________________ 104 यति-जीतकल्पे जिनकल्पिकसाधूनां चोपोधरष्टधा / तद्यथा-द्विविधः, त्रिविधः, चतुविधः, पञ्चविधः , नवविधः, दशविधः, एकादशविधः, द्वादशविधश्चेत्यष्टौ भेदाः / एषां च मध्ये कोऽपि केषाश्चिजिनकल्पिकानां भवति / उक्तं च'बिअ-तिअ-चउक्क-पणगं नव-दस-इक्कारसेव बारसगं / एए अट्ट विगप्पा उवहिम्मि उ हुंति जिणकप्पे / / रयहरणं मुहपुत्ती दुविहो कप्पिकजुत्ततिविहो उ / रयहरणं मुहपुत्ती दुकप्प एसो चउद्धा उ॥ तिन्नेव य पच्छागा रयहरणं चेव मुहपुत्ती / पाणिपडिग्गहिआणं एसो उवही उ पंचविहो / / पत्तगधारीणं पुण नवाइभेआ हवंति नायव्वा / पुवुत्तोवहिजोगा जिणाण जा बारसुक्कोसा'। सप्तप्रकारपात्रोपधिधारिणां पूर्वोक्तद्वित्रिचतुष्पञ्चप्रकारोपधियोगान् नवदशैकादशद्वादशाख्या भेदाः क्रमेण ज्ञेयोः / 'पत्तं पत्ताबंधो पायठवणं च पायकेसरिआ / पडलाइं रयत्ताणं च गुच्छओ पायनिजोगो / / . तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपुत्ती। एसो दुवालसविहो ओही जिणकप्पिआणं तु / / 'एए चेव दुवालस मत्तगमइरेगचोलपट्टो अ / एसो चउद्दसविहो ओही पुण थेरकप्पमि' / एष त्रिविधो जघन्य-मध्यमो-त्कृष्टभेदात् / तत्र मुखवत्रिका पात्रकेसरिका गुच्छकः पात्रस्थापनं चेतिचतुर्विधो जघन्यः, पटलानि रजत्राण पात्रकबन्धश्चोलपट्टको मात्रकं रजोहरण चेति षड्विधो मध्यमः, पतद्ग्रहः कल्पत्रयं चेति चतुर्विध उत्कृष्टः / जिनकल्पिकानां तूपधेर्जघन्यमध्यमोत्कृष्टता यथासम्भवं स्थाप्या / आर्यकाणां पुनरेवम् 'उक्कोसो अट्टविहो मज्झिमओ होइ तेरसविहो उ / तह चउव्विहो जहन्नो अजाणं पन्नवीसेव।। कप्पतिअ पडिग्गहगो अभिंतरबाहिरा निअंसणिआ संघाडिखंधकरणी उक्कोसो एस अट्टविहो / पत्ताबंधो पडला रयहरणं मत्तकमठरयताणं / उग्गहपट्टो अद्धोरुचलणिकंचुअओ कच्छिवेकच्छी। इअ एस तेरसविहो मज्झिमओ तयणु चउविहु जहन्नो / गुच्छगपत्तठवणं मुहणंतयपायकेसरिआ ' // 'कमठ' त्ति, साध्वीनामेकस्मिन् भाजने भोजनं न भवति किन्तु प्रत्येकं सर्वासां निजोदरमानं कमठकं भवति / अन्यथैकभाजनभोजने एकया गुरुकवलयोत्पाटनेऽन्यस्यो अप्रोतिसम्भवः स्यादिति / इदानीमौपग्रहिकोपधिस्त्रिधा ‘पीठनिसिज्जा दंडगपमजणं घट्टडगलपिप्पलगा। सूई नहहरणी दंतकन्नसोहणदुग जहन्नो / / पीठं-काष्ठमयासनं, निषीदन्त्वस्यामिति निषद्या-पादप्रोञ्छनं / दण्डकप्रमार्जनं येन वसतिः प्रमाज्यते / घट्टका-लिप्तपात्रघर्षणोपलाः / 'डगल' त्ति, लेष्टवो यैरपानं निर्लेप्यते / पिप्पलकः-क्षुरप्रः, सूची-यया सीव्यते, नखहरणी दन्तशोधनं-सिक्थाऽपनयनसिलाका कर्णशोधनं चेति जघन्यः / . वासत्ताणाईओ मज्झिमगो वासताण पंच इमे / वाले सुत्ते सूई कुडसीसगच्छत्तए. चेव //