________________ 108 यति-जीतकल्पे अथ दग्धत्वादिदोषदूषितपात्रकग्रहणप्रायश्चित्तमाह -- अंतो बहिं च दद्धे पुष्कगभिन्ने अ चउगुरू हंति / अन्नह भिन्ने लहुगा हुंडाइसु सत्तसु वि लहुगो॥ व्याख्या-इह साधुना एवंविधलक्षणयुक्तं पात्रकं धारणीयं न तु निर्लक्षणम् / यदुक्तम्'वढे समचउरंसं होइ थिरं थावरं च धन्नड्ढे / हुंडं वायाइद्धं मिन्नं च अधारणिज्जाई' // वृत्तं-वर्तुलं तदपि समचतुरस्रम्-उच्छ्रयेण पृथुत्वेन च तुल्यं, स्थिरं-सुप्रतिष्ठानं दृढं वो, स्थावरमप्रातिहारिकं, वर्णाढय-स्निग्धवर्णोपेतम् / एवंविधं लक्षणयुक्तं पात्रं धार्यम् / तथा हुण्डं-विषमसंस्थितं यत समचतुरस्रं न भवति / वाताविद्धं यन्निष्पत्तिकालमन्तरेणाऽर्वागपि शुष्कम् / आतपसङ्कुचितं वलिभूतं च सञ्जातं / भिन्नं नाम सछिद्रं राजियुक्तं च / एवं शबलं-विचित्रवर्णं / दुष्पुतं पुष्पकमूलेन प्रतिष्ठितं यत् स्थाप्यमानमूर्ध्वं तिष्ठति, वालितं पुनः प्रलुठति / कीलकसंस्थानं कूपराकारं कीलकवद्दीधैं / पद्मोत्पलम्-अधः पद्मोत्पलाकारपुष्पकयुक्तम् / सव्रण-क्षतसहितं दग्धम्-अग्निना ध्यामितम् / एतान्यपलक्षणतया अधारणीयानि / यतः सलक्षणनिर्लक्षणपात्रकयोरिमे गुणदोषाः / / 'संठिअम्मि भवे लाभो पइट्ठा सुपइदिए / निव्वणे कित्तिमारुग्णं वन्नड्ढे नाणसंपया / / हुंडे चरित्तभेओ सबलम्मि अ चित्तविन्भमं जाण / दुप्पुए खोलसंठाणे नत्थि ठाणं ति निहिसे ' / गणे चरणे च स्थानं नास्ति / 'पउमुप्पले अ कुसलं सव्वणे वणमाइसे / अंतो बहिं च दड्ढे मरणं तत्थ निद्दिसे' // अतो दग्धत्वादिदूषिते पात्रके धार्यमाणे प्रायश्चित्तं, तद्यथा- अन्तर्मध्ये बहिश्योपरिष्टात् दग्धे पात्रे पुष्पकभिन्ने च-पुष्पके पात्रकस्य नाभिस्तत्र यद्भिन्न तस्मिन् पात्रके धार्यमाणे चत्वारो गुरुका भवन्ति / अन्यत्र पुष्पकाद्वयतिरिक्तेषु कुक्ष्यादिस्थानेषु मिन्ने पुनः पात्रके चतुर्लघुकोः / हुण्डादिषु सप्तस्वपि-हुण्डे, वाताविद्धे, दुष्पुते, कोलकसंस्थाने, शबले, सत्रणे, अवर्णाढथे चेत्यर्थः / पात्रकेषु धार्यमाणेषु लघुको मासो भवति / तथा पात्रं प्रमाणोपेतं धार्य हीनाधिकप्रमाणे पात्रे चतुर्लघुका भवन्ति / पत्रिकप्रमाणं चेदं___ 'तिन्नि विहत्थि चउरंगुलं च भायणस्स मज्झिमपमाणं / इत्तो हीण जहन्नं अतिरेययरं तु उक्कोसं ' / इदं पात्रकपरिधिप्रमाणम् / अथवा _ 'उक्कोस तिसामासे दुगाउअद्धाणमागओ साहू / चउरंगुलवजं भत्तपाणपज्जत्तयं हिट्ठा' // मात्रकप्रमाणं पुनरिद 'सुक्कोदणस्स भरिअं दुगाउ अद्धाणमागओ साहू / भुंजइ एगदाणे एअं खलु मत्तगपमाणं / / भत्तस्स व पाणस्स व एगतरागस्स जो भवे भरिओ। पज्जत्तो साहुस्स उ बिइअं पि अ मत्तगपमाणं' / अथ पात्रकपरिकर्मणप्रायश्चित्तमाहकारणविहिपरिकम्मे चउभंगो पढम सुद्ध तिसु लहुगो। तवकालेहि विसिट्ठो तवकालगुरु चरिमभंयो॥