुट्टणादि करेति / अथवा न वेअणट्टो चिंतेइ अप्पाणं मारेमित्ति / तं दुक्खमुप्पन्नं सम्म अहिआसेअव्वं इत्यर्थः / कारणे पुण नौहरण करिज /