________________ वस्त्र विषयं प्रायश्चित्तम् 101 संयमनिर्वाह निमित्तं ग्राह्यं न पुनः कृत्स्नं वस्त्रं / तच्च चतुर्धा-द्रव्यकृत्स्नं, क्षेत्रकृत्स्नं, कालकृत्स्नं भावकृत्स्नं च / तत्र यत्सदशं प्रमाणातिरिक्तं वा वस्त्रं तद्रव्यकृत्स्नम् / यद्वस्त्रं यत्र क्षेत्रे दुर्लभं बहुमूल्यं वा तत्तत्र क्षेत्र कृत्स्नम् / यद्वस्त्रं यस्मिन् काले अर्थितं दुर्लभं वा तत्तस्मिन् काले कालकृत्स्नं, यथा ग्रीष्मे काषायवस्त्रं शिशिरे प्रावार दि. वर्षासु कुङ्कुमादिखचितम् / भावकृत्स्नं द्विधा-वर्णतो मूल्यतश्च / वर्णतः पञ्चविधं वर्णाढयं यथो-कृष्णं मयूरग्रोवासन्निभं, नीलं शुकपिच्छसन्निभं, रक्तम् इन्द्रगोपकसन्निभं, पीतं सुवर्णच्छवि, शुक्लं शङखेन्दुसन्निभं तदेवंविधं वर्णकृत्स्नम् / द्रव्यादिकृत्स्ने वर्णकृत्स्ने चोत्कृष्टे चतुर्लघु, मध्यमे मासलघु, जघन्ये पञ्चकम् / मूल्यकृत्स्नं पुनत्रिविधं-जघन्यं मध्यमम् उत्कृष्टं च / तत्र यस्याष्टादश रूपका मूल्यं तज्जघन्य, लक्षरूपकमूल्यमुत्कृष्टं, शेषं मध्यमम् / रूपकप्रमाणं चेदं-द्वीपसत्करूपकाद्वकेनोत्तपरापथरूपक एकः स्यात् तद्द्येन चकः पाटलिपुत्रीयो रूपकः / अथवा दक्षिणापथरूपकद्वयेन काश्चिपुरीयरूपक एकः स्यात् तवयेन च पाटलिपुत्रीय एकः एवंविधो रूपकोऽत्रोवगन्तव्यः / 18 रूपके मूल्ये वस्त्रे लघुमासः , 20 रूपके चतुर्लघु. 100 रूपके चतुर्गुरु, 250 रूपके षड्लघु. 500 रूपके षड़गुरु, सहस्ररूपके छेदः, दशसहस्ररूपके मलं, पञ्चाशतसहस्ररूपकमूल्ये अनवस्थाप्यं, लक्षरूपकमूल्ये पाराश्चितम् / पात्रे पुनरेकादित्रिपर्यन्तकार्षापगमूल्ये लघुमासः, चतुराद्यष्टादशपर्यन्तकार्षापणमूल्ये गुरुमासः / अग्रतो मूल्यवृद्धौ प्रायश्चित्तवृद्धिर्वस्त्रवत् पात्रेऽप्यवसेया / कृत्स्नवस्त्रबहुमूल्यपात्रग्रहणे च चौराद्यनर्थः / इत्थ दिद्वतो-एगो राया आयरिओण उवममइ सो सव्वं गच्छं कंबलरयणेहिं पडिलाभिउं उबढिओ। आयरिएहि निसिद्धो-न वट्टइत्ति / अतिनिबंधा एगं गहिअं / भणाति-पाउएणं हट्टमग्गेणं गच्छह तहा कयं / तेणगेण दिवा / राति आगंतु तेणगेणं भणिअं-जइ न देह वत्थं रायदि तो भे सिरच्छेअं करेमि। आयरिएहिं भणिअं-खंडिअं, दंसेह ? दंसिअं, रुढो भणेति-सिव्विउं देह अन्नहा भे मारेमि / तं च सिव्विउं दिण्णं / एवमनेकदोषाः स्वयं ज्ञेयाः। तथा वस्त्रं साधुभिः साधूचितव्यापारविधिना व्यापार्यं न तु शोर्षावरणाद्यविधिना / यदुक्तं 'भिक्खविआरविहारे दूइज्जतो व गाममणुगामं / सीसदुवारं भिक्खू जो कुज्जा आणमाइणि ' / / शीर्षावरणे चोपकरणभोगविपर्यासः , विपर्यासभोगे चेमे प्रकाराः प्रायश्चित्तं च / खंधे दुवारसंजइगरुलद्धंसो अ पट्टलिंगदुगे / लहुगो लहुगो लहुगा तिसु चउगुरु दोसमूलं तु ' / चतुष्फलं मुत्कलं वा वस्त्रं स्कन्धे करोति / दुवार इति सीसदुवारिआ-शीर्षावरणं करोति द्वे अपि बाहे छादयन् संयतीप्रावरणेन प्रावृणोति / एकत उभयतो वा स्कन्धारोपितकल्पाञ्चलकरणेन गरुडपक्षं प्रावृणोति / अख़्स-उत्तरासङ्गः, 'पट्ट' इति चोलपट्टे बध्नाति / लिङ्गद्विकं-गृहलिङ्गमन्यतीर्थिकलिङ्गं वा करोति / एतेष्वष्टसु विपर्यासोपकरणभोगप्रकारेषु यथासङ्ख्यं पश्चाहॊक्तं प्रायश्चित्तमवसेयम् / शीर्षावरणे च त्रिधा छत्रकं भवति / उक्तं च-चउफलपुत्ती सीसे वहुपावरणाउ बिइअगं छत्तं / हत्थुक्खित्तं वत्थं तइअं छत्तं च पिच्छाइ'।। चतुष्फलं कल्प शिरसि करोति, वधूप्रावरणं नाम अङ्गष्टिं करोति / एतद्वितीयं छत्रकं / हस्तोत्क्षिप्तं दण्डके वा कृत्वा धरति इदं तृतीयं छत्रकम् / अथवा द्वे पूर्वोक्ते, तृतीयं पिच्छादि छत्रकं धरति / कारणे पुनः शीर्षावरणं कुर्यात् / उत्तं च