________________ यति-जीतकल्पे तास्तद्यथा-महावायां चत्वारो गुरुकास्तपोलघवः / सावद्यायां तपोगुरवः / महासावद्यायां तपसा कालेन च गुरवः / अल्पक्रियायां तु वसतौ तिष्ठन् शुद्धः / प्रायश्चित्तभाग न भवतीत्यर्थः / आसां च नवानां शय्यानां मध्ये पूर्वस्याः पूर्वस्या अनुज्ञा वेदितव्या। किमुक्तं भवति-नवानां शय्यानां मध्ये या पूर्वाऽल्पक्रिया सा तावत् प्रथममनुज्ञाता, लेशतोऽपि सोवद्याभावात् / तस्या अभावे शेषाणां मध्ये कालातिक्रान्ता या पूर्वा सा अनुज्ञाता / अल्पक्रियाया अलाभे सा आश्रयणीयेति भावः / तस्या अप्लाभे शेषाणां पूर्वा उपस्थाना सा अनुज्ञाता / एवं या या पूर्वी सा सा अनुज्ञाता / तावद्वक्तव्या यावत सावद्या महासावद्यायाः पूर्वा सा अनुज्ञाता। एवं पूर्वस्याः पूर्वस्या अलाभे उत्तरस्या उत्तरस्या अनुज्ञा वेदितव्या / अथ विशेषतः सजलवसतिविषयं प्रायश्चित्तमाह सिअउसिणोदगफासुअअफासु चउभंगि सदगसिज्जाए। ठंतस्स पढमतइए लहुगो लहुगा बिअचउत्थे // व्याख्या-शीतमुष्णं चोदकं प्रासुकमप्रासुकं च / अत्र चतुर्भङ्गी भवति / तद्यथा-शीतोदकं प्रासुकं. शीतोदकमप्रासुकम् , उष्णोदकं प्रासुकम् , उष्णोदकमप्रासुकम् / तत्र प्रथमभङ्गे उष्णोदकमेव शोतीभतं तन्दलधावनादिकं वा, द्वितीयभने शीतोदकमेव स्वभावस्थं, तृतीयभङ्ग उष्णोदकमदवृत्तत्रिदण्डं. चतर्थभले तापोदकादिकं मन्तव्यम / एवं चतविधोदकेन सहिता या शय्या तस्यां तिष्ठतः साधोः प्रथमे तृतीये च भङ्ग लघुको मासो भवति / द्वितीय-चतुर्थे पुनर्लघुकाश्चत्वारो भवन्ति / एवं गुडमोदकशष्कुलिकाक्षीरदधिनवनोतसर्पिस्तैललपनश्रीशिखरिणीप्रभृतिविविधाहारप्रतिबद्धवसतौ तिष्ठतश्चतुर्लघवो भवन्ति / अथापरवसत्यलाभे आधाकर्मिकस्त्रीसंसक्तवसत्योर्मध्ये कस्यां वस्तव्यमितिविचारं दर्शयति - एगा कम्मिअ वसही थीसंसत्ता इअरा दुसुवि गुरुगा। कारणि कम्मिअवसहीइ वसणमुचिअंन इअरीए // व्याख्या-एका वसतिः कार्मिकी-ओधाकर्मदोषदुष्टा मूलगुणरशुद्धत्यर्थः / इतरा-द्वितीया पुनर्मूलगुणः शुद्धा परं स्त्रीसंसक्ता-स्त्रीप्रतिबद्धा द्वयोरपि वसयोः स्थितौ चत्वारो गुरुगा इति प्रायश्चित्तं समानमेव / तथापि तयोर्मध्ये कार्मिकवसतौ कारणे-अपरनिर्दोषवसत्यलाभादिके पुष्टालम्बने वसनमवस्थानमुचितं, न पुनरितरस्यां स्त्रीसंसक्तवसतौ / कुत ? इत्याहुःजं एगकम्मदोसो कम्मिअवसहिवसणे गुरुस्सेव / इअरीए सव्वेसि भुत्ताभुत्ताणं बहु दोसा // 189 // व्याख्या-यद्-यस्मात् कारणात् कार्मिकवसतिवसने-आधाकर्मदोषदूषितायां वमताववस्थाने क्रियमाणे गुरोरेवाचार्यस्यैव, न शेषाणामेकः कर्मदोष-आधाकर्मलक्षणो दोषो भवति / इतरस्यां स्त्रीसंसक्तवसतौ पुनः सर्वेषां साधूनां भुक्तभोगानामभुक्तभोगानां च बहवो दोषाः प्रादुःष्यन्ति / तथाहि-भुक्तभोगानां स्मृतिकरणम् अभुक्तभोगानां कौतुकं भवति / तत उन्निष्क्रामणादयो दोषाः / गृहिणां च शङ्का जायते / एते अत्र स्थिता नूनं प्रतिसेवन्त इति लोके च परिवादो भवति-साधु तपोवने वसतीति / अथवा यदि स्त्रीसंसक्ता वसतिः पुरुषाकीर्णा पुरुषोश्च सुशीलाः स्त्रियोऽपि शीलवत्यः भीतपरिषदश्च ते पुरुषाः / यद्वा-ताः स्त्रियो बाला अतीववृद्धा वा तरुण्यो वो तेषां साधूनां नालबद्धा अगम्याः तदा