________________ पात्रविषयं प्रायश्चित्तम् 109 व्याख्या - पात्रकस्य कारणे सति विधिना-सूत्रोक्तेन परिकर्मणं-बन्धनलेपनादिकं विधेयम् / अत्र चतुर्भङ्गी / कारणे विधिना परिकर्मणमित्येको भङ्गः / कारणे अविधिनेति द्वितीयः / निष्कारणे विधिना तृतीयः / निष्कारणे अविधिनेति चतुर्थः / अत्र प्रथमो भङ्गो विशुद्धोऽनुज्ञात वात् / शेषेषु त्रिषु भङ्गेषु लघुको मासः तपःकालाभ्यां विशिष्टो भवति / तत्र द्वितीयभङ्गे कालगुरुः , तृतीये तपोगुरुः / चरमः-चतुर्थो भङ्गस्तपःकालगुरुः / तपःकालाभ्यां गुरुर्लघुमासश्चतुर्थे भवतीत्यर्थः / अथ शोभादिनिमित्तपात्रकलेपदानप्रायश्चित्तमाह संजमहेडं लेवो न विभूसा गारवेण वा देओ। चउगुरुग विभूसाए लिंपते गारवेणं वा // 203 // ___ व्याख्या-लेपः पात्रस्य दातव्यः संयमहेतोर्न विभूषया न वा गारवेण / संयमहेतोः पुनर्दीयमाने लेपे यदि विभूषा भवति तथापि संयमहेतोरेव / अत्र सत्या असत्या च दृष्टान्तः / तथाहि-सत्यपि आत्मानं विभूषयति असत्यपि, केवलं सती कुलाचारनिमित्तमात्मानं विभूषयतीति तुल्यमपि तद्विभूषणमदुष्टम् इतरा जारतोषणनिमित्तमिति दोषवत् / एवं यथा सत्यसत्यौ तथा साधू / यथा विभूषणं तथा लेपः / यथा कुलाचारः तथा संयमः / यथा जारतोषणं तथा असंयमः / विभूषयो गारवेण वा लिम्पतो-लेपं ददतः प्रायश्चित्तं चतुर्गुरुकाः / तथा रात्रौ लेपं गृहीत्वा रात्रावेव च भाजने ददाति / अत्र प्रायश्चित्तं चतुर्लघुकास्तपःकालगुरुकाः, रात्रौ लेपं गृहीत्वा दिवा ददाति चतुर्लघुकास्तपोगुरवः, दिवा लेपं गृहीत्वा रात्रौ ददाति चतुर्लघुकाः कालगुरवः, दिवा गृहीत्वा दिवैव ददाति तदा शुद्धः / इति पात्रविषयं प्रायश्चित्तमभिहितम् / एवमुत्तरगुणप्रायश्चित्ताधिकारे पिण्डशय्या त्रिपात्रविषयप्रायश्चित्तप्रतिपादनेनाऽकल्पविषयप्रायश्चित्तमुक्त्वा गृहिमात्रादिविषयं प्रायश्चित्तमभिधित्सुराहगिहिमत्ते पलिअंके लहुगा पडिहारिवत्थमाइगहे / चउगुरुग रायपिंडे तहित्थिकहगिहनिसिज्जासु // व्याख्या- गृहिणा-गृहस्थानां मात्रं-भाजनं मणिसुवर्णरजतताम्रकांस्यलोहदारुमृदादिमयं, तस्मिन् योऽशनादि भुङ्क्ते तस्य चतुर्लघुकाः / आज्ञाभङ्गादयश्च दोषाः / तथा गृहभाजनभोजने पुर कर्मपश्चात्कमर्मादिभिः षट्कायविराधना / तथा पर्यके-पल्यङके, उपलक्षणत्वात् आसन्दीमश्चकाशालकेषु शयना. सने कुर्वतः चतुर्लघु आज्ञादयश्च दोषाः / तथा प्रातिहारिकवस्त्रादिग्रहे-प्रातिहारिकं गृहस्थसत्तास्थमेव कियत्कालव्यापारणाय गृहीतं वस्त्रादि, आदिशब्दात् कम्बलादि तस्य व्यापारणे चतुर्लघुकाः। आज्ञादयश्च दोषाः / साधुव्यापारेण मलिने च धावनादयो दोषाः। तथा राजपिण्डे-यो मूर्द्धाभिषिक्तः सेनापत्यमात्यपुरोहितश्रेष्ठिसार्थवाहसहितो राज्यं भुङ्क्ते स राजा तस्य पिण्डोऽशनादिरष्टविधः / यदुक्तम् ' असणाइआ चउरो वत्थे पाए अ कंबले चेव / पाउंछणए अ तहा अट्टविहो रायपिंडो अ' / / तस्मिन् राजपिण्डे गृह्यमाणे गुरुकाश्चत्वारः। तथा स्त्रीणां पुरतस्त्रीणि चत्वारि पश्च वा व्याकरणानि कारणेऽनुज्ञातानि, ततः परं तु षष्ठादिव्याकरणरूपामपरिमितां कथां कथयतश्चतुर्गुरुकाः / आज्ञादयश्च दोषाः शङ्कादिदोषाश्च / द्वितीयपदेन तथाविधकारणे स्त्रीणामप्रेऽपि धर्मकथां कथयेत् / तत्र