________________ वस्त्रविषयं प्रायश्चित्तम् आधाकर्मिकवसतिः परित्यज्यते / यतः साधुभिः सर्वत्र यथा बहुतरगुणप्राप्तिः स्यात् तथा प्रवर्तितव्यम् / यदागमःजम्हा सव्वाणुना सव्वनिसेहो अ नत्थि समयंमि / आयं वयं तुलिज्जा लाहाकंखी व वाणिअओ' // अथ वसतिप्रमार्जनविधिमाहउडुवसहि दो पमजण तइअं वासासु अन्नहा लहुगो / वसहि बहुसो पमज्जणि अइसंघट्टन्नहिं गच्छे / / व्याख्या- यत्राऽपि बसतिस्रससंसक्ता न भवति / तत्रापि वसतेरष्टसु ऋतुबद्धमासेषु द्वे प्रमार्जने कर्तव्ये / तद्यथा-पूर्वाहणे अपराहणे च / वर्षासु पुनस्तृतीयं प्रमार्जनं मध्याह्ने विधेयम् / अन्यथा यथोक्तप्रमार्जनाकरणे लघुको मासः प्रायश्चित्तं भवति / अथ कुन्थुप्रभृतिमिस्त्रसप्राणैः संसक्तावसतिस्तत ऋतुबद्धे वर्षामासे च यथोक्तप्रमाणादतिरिक्तमपि बहुशः प्रमार्जनं कुर्यात् / अथ वसतेर्बहुशः प्रमार्जने त्रसपाणानामतोव सङ्घट्टो भवति अतिबहवो वा त्रसास्ततोऽन्यत्र उपाश्रये ग्रामे वा गच्छेयुः / अथ वसतेरेकदेशे पिपीलिकामत्कोटकादिनगरम् अन्यतरप्राणिसन्तानो वा भवति / तत्राऽयं विधिः-कुटकण्ठ तत्र स्थापयन्ति क्षारेण वोपलक्षितं कृत्वा परिहरन्ति / अनुपयुक्ततया गच्छन् साधून शैक्षम् अयोगोलकल्पानपरान् वा नोदयन्ति / एवं वसतिविषयं प्रायश्चित्तं प्रदर्शितम् / अथ वस्त्रमपि मूलोत्तरगुणदुष्टं न ग्राह्यं तद्ग्रहणे प्रायश्चित्तमभिधित्सुराहतणवितणसंजयट्ठा मूलत्तरपमज्जणाइ चउभंगे / गुरुगा गुरुगा लहुगा विसेसिआ चरिमओ सुद्धो॥ व्याख्या- इह संयतार्थ वस्त्रनिष्पत्तिहेतोः यत् तनन-तानपरिकर्म वितननं च वानपरिकर्म क्रियते / एतौ मूलगुणौ / यद् वस्त्रं निष्पन्नं सन् खलिकां पाय्यते तत् पायनं, तदादय आदिशब्दाजलप्रक्षेपधावनधूपनादयो गृह्यन्ते एते उत्तरगुणा वस्त्रस्य / अत्र चतुर्भङ्गी भवति / तननवितनने संयतार्थं पायनमपि संयतार्थ, तननवितनने संयतार्थं पायनं स्वार्थ, तननवितनने स्वार्थं पायनं संयतार्थं, तननवितनने स्वार्थं पायनमपि स्वार्थम् / अत्रायेषु त्रिषु भङ्गेषु गुरुका गुरुका लघुकाश्च तपःकालाभ्यां विशेषिताः प्रायश्चित्तम् / तद्यथाप्रथमे भङ्ग चत्वारो गुरवः तपसा कालेन च गुरवः। द्वितीयेऽपि चतुर्गुरुकास्तपसा गुरवः कालेन लघवः / तृतोये चत्वारो लघुकाः कालेन गुरवस्तपसा लघवः / चरमः-चतुर्थो भङ्गो द्वयोरपि मूलोत्तरगुणयोः स्वार्थत्वात् शुद्धो निर्दोषः / पुनर्वस्त्रविषयमेव प्रायश्चित्तमाहलहुग समणद्वधोए वत्थेणत्तट्टिए अ पक्खित्ते / निक्खित्तु छिन्नकालं सुज्झइ अवहीसमत्तिदिणे // 192 // व्याख्या-श्रमणानां संयतानोमर्थाय यद्वस्त्रं धौत-प्रक्षालितं तस्मिन् गृहीते लघुकाश्चत्वारो भवन्ति / ऋणात्तस्य यद्वस्त्रं स्थितं स्यात् तस्मिँश्च वस्ने गृहीते चतुर्लघुकाः / अथवा अनात्मस्थिते परगृहे स्थापिते एवं रूपे प्रक्षिप्ते-प्रक्षेपकदोषदुष्टे वस्त्रे गृहीते चतुर्लघुकाः / ‘णत्तट्टिए' इति पदस्यार्थोऽन्यथाप्यभ्यूह्यः / ननु प्रक्षेपकदोषः कथं स्यात् ? उच्यते-ये श्रमणश्रमणीजना लिङ्गमात्रधारिणस्ते उद्गमादि