________________ 110 यति-जीतकल्पे तासु दृष्टिमबध्नन् वृद्धासु वा दृष्टिं बध्नन् वैराग्यकथां कथयतीति विधिः। तथा गृहनिषद्यायां चतुर्गुरुकाः / गोचरचर्यादिगतो गृहिणां गृहे निषदनं कुर्वतश्चतुर्गुरुका भवन्तीत्यर्थः / आज्ञाभङ्गादयश्च दोषाः / जराभिभूतादेस्तु गृहे निषीदतो न दोषः / तथा साधूनां स्नानं न कल्पते / तत् करणे प्रायश्चित्तं प्रतिपिपादयिषुराहआइन्न जयण कारण देसे पहाणंमि भंग सोलसगं / जत्थाऽऽइन्नं सव्वे कारणि नाइन्न ते सुन्ना // व्याख्या-इह स्नानं द्विधा-देशस्नानं सर्वस्नानं च / तत्र मुखनयनचलनदन्तकक्षाबाहुप्रभृतिशरीरावयवधावनं देशस्नानं, सर्वाङ्गप्रक्षालनं सर्वस्नानम् / तत्र देशस्नानं द्विधा-आचीर्णम् अनाचीण च / आचीणं यत् साधुभिराचर्यते / अनाचीर्णं तद्विपरीतम् / आचीर्णमपि द्विविधं-कारणे निष्कारणे च / यत्कारणे तदपि द्विधा-भक्तामर्ष लेपे च / तत्र भक्तामर्षेऽशनादिना लेपकृता द्रव्येण हस्तौ लिप्तौ ततस्तौ मणिबन्धं यावद् धाव्येते यत् / लेपे पुनरिदम्-अस्वाध्यायिकमूत्रपुरीषादिना यावन्मात्रः शरीरावयवश्चलनादिः खरण्टितस्तावन्मात्रः स धाव्यते यत् / एतत्कारणतः / निष्कारणे पुनस्तद्विपरीतम् / भक्तामर्ष लेपे च यत् स्नानं तदाचीर्ण, शेषं देशस्नानं सर्वस्नानं वा सर्वमनाचीर्णम् / एतत्सर्वमपि स्नान . यतनयाऽयतनया वा स्यात् / तत्र त्रिप्रमृतिप्रमाणप्रासुकपानीयेन यत्स्नानं क्रियते तत् यतनया, तदधिकेन पुनरयतनया / ततः स्नाने आचीर्ण-यतना-कारण-देशानामेतेषां चतुर्णा पदानां सप्रतिपक्षाणां | Is! | sir | ssh | षोडश भङ्गा भवन्ति / ते च प्रस्तारतो यथा-एतेषु च षोडशभङ्गेषु | // s | Isis | sils | sss | ये भङ्गा अत्र न घटन्ते तानुत्तरार्द्धनोपदर्शयति / यथा यत्र भङ्गे // | Issi | sisi | sss) | आचीर्णग्रहणं दृश्यते तत्रैव यदि सर्वग्रहणं दृश्यते ततः | Iss | Isss | siss | ssss | पूर्वापरविरोधान्न घटतेऽसौ भङ्गः। यत्र च कारणग्रहणमनाचीर्णग्रहणं च दृश्यतेऽसावपि न घटते, ततस्ते भंगाः सर्वेऽपि शून्या ज्ञातव्याः। शेषभङ्गा अत्र ग्राह्यास्तेषु प्रथमे भङ्गे शुद्धः / शेषेषु प्रायश्चितम् / एतदेवाहसेसे पढम ति इगदस बारस पण सत्त पनरस सोलसमे / ' शुद्धो लहुलहु११ लहुगा१२ तिसु५॥७॥१५ लहुगो चउलघु१६ कमेण // 206 // व्याख्या-ये भङ्गाः शून्यास्तान् वर्जयित्वा ये शेषा भङ्गा भवन्ति / तेषु यः प्रथमो भङ्ग आचीर्ण यतनया कारणे देशस्नानमित्येवंरूपस्तस्मिन् भङ्गे शुद्धः / ततस्तृतीयादिषु भगेषु लघुकादि प्रायश्चित्तं क्रमेण ज्ञातव्यं, तद्यथा--तृतीये लघुकः / एकादशे लघुकः / द्वादशे चतुर्लघुकाः / पञ्चमे सप्तमे पश्चदशे च भङ्ग लघुको मासः। षोडशे भङ्गे पुनश्चतुर्लघुकाः / आज्ञाऽनवस्थामिथ्योत्वविराधनाश्च भवन्ति / इमे च दोषाः स्नाने षड्जीवनिकायविराधना / स्नानप्रतिबन्धः / अस्नानसाधुशरीरेभ्यो निर्मलशरीरोऽहमिति गारव विभूषा / अस्नानपरीपहाऽजयः / लोकस्याविश्रम्भः / उक्तं च छक्कायाण विराहण तप्पडिबंधो अ गारव विभूषो / परिसहभीरुत्तपि अ अविसासो चेव पहाणंमि' /