________________ 96 यति-जातकल्प गुरुकास्तपोगुरवः काललघवः / मूलगुणाः स्वार्थमुत्तरगुणा अविशोधिकोटिगताः संयतार्थमिति तृतीयो भङ्गः / अत्र चत्वारो गुरवः कालगुरवः तपोलघवः क्रमादवसेयाः / आत्मार्थं मूलगुणो आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थकृतश्चरमभङ्गः शुद्धः / चतुर्थभङ्गवत्तिवसताववस्थाने प्रायश्चित्तं न भवतीत्यर्थः / अफासुएण देसे सव्वे वा दूमिआइ चउलहुआ / अफ्फासु धूमजोई देसम्मिवि चउलहू हुंति // 179 / / सेसेसु फासुएणं देसे लहु सव्वहिं भवे लहुगा / सुन्नवसहीइ गुरुगा बालाइवसहिपाले वि // 180 // व्याख्या-यत्र देशतः सर्वतो वा अप्रासुकेन वस्तुना दूमितादि / आदिशब्दात् समस्तान्यपि पदानि गृहीतानि / तत्र तिष्ठतः प्रत्येकं प्रायश्चित्तं चत्वारो लघुकाः। यत्र पुनरगुरुप्रभृतिभिधूपनम् अन्धकारेऽग्निकायेन उद्द्योतनं तत्र नियमादप्रासुकः सचित्तोऽग्निकाय इति देशेऽपि चत्वारो लघुका भवन्ति किमुत सर्वतः ? / शेषेषु धूपितमुद्द्योतितं च मुक्त्वाऽन्येषु दूमितवासितबलिकृतावत्तसिक्तसंसृष्टरूपेषु भेदेषु प्रासुकेन देशतः करणे लघुमासः / सर्वतश्चत्वारो लघुका भवन्तीति मूलोत्तरगुणाऽशुद्धवसत्यवस्थानविषयं प्रायश्चित्तमुक्तम् / तथा साधुभिर्वसतिः शून्या न कार्या, बालादिवसतिपालश्च न विधेयोऽनेकदोषसम्भवात् / ततः शून्यवसतौ कृतायां गुरुकाश्चत्वारः प्रायश्चित्तं ब.लादौ, आदिशब्दाद ग्लाने अव्यक्ते वा वसतिपालेऽपि कृते गुरुकाश्चत्वारो भवन्ति / निशीथादौ तु शून्यवसतौ चत्वारो लघुकाः कालतपोगुरवः / बालादौ तु मासलघु / अथ संसक्तवसतिस्थितिविषयं प्रायश्चित्तमाहसंसत्ताए काएहि सजिअमीसेहिं होइ सट्ठाणं / नरतिरिसंसत्ताए लहुगा गुरुगा नपुत्थीहिं // 181 // व्याख्या-कायैः-पृथिव्यप्तेजोवनस्पतिकायैः सजीवैः सचित्तैः मित्रैश्च-सचित्ताचित्तरूपैः संसक्तायां-संयुक्तायां वसतौ तिष्ठतः प्रायश्चित्तं स्वस्थानं-स्वस्थाननिष्पन्नं भवति / तद्यथा-सचित्तः पृथिवीकायादिभिः संसक्तायां वसतौ चतुर्लघु / हरितैरनन्तैश्चतुर्गुरु / प्रत्येकबीजै रात्रिंदिवपञ्चकं लघु / अनन्तबीजगुरुकम् / मिश्रः पृथिव्यादिभिर्मासलघु / हरितैरनन्तैर्मिश्रर्मासगुरु / वीजैरनन्तैश्च मित्रैः सचित्तैरिव त्रसकायैश्चत्वारो गुरुकाः / तथा नरैः-पुरुषैः तिर्यकत्रीभिश्च संसक्तायां वसतौ तिष्ठतां निग्रन्थानां चत्वारो लघुकाः / नपुंसकैर्मनुष्यत्रोभिश्च संसक्तायां वसतौ चत्वारो गुरुकाः। निम्रन्थीनां पुनस्त्रीभिः संसक्तायां चतुर्लघु / पुरुषसंसक्तायां चतुर्गुरुः स्यादित्यनुक्तमप्यवगन्तव्यम् / अथ वसतिर्नवधा भवतीति दर्शयतिकालाइक्कंतउवट्ठाण अभिकंत अणमिकता य / वज्जा य महावज्जा सावज्जमहऽप्पकिरिआ य // 182 // व्याख्या-शय्या नवप्रकारा भवति / तद्यथा-कालतिक्रान्ता, उपस्थाना, अभिक्रान्ता, अनभिक्रान्ता, वा, महावा, सावद्या, महासावद्या, अरूपक्रिया च / साम्प्रतमेतासामेव कालातिक्रान्तादीनां व्याख्यानमभिधित्सुराह