________________ वसतिदोषप्रायश्चित्तम् . उडुवासा समईआ कालाइक्कंत सा भवे सिज्जा। सा चेव उवट्ठाणा दुगुणादुगुणं अवज्जित्ता॥ व्याख्या-ऋतुबद्धकाले वर्षाकाले च यत्र स्थितास्तस्यामृतुबद्धे काले मासे पूर्ण, वर्षाकाले च चतुर्मासे पूर्ण यदि साधवस्तिष्ठन्ति तदा सा वसतिः कालातिक्रान्ता भवेत् / यस्यां वसतौ ऋतुबद्ध मासं, वर्षाकाले चतुर्मासं च स्थिता यदि तस्यामृतुबद्धवर्षाकालसम्बन्धिकालमर्यादां द्विगुणां द्विगुणामवर्जयित्वा भूयः समागत्य तिष्ठन्ति तदा सैव वसतिरुपस्थाना / किमुक्तं भवति-ऋतुबद्धे काले द्वौ मासौ, वर्षासु अष्टमासानपरिहृत्य यदि पुनरागच्छन्ति यस्यां वसतो ततः सा उपस्थाना भवति / अन्ये पुनरिदमाचक्षते-यस्यां वसतौ वर्षावासं स्थितास्तस्यां द्वौ वर्षारात्रावन्यत्र कृत्वा यदि समागच्छन्ति ततः सा उपस्थाना न भवति, अर्वाक् तिष्ठतां पुनरुपस्थाना / जावंतिअ वसही तेहिं भुत्त अभिक्कत इअरणभिक्कंता / वज्जा सगिहं दाउं सट्टाए अन्नगिहकरणे // व्याख्या-या शय्यो आचण्डालेभ्यो यावन्तिकी सा यदाऽन्यैश्चरकादिभिः पाखण्डस्थैर्गहस्थैर्वा निषेविता पश्चात् संयतास्तिष्ठन्ति तदा सा अभिक्रान्ता / सा एव यावन्तिकी अन्यैः पाखण्डस्थैर्गहस्थैर्वाऽपरिभुक्ता तस्यां यदि संयताः प्रविशन्ति ततः सा अनभिक्रान्ता / स्वगृहं यतिभ्यो दत्त्वा स्वार्थमन्यगृहकरणे वा भवति / आत्मार्थे पूर्वकृतं गृहं साधुभ्यः प्रदत्तं ततः स्ववसनार्थमन्यन्नवीनं गृहं यदि गृहस्थः करोति, तदा यत् साधुप्रदत्तं गृहं सा वसतिः वा प्रोच्यते इत्यर्थः / पासंडिअट्ठविहिआ महवज्जा समणअट्ठ सावज्जा / महसावज्ज जइट्ठा चरिमा अत्तट्टकडसुद्धा // 185 / / ख्याख्या-बहूनां श्रमणब्राह्मणप्रभृतीनां पाखण्डिनामर्थाय या विहिता वसतिः सा महावा / श्रमणार्थाय-पञ्चानां श्रमणानामर्थाय या कृता सा सावद्या / ते चामी-'निग्गंथसकतावसगेरुअ आजीवि पंच महासमणा' निग्रन्थाः-साधवः क्षपणका वा, शाक्या-रक्तपटाः, तापसा-वनवासिनः, गैरुकाःपरिव्राजकाः, आजीवका-गोसालकशैक्षाः पाण्डुरभिक्षवो वा / या पुनरमीषामेव-यतीनामर्थाय कृता सा महासावद्या / या पुनरात्मार्थं कृता शुद्धा च कोलातिक्रान्तादिदोषरहिता परिकर्मविप्रमुक्ता सर्वस्यापि परिकर्मणः स्वत एवाग्रे प्रवर्तितत्वात् सा वसतिश्चरमा-अल्पक्रिया वेदितव्या / अर्थतासु वसतिषु तिष्ठतः प्रायश्चित्तमोहकालाइआइ लहुगो उवठाणाईसु चउसु चउलहुगा / महावज्जाइसु गुरुगा अप्पकिरिआइ सुद्धो उ / व्याख्या-कालातिक्रान्तायां वसतौ तिष्ठतो लघुको मांसो भवति-ऋतुबद्धे काले कालातिक्रान्तं तिष्ठतो मासलघु / वर्षाकाले चत्वारो लघवो भवन्तीत्यर्थः / उपस्थानादिषु चतसृषु-उपस्थानायामभिकान्तायामनभिक्रान्तायां वायां चेत्यर्थः , तिष्ठतः प्रत्येकं चत्वारो लघुकाः। तथा महावादिषु तिसृषु-महावायां सावद्यायां महोसाक्द्यायां चेत्यर्थः, प्रत्येकं चत्वारो गुरवः / परं तपःकालविशेषि