________________ 100 यति-जोतकल्पे भिर्दो पैरशुद्धानि वस्त्राणि गृह्णन्ति. स्वयमेव वा तन्तुवायैर्वाययन्ति, लिङ्गतः प्रवचनतोऽपि साधर्मिकाश्च ते इति तेषां वस्त्राण्यकल्पनीयानीति हेतोः साधवो न गृह्णन्ति / ततस्ते लिङ्गस्थाः संविग्नबहुमानिनः सन्तो वस्त्राण्यन्यत्र यथाभद्रककुलादौ प्रक्षिपेयुः। यदि साधवो वस्त्राणि गवेषयेयुस्तदा प्रदश्वमितिकृत्वा / तथा श्रावकाः श्राविकाः साधुस्वजना वा अस्मद्गृहे उद्गमदोषाशङ्कया साधवो न गृह्णीयरित्यन्यत्र स्थापयेयुः / तथा ऋद्धिमतः श्रेष्ठिसार्थवाहादेर्गृहे यतस्ततः प्रवेशो न लभ्यते, तस्य च पत्नी श्राविका सा भक्तिवशादन्यत्र प्रक्षिपेद् वस्त्राणि / यद्वा-ऋद्धिमान् पाखण्डिनां श्रमणानां वा पुण्यार्थं वस्त्राणि दद्यात् / तत्र साधवो निमन्त्रिता अप्युद्गमाशङ्कातो न गृह्णन्ति, तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्र प्रक्षिपेत् / एवं मामकस्यापि प्रान्तत्वेने र्ष्यालुत्वेन वा कम्यापि स्वगृहे प्रवेशं न ददात्येवं लक्षणस्य भार्या श्राद्धिका भक्तिभरप्रेरितो सती तथैवाऽन्यस्मिन् गृहे स्थापयेत् / राजपिण्डविवर्जिनः साधवो राजसत्कवस्त्राणि नाददीरन् , ततो राजाऽपि दानश्रद्धालुतयाऽन्यत्र प्रक्षिपेत् / स्तेनस्यापि वस्त्रं साधवो न गृह्णन्ति, ततः सोऽपि संयतभद्रको मदीयं न स्वीकुर्वन्ति इत्यन्यत्र प्रक्षिपेत् / एवं साधूनामर्थाय यदन्यत्र वस्त्राणां प्रक्षेपणं स प्रक्षेपकदोषः। यत् पुनः प्रथमं स्वार्थ निक्षिप्य पश्चात् साधूनामनुज्ञायते स निक्षेपकः / स च कालेन छिन्नो वा स्यादछिन्नो वा। छिन्नो नाम निर्धारितः / यदि वयं देशान्तरगताः सन्तः एतावतः कालार्वाक् न प्रत्यागच्छामस्ततो युष्माभिरमूनि वस्त्राणि श्रमणेभ्यः प्रदातव्यानीति / अच्छिन्नः पुनः प्रतिनियतकालविवक्षारहितः / तत्र यन्निक्षिप्तं-निक्षेपके स्थापितं वस्त्रं छिन्नकालं-प्रतिनियतकालावधिकं कृतं स्यात् तदवधिसमाप्तिदिनेअस्मिन् दिनेऽवधिः पूर्णो भवति तस्मिन् दिने शुद्धयति-कल्पते, न परतः स्थापनादोषसद्भावात् अच्छिन्ने पुनर्यदा प्रयच्छन्ति तदा कल्पते / अथाजनादिदूषितमध्यमादिभागवस्त्रग्रहणविषयं प्रायश्चित्तं शेषदोषातिदेशं चाह आसुररक्वसभागे गुरुगंजणमाइसिए वत्थे / पिंडम्मि व वत्थम्मि वि पच्छित्तं सेसदोसेसु // 193 // व्याख्या-इह यद्वस्त्रं प्रथमं लभ्यमानं भवति, तस्य प्रथमतस्त्रयो भागाः कल्प्यन्ते / भूयोऽप्येकैको भागस्त्रिधा विभज्यते / एवं नवभागीकृते वस्त्रे ये चत्वारः कोणकास्ते देवसम्बन्धिनो भागाः / यो द्वावञ्चलमध्यभागौ तौ मनुष्यसम्बन्धिनौ / यौ च द्वौ भागौ कर्णपट्टिकामध्यलक्षणौ तावसुरसम्बम्धिनौ। सर्वमध्यगतः पुनरेको भागो राक्षससत्कः / यदुक्तं'चउरो अ दिग्विआ भागा दुवे भागा य माणुसा / आसुरा य दुवे भागो मज्झे वत्थरस रक्खसो' / एतेषु च नवसु भागेषु अजनख जनकर्दमैः खरण्टितेषु मूषककंसारिकादिभिर्भक्षितेषु अग्निना दग्धेषु तुन्नितेषु रजककुट्टनेन पतितछिद्रेषु जोर्णेषु कुत्सिप्तवर्णान्तरसंयुक्तेषु फलमिदमवबोद्धव्यम् / 'दिव्वेसु उत्तमो लाभो माणुसेसु अ मज्झिमो / आसुरेसु अ गेलन्न मज्झे मरणमाइसे' / / ततो यौ द्वावासुरौ भोगौ यश्चैको राक्षसो भागः / एतेषु त्रिषु भागेषु यद्वस्त्रमञ्जनादिभिरादिशब्दात खजनकर्दममूषकाग्न्यादिभिर्दूषितं भवति, तस्मिन् वस्त्रे गृह्यमाणे गुरुकाश्चत्वारो भवन्ति / आत्मविरां. धनासद्भावात् आज्ञा च भगवतां विराधिता भवति / अतो यद्वस्त्रं निर्दोष लक्षणोपेतं च स्यात्-तत्साधुभिः