________________ 102 यति-जीतकल्पे 'बिइअपदं गेलन्ने असहू सागोरसेहमाईसु अद्धाणतेणएसु अ संजयपंतेसु जयणाए" || ग्लान उष्णं न सहते कर्णा वा तस्य वातेन भ्रियन्ते / राजादिर्दीक्षितो वा असहो धारयति / शैक्षस्य वा सागारिकमिति कृत्वा अङ्गुष्टिं करोति / आदिशब्दादशैक्षोऽपि प्रत्यनीकादन्यस्माद्वा शङ्कमानो जात्यादिजुङ्गितो वा करोति / अध्वनि वा उष्णं न सहते, तृषितो वा संयतप्रान्तेषु वा स्तेनेष्वगुष्टिं करोति / -- जयणाए 'त्ति / यदि स्वलिङ्गोपधिना शीर्षावरणे कृते ज्ञायते तदा गृहिकाषायादिवस्त्रं गृहीत्वा करोति / एवं यथा न ज्ञायते तथा तथा करोति / एषा यतना। तथा पिण्डवत् वस्त्रेऽपि शेषदोषेषु प्रायश्चित्तं प्रतिपत्तव्यम् / अयमर्थः-यथा पिण्डविषयेषु उद्गमोत्पादनैषणासंयोजनालक्षणेषु दोषेषु पूर्व प्रायश्चित्तं प्रदर्शित तथा वस्त्रविषयेष्वपि शेषेषु-उस्तेभ्योऽवशिष्टेषु उद्गमोत्पादनेषणासंयोजनारूपेषु दोषेषु प्रायश्चित्तमवगन्तव्यम् / अथ वस्त्राऽप्रतिलेखनाविषयं प्रायश्चित्तमाहलहुगा गुरुगो लहुगो उक्कोसादुवहि अपडिलेहाए / दोसेहि उपेहंते कमेण लहुमिन्नपणगाई // 194 // व्याख्या-उत्कृष्टाधुपधीनामप्रतिलेखनायां क्रमेण लघुका गुरुको लघुकश्च प्रायश्चित्तं भवति / उत्कृष्टमुपधिं न प्रत्युपेक्षते चत्वारो लघुकाः , मध्यमं न प्रत्युपेक्षते गुरुमासः, जघन्यं न प्रत्युपेक्षते लघुमास इत्यर्थः / कल्पव्यवहारयोस्तु मध्यमे लघुमासः। जघन्ये पञ्चकम् / अथारभटासम्मामोसलीप्रभृतिभिदापर्दुष्टं प्रत्युपेक्षते ततः क्रमेणोत्कृष्टे घुमासः, मध्यमे भिन्नमासः, जघन्ये रात्रिदिवपञ्चकम् / उपधेरप्रतिलेखने चाऽऽज्ञाभङ्गादयो दोषाः / इमे च संयमदोषाः- अप्रतिलेखिते लूतापूटकं सम्बध्यते / पनको भवति / गृहकोकिला प्रसूते / हृतं नष्टं वाऽस्मारितं भवति / ग्रीष्मे घृश्चिकसर्पादयः प्रविशन्त्यप्रतिलेखिते तैरात्मविराधना भवति / भ्रमरी वा गृहं कुर्यात् / यस्मादेते दोषाः तस्मात् सर्वो. पधिर्द्विसन्ध्यं प्रतिलेखनीयः / कारणेषु पुनरप्रतिलेखनेऽपि न दोषः / तानि चेमानि * असिवे ओमोदरिए गेलन्नद्धाण संभमभए वा / तेणपउरसागारे संजमहेउं च बिइअपयं' // अशिवगृहीतो न शक्नोति प्रतिलेखनां कर्तुं तत्प्रतिचारको वा व्याकुलत्वात् / अवमे प्रगे एवारब्धा हिण्डितुं प्रतिलेखनाया नास्ति कालः, ग्लानो न शक्नोति, एकाकी अध्वनि सार्थवशी न प्रत्युपेक्षते, अग्न्यादिसम्भ्रमे वा बोधिकादिभये वा स्तेने वा प्रचुरे सारोपधिं मो पश्यत्विति न प्रत्युपेक्षते / सागारिके वा कृत्स्नोपधिं न प्रत्युपेक्षते / संयमहेतोर्वा महिकाभिन्नवर्षसचित्तरजस्सु द्वितीयपदेनाऽप्रतिलेखयन्नपि शुद्धः / प्रत्युपेक्षणा चाऽन्यूनाधिका क्रमेण कर्त्तव्या / तत्र षट् पुरिमा नव खोटका नव प्रमाजेनाश्च भवन्ति / ततो यदि न्यूना अधिका वो क्रियन्ते ततोऽशुद्धा / वेलायां च न्यूनायामधिकायां वा क्रियते ततोऽप्यशुद्धा / अतो वेलायामेव विधेया प्रत्युपेक्षणा / वेला च प्रातस्तदा स्याद् यदा आवश्यकानन्तरं मुखवस्त्रिका-रजोहरण-निषद्याद्वय-चोलपट्ट-कल्पत्रय-संस्तारको-त्तरपट्ट-दण्डकेषु एतेष्वेकादशसूप करणेषु प्रतिलेखितेषु सूर्य उदेति / क्रमश्वायं-प्रातः प्रतिलेखनायां पूर्व मुखवस्त्रिका ततो रजोहरण ततोऽन्तर्निषद्या ततो बाह्यनिषद्या, चोलपट्टः, कल्पत्रयम् , उत्त पट्टः, संस्तारकपट्टः, दण्डकश्च / एष क्रमोऽन्यथा उत्क्रमः / पुरुषेषु पुनरयं क्रमः-पूर्वमाचार्यस्य पश्चात् परिज्ञावतस्ततो ग्लानशक्षादीनाम् / अन्यथा उत्क्रमः। उत्क्रमे च उत्कृष्टमध्यमजघन्योपधिषु क्रमेण चतुर्लघु-लघुमान-पञ्च