________________ 106 यति-जीतकल्पे व्याख्या-हारितधौतोद्गमितानिवेदनादत्तभोगदानेषु गुरुचतुर्लघुचतुर्गुरूणि भवन्ति / अयं भावः-हारिते-नाशिते, धौते-क्षालिते, उद्गमितानिवेदने-उद्गम्योत्पाद्योपधिं गुरोरनिवेदिते, अदत्तभोगे-गुर्वदत्तेऽपि परिमुक्ते, अदत्तदाने-गुर्वननुज्ञयाऽप्यन्यस्य दत्ते, त्रिविधोपधौ-जघन्यमध्यमोत्कृष्टभेदे यथाक्रमं प्रायश्चित्तमिदं यथा-जघन्ये उपधौ गुरुमासः / मध्यमे चतुर्लघु / उत्कृष्टे चतुगुरु / सर्वस्मिंस्तूपधौ हारिते, वर्षारम्भकालेऽपि धौते, उत्पाद्य गुरोरनिवेदिते, गुर्वदत्तेऽपि परिभुक्ते, गुर्वननुज्ञयाऽप्यन्यस्य दत्ते षड्लघुकाः प्रायश्चित्तम् / तथामुहणंतयरयहरणे फिडिअम्मि कमेण भिन्नचउगुरुगा / नासिअ हारविए वा जीएणं गुरुग छल्लहुगा // व्याख्या-'फिडिय' त्ति / 'स्फिटण' पदभ्रंशे विकल्पे ' नन्ताश्चुरादय' इतीन्प्रत्ययाभावे कर्तरि निष्ठाप्रत्यये च स्फिटित इतिरूपम् / अथ गाथार्थः-चतुर्दिशमात्मप्रमाणं क्षेत्रमवग्रहः , तस्मादवग्रहात् स्फिटिते-बहिर्भूते मुखानन्तके क्रमेण भिन्नमासः रजोहरणे चतुर्गुरुका इति जोतकल्पचूर्णौ / निशीथभाष्ये तु साधोः सकाशात् हस्तमात्रातिक्रमेऽपि रजोहरणस्योत्सङ्घट्टनोक्ता / परचक्रादिसम्पाते चकितत्वेन च नाशिते-पातिते निजप्रमादेन वा हारिते मुखानन्तके जीतव्यवहारेण चतुर्गुरु / रजोहरणे षड्लघु / अथ सामान्येनाऽप्रत्युपेक्षणाऽप्रमार्जनाविषयप्रायश्चित्तमाह अप्पेहऽपमज्जणि चउभंगे तुरिए दुपेहदुपमज्जे / / चउभंगी इअ सत्तसु तिसु लहु तिसु पण चरिम सुद्धो // 198 // व्याख्या- अप्रेक्षणं चक्षुषा, अप्रमार्जनं रजोहरणेन / तत्र चत्वारो भङ्गा भवन्ति / तद्यथादण्डकग्रहणे न प्रत्युपेक्षते न प्रमार्जयतीत्येको भङ्गः / न प्रत्युपेक्षते, प्रमार्जयतीति द्वितीयः / प्रत्युपेक्षते, न प्रमार्जयतीति तृतीयः / प्रत्युपेक्षते प्रमार्जयतीति चतुर्थः / तत्र तुर्ये-चतुर्थे भने दुष्प्रेक्षणे दुष्प्रमार्जने चतुर्भङ्गी भवति / तथाहि-दुष्प्रत्युपेक्षते दुष्प्रमार्जयति, दुष्प्रत्युपेक्षते सुप्रमार्जयति, सुप्रत्युपेक्षते दुष्प्रमाजयति, सुप्रत्युपेक्षते सुप्रमार्जयति / इत्येवं सप्त भङ्गा भवन्ति / एतेषु च सप्तभङ्गेषु मध्ये त्रिषु आयेषु भङ्गेषु लघुमासः, शेषेषु त्रिषु रात्रिंदिवपञ्चकं प्रायश्चित्तं भवति / चरमे सप्तमे भङ्गे शुद्धो विधिना प्रवृत्तः / यथा दण्डकग्रहणे सप्त भङ्गा दर्शिताः / तथा दण्डकनिक्षेपेऽधस्तात् भूमेरुपरि च दण्डशिरःसम्पर्कविषयभित्तिप्रदेशे अप्रेक्षणाऽपमार्जनाविषयाः सप्त भङ्गा वाच्याः / षट्सु प्रायश्चित्तं पूर्ववत् / सप्तमस्तु शुद्धः / एवं परेषामप्युपकरणानां ग्रहणे निक्षेपणे च सप्त भङ्गाः प्रायश्चित्तं च तथैव / तथाअविधिना खेलमल्लके निष्ठीवने दण्डक इव सप्त भङ्गा दण्डक इवैव चाद्येषु त्रिषु प्रत्येकं लघुमासः / उत्तरेषु त्रिषु प्रत्येकं रात्रिंदिवपञ्चकं, सप्तमभङ्गवर्तिनस्त्वनिष्ठीवका एव विधिना निष्ठीवनात् / उपरित. नेष्वपि च त्रिषु भङ्गेषु यदि भूमौ निष्ठोव्यति तदा मासलघु / यच्च निष्ठीवने प्राणिनां परितापनाशुपजायते तन्निष्पन्नं च तस्य प्रायश्चित्तम् / एवमविधिना कण्डूयनेऽपि दण्डक इव सप्त भङ्गास्तथैव च प्रायश्चित्तविधिः / तथा वस्त्रादिकमातपात् छायायां, छायाया वा आतपे सङ्क्रामयन् न प्रत्युपेक्षते न प्रमार्जयतीत्यादयः पूर्ववत् सप्त भङ्गाः, पूर्ववदेव चायेषु षट्सु भङ्गेषु प्रायश्चित्तविधिः / सप्तमे तु भने