SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उपधिविषयं प्रायश्चित्तम् 203 कानि प्रायश्चित्तम् / प्रतिलेखनां च कुर्वता आरभटादयः षट् दोषास्त्याज्याः / तत्र यद्विपरीतं करणं त्वरितमन्यान्यवनग्रहणं वा सा आरभटा 1, वस्त्रस्य मध्यप्रदेशे कोणाः संवलिता यत्र भवन्ति सा सम्मर्दा तत्रवोपधावुपवेश्य यत् प्रत्युपेक्षां करोति सा वा सम्म 2 यत्र प्रत्युपेक्षणे वस्त्रमूर्वं पीठिषु तिर्यक कुडये अधश्च भूमौ लगति सा मोसली 3, यथा गृहस्थो रेणुगुण्डितं वस्त्रं प्रस्फोट यति एवं यद्वस्त्रस्य प्राकोटनं सा प्रस्फोटना 4, वस्त्रं प्रतिलेख्य यदन्यत्र क्षिपति वस्त्राश्चलानां वा यदूर्ध्व क्षेपणं सा विक्षिप्ता 7 / वेदिका पञ्च प्रकारा / तद्यथा-ऊर्ध्ववेदिका. अधोवेदिका, तिर्यग्वेदिका, उभयतो वेदिका, एकतो वेदिका च / तत्रो_वेदिका-यदि जानुनोरुपरि हस्तौ च कृत्वा प्रतिलेखयति / अधोवेदिका-जानुनोरधो हस्तौ कृत्वा प्रत्युपेक्षते / तिग्वेदिका-सन्दशकमध्येन हस्तौ नीत्वा प्रतिलेखयति / उभयतो वेदिकाहस्तयोरन्तरे जानुद्वयं कृत्वा प्रतिलेखयति, एकतो वेदिका हस्तयोरन्तरे एक जानु कृत्वा प्रतिलेखयति 6 एते षटदोषाः / प्रतिलेखनाविधिस्तु सम्पूर्ण ओघनियुक्तितोऽवसेयः / तथा प्रत्युपेक्षमाणः षटसु कायेषु आत्मना प्रतिष्ठितः उपधिर्वा तेषु प्रतिष्ठित इत्यत्र चतुर्भङ्गी। तद्यथा-स्वयं कायेषु प्रतिष्ठितो नोपधिः. उपधिः प्रतिष्ठितो न स्वयं, स्वयमपि प्रतिष्ठित उपधिरपि प्रतिष्ठितः , स्वयमप्यप्रतिष्ठितः उपधिरप्यप्रतिष्ठितः / ते च षटकाया मिश्रा वा सचित्ता वा भवेयुस्तेषु च साधुरुपधिर्वा अनन्तरं परम्परं वा प्रतिष्ठितो भवेत् / अत्राऽऽद्यभङ्गत्रये स्वस्थानप्रायश्चित्तं प्रागुक्तं षट्कायविराधनाविषयं प्रायश्चित्तमिति भावः / चतुर्थो भङ्गो विशुद्धः / अथ द्वीन्द्रियादिवसानां शाल्यांदिवीजोनामस्थिरसंहननिनां रक्षार्थं कायेष्वपि पृथिव्यादिषु दृढसंहननिषु कारणतः प्रत्युपेक्षणा भवति न च प्राथश्चित्तम् / आह-तेषु प्रतिष्ठितः प्रत्युपेक्षणं कुर्वन् सङ्घट्टनादिबाधाविधानात् कथं न दोषभाग भवतीति ? उच्यते नदीहरणोपलक्षितं पुत्रज्ञातमत्र-यथा कश्चित् पुरुषः तस्य द्वौ पुत्रौ। तयोरेकः कृशो द्वितीयः स्थूलः / स चान्यदा ताभ्यां सहितः कश्चिद् ग्राम गच्छन् अपान्तराले एकामपारगभीरां नदीमवतीर्णवान् / स च नदीष्णतया सुखेनैव स्वयं तां तरीतुं शक्तः पुत्रौ तु न तरणकलाकुशलौ / ततः स यदि समर्थः तदा द्वावपि पुत्रावुत्तारयेत् . अथाऽसमर्थस्तर्हि यः कृशस्तं तारयति, लघुशरीरतया तस्य सुखेनैव तारणीयत्वात् / यस्तु स्थूलस्तमुपेक्षते, निजशरीरबहुभारेणात्मानं तं च नद्यां बोलयतीतिकृत्वा / एष दृष्टान्तः / अयमापनयः-पितृस्थानीयः साधुः / पुत्रद्वयस्थ नीयः स्थिराऽस्थिरसंहनिनः पृथिवीकायादयः / ततः साधुना प्रथमतो निर्विशेषं षडपि कायाः स्थिरसंहननिनोऽस्थिरसंहननिनोश्च रक्षणीयाः / अथाऽन्यतरेषां विराधनामन्तरेणाध्वगमनादिषु प्रयुपेक्षणादि न स्यात् ततः स्थिरसंहननिनां पृथिव्यादीनां विराधनामभ्युपेत्याप्यस्थिरसंहननिनस्त्रसादयो रक्षणी या इति / पुनरुपधिविषयमेव प्रायश्चित्तमाह तिविहोवहिणो विच्चुअ विस्सारिअ पेहिआ निवेइअए / ____ तह पाडिअ लद्धेवि हु मिन्नं लहु गुरु लहुग सव्वे // 195 / / व्याख्या-द्विविधाः साधवो-जिनकल्पिकाः स्थविरकल्पिकाश्च / उपधिरपि द्विविध औधिक औपग्रहिकश्च / इहायं प्रागुक्तोऽप्यनुस्मरणार्थमत्रापि लिख्यते'ओहेण जस्स गहणं भोगो पुण कारणे स ओहोही / जस्स य दुगंपि नियमा कारण सो उवग्गहिओ' /
SR No.004416
Book TitleJai Jiya Kappo
Original Sutra AuthorN/A
AuthorLabhsagar
PublisherAgamoddharak Granthmala
Publication Year
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & agam_anykaalin
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy