________________ उपधिविषयं प्रायश्चित्तम् 105 तहिअं दुन्नि अ ओहोवहिमि वाले अ सुत्तिए चेव / सेस तिअ वासताणा पणगं तह चिलमिणीण इमं / / वालमई सुत्तमई वागमई तय दंडकडगमई / संथारगदुगमझुसिरझुसिरंपि य दंडपणगं च // ____दंडविदंडगलट्ठीविलट्ठि तह नालिया य पंचमिआ / अवलेहणि मत्ततिगं पासवणुच्चारखेले अ॥ चिंचिणि अत्थुर पाउर तलिग अहवावि चम्मतिविहमिमं / केत्तीतलिगवब्भा पट्टगद्गं चेव होइ मिमं / / संथारुत्तरपट्टो अहवा सन्नाहपट्ट पल्हत्थी / मझो अजाणं पुण अइरित्तो वारगो होइ' / आसा व्याख्यालेशः- 'वाल'त्ति, वाला-ऊर्णरूपास्तन्मयं कम्बलकमित्यर्थः / 'सुत्त'त्ति सूत्रमयं / सूई तालपत्रसूच्यादि खुम्पकः / कुडसीसगं-पलाशपत्रमयं खुम्पकं / छत्रकं वंशमयं / 'सेस तिअ वासताणा' और्णिकसौत्रिकादन्यद्वर्षास्पर्शनरक्षकं त्रयमौपग्रहिकम् / ‘अझुसिरझुसिरं' अशुषिरः संस्तारको बहुकाष्ठफलकमयः उत्तरत्रैकाङ्गिकभणनात् / शुषिरः तृणादिमयः / दंडेत्यादि / ‘लट्ठी आयपमाणा विलट्ठि चउरंगुलेण परिहीणा / दंडो बाहुपमाणो विदंडओ कक्खमित्तो उ' // सिरसो उवरिं चउरंगुलदीहा नालिआ होइ। अवलहिणी-वटोदुंबरप्लक्षाम्लिकाकाष्ठमयी यया पादयोः कर्दमोऽपवीयते / भणि च-पडउंबरे पिलक्खू तस्स अलाभम्मि चिंचिणिआ'। 'अत्थुर' त्ति, दावाग्न्यादिभये भूमावास्तीर्यते प्रलम्बादिविकरणाय च / 'पाउर' त्ति, षट्पदिकाभये यत् प्राप्रियते / तलिका-उपानहः / सन्नाहपट्टो विहारे उपवेः शरीरेण सह बन्धनार्थः। पल्हत्थी-योगपट्टः / 'वारओ' त्ति, ससागारिके साध्वीनां प्रस्रवणानन्तरमुदकस्पर्शनार्थं / नित्यं जनमध्य एव तासा. मुपाश्रयस्यानुज्ञातत्वात् / एष मध्यमौपग्रहिकः / 'अक्खा संथारो वा दुविहो एगंगिओ तदिअरो वा / बिइअपय पुत्थपणगं फलगं तह होइ उक्कोसो' / / अक्खा-अक्षा आचार्योपकरणम् / संस्तारको द्विविधः-एकाङ्गिकः तिनिसकाष्ठरूपः, तदितरो दवरकावबंद्धकम्बिकामयः / प्रथमपदमुत्सर्गः तदपेक्षया द्वितीयपदमपवादः / तत्र पुस्तकपञ्चकम् अग्रे वक्ष्यमाणस्वरूपम् / फलकं-पट्टिका यस्यां लिखित्वा पठ्यते / एष उत्कृष्टौपग्रहिकः / अयं साधूनां साध्वीनां च त्रिविधोऽप्यौपग्रहिकः / एतस्य चौधिकौपग्रहिकोपधेत्रिविधस्यापि मध्यात् 'विच्चुअ 'त्ति पदं सूत्रकारेणैव ' तह पाडिअलद्धे विहु' इत्यनेन पदेन व्याख्यातम् / ततो विच्युतं नामाऽनाभोगेन पातितं ततः पुनर्लब्धं ततश्च जघन्ये उपधौ पातितलब्धे भिन्नमासः / मध्यमे पातितलब्धे लघुमासः / उत्कृष्ट पातितलब्धे गुरुमासः / तथा विस्मारितप्रेक्षितानिवेदने / प्रेक्षितं-प्रतिलेखना / अयं भावःप्रति लेखनाया विस्मारणे विस्मार्य प्रतिलेखनां गुरूणामनिवेदने च जघन्यस्य मिन्नमासः / मध्यमस्य लघुमासः / उत्कृष्टस्य गुरुमासः / सर्वस्मिँश्चोपघौ पातितलब्धे विस्मारितप्रतिलेखने न प्रतिलिखित इति गुरूणामनिवेदिते च चतुर्लघु / इदं च मुखवस्त्रिकारजोहरणव्यतिरिक्तस्योपधेः पायश्चित्तं ज्ञेयम् / तयोः 'मुहणंतय ' त्ति गाथायां प्रायश्चित्तस्य वक्ष्यमाणत्वात् / हारिअधोउग्गमिआनिवेअणादिन्नभोगदाणेसु / तिविहोवहिम्मि गुरु लहुग गुरुग सव्वम्मि छल्लहुगा // 14