________________ पात्रविषयं प्रायश्चित्तम् 107 शुद्धः / एवं मार्गे वजन् अस्थण्डिलात् स्थण्डिले स्थण्डिलाद्वा अस्थण्डिले / तथा-कृष्णभूमान् प्रदेशान्नीलभूमौ नीलभूमेर्वा कृष्णभूमिप्रदेशे / एवं शेषवर्णेष्वपि प्रत्येकं योजनीयम् / तथा-अध्वनो ग्रामप्रवेशे ग्रामाद्वा अध्वनि सङ्क्रामन् पादौ न प्रत्युपेक्षते न प्रमार्जयतीत्यादयो दण्डक इव प्रत्येकं सप्त भङ्गा दण्डक इवैव च षट्सु भङ्गषु प्रायश्चित्तं, सप्तमे तु शुद्धः / एवमन्यत्राप्यप्रतिलेखनाऽप्रमार्जनाविषयं प्रायश्चित्तमवगन्तव्यम् / एवं वस्त्रविषयं प्रायश्चित्तमभिधाय पात्रविषयं प्रायश्चित्तमभिधातुकामस्त्रिविधपात्रोत्क्रमग्रहणप्रायश्चित्तमाहतुंबयदारुअमट्टिअपायं उक्कोस मज्झिम जहन्नं / उप्परिवाडीगहणे चाउम्मासा भवे लहुगा // 199 // ____ व्याख्या-पात्रं त्रिविधं-तुम्बकमयं दारुमयं मृत्तिकामयम् / एकैकं त्रिविधम्-उत्कृष्टं मध्यम जघन्यम् / उत्कृष्टं पतद्ग्रहो, मध्यम मात्रकं, जघन्यं टोप्परिकादि / एकैकं पुननिधा-यथाकृतम् अल्पपरिकर्म बहुपरिकर्म च / तत्र यथाकृतं यत् पूर्वमेव कृतमुखं कृतलेपं तादृशं कुत्रिकापणे लभ्यते, निह्नवो वा प्रतिमाप्रतिनिवृत्तः श्रमणोपासको वा तादृशं ददाति / अर्धाङ्गलं यावद्यच्छेद्यं स्यात्तदल्पपरिकर्म / यद ङ्गलात् परतश्छेद्यं भवति तत् बहुपरिकर्म / एतेषां पात्राणामुत्परिपाटया-विपर्यासेन ग्रहणे चत्वारो मासा लघुका भवन्ति / उपलक्षणत्वाल्लघुमास-रात्रिंदिवपञ्चके अपि / इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योग-त्रिःपर्यटनरूपमकृत्वाऽल्पपरिकर्मोत्कृष्टमेव गृह्णाति चतुर्लघु / सपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु / यदा यथाकृतं, योगे कृतेऽपि न लभ्यते तदो अल्पपरिकम गवेषणीयम् / तस्योत्पादनाय निर्गतः प्रथमत एव सपरिकर्म गृह्णाति चतुर्लघु / इति त्रीणि चतुर्लघुकानि / एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि, जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिंदिवपश्चकानि / यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तं तथोत्कृष्टादीनामपि परस्परं विपर्यस्तग्रहणे प्रायश्चित्तम् / तद्यथा-उत्कृष्टस्य प्रतिग्रहस्यार्थाय निर्गतो मध्यमं मात्रकं गृह्णाति मासिकम् / जघन्यं टोप्परिकादि गृह्णाति पञ्चकम् / मध्यमस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु / जघन्यं गृह्णाति पञ्चकम् / जघन्यस्य निर्गत उत्कृष्टं गृह्णाति चतुर्लघु / मध्यमं गृह्णाति मासिकम् / अथ मूलोत्तरगुणदुष्टपात्रग्रहणप्रायश्चित्तमाहमुहकरणं मूलगुणा निकोरणमुत्तरे गुरुग मूले / उत्तरगुणि लहुग अकोरिए अ झुसिरत्तिऽवीए बि // व्याख्या-पात्रस्य यन्मुखकरणं तन्मूलगुणाः / यत् पुनर्मुखकरणानन्तरं तदभ्यन्तरवर्तिनो गिरस्योत्कीरणं तन्निकोरणमित्यभिधीयते तदुत्तरगुणाः / तत्र मूले-मूलगुणदुष्टे पात्रे गृहीते गुरुकाश्चत्वारो भवन्ति / उत्तरगुणे-उत्तरगुणदुष्टे पुनर्लघुकाश्चत्वारो भवन्ति / इदमुक्तं भवति-अत्र चतुर्भङ्गी-संयतार्थं कृतमुखं संयतार्थमेवोत्कीर्णमिति प्रथमो भङ्गः / संयतार्थ कृतमुखं स्वार्थमुत्कीर्णमिति द्वितोयः / स्वार्थ कृतमुखं संयतार्थमुत्कीर्णमिति तृतीयः / स्वार्थं कृतमुखं स्वार्थमेवोत्कीर्णमिति चतुर्थः / अत्र त्रिषु भङ्गेषु प्रायश्चित्तम् / तद्यथा-प्रथमे भङ्गे चत्वारो गुरुकाः तपसा कालेन च गुरवः। द्वितीयेऽपि चतुर्गुरुकाः तपसा गुरवः कालेन लघवः / तृतीये चतुर्लघुकाः कालेन गुरवस्तपसा लघवः / चतुर्थे भने शुद्धः / उभयस्यापि स्वार्थत्वात् / तथा अकोरितेऽनुत्कीर्णे भाजने अबीजेऽपि-बीजविरहितेऽपि गृहीते चतुर्लघुका भवन्ति / शुषिरमितिकृत्वा, शुषिरं हि दुनिरीक्षत्वेन दुष्प्रतिलेख्यं भवति /