________________ वसतिविषयं प्रायश्चित्तम् यद्वा-वरतिलक्षणं चारित्रं भणित तच्च लक्षणं प्रलम्बानि गृह्णतो न स्यात् / लक्षणाभावे च चारित्रमपि न भवेत् / प्रलम्बग्रहणाञ्च साधोर्जीवेषु समता न विद्यते, समताया अभावाच्च सम्यक्त्वमपि नास्ति तस्यापि सामायिकभेदतया समतारूपत्वात् / तथा ज्ञानोपदेशे क्रियाद्वारेणावर्त्तमानोऽसौ ज्ञान्यपि अज्ञानी मन्तव्यः / एवमन्यत्राऽप्याज्ञाभङ्गादिष्विदं प्रायश्चित्तं ज्ञातव्यमिति पिण्डविषयं प्रायश्चित्तं प्रपश्चितम् / अथ वसतिमधिकृत्य प्रायश्चित्तमाचिख्यासुर्मूलोत्तरगुणदुष्टवसतिस्वरूपमाहपिट्ठीवंसो दो धारणा य चत्तारि मूलवेलीओ। मूलगुणेहिं असुद्धा एसा आहागडा वसही // 175 // व्याख्या-उपरितनस्तिर्यक्पाती पृष्ठिवंशः / द्वौ मूलधारणौ ययोरुपरि पृष्ठिवंशः तिर्यगनिपात्यते / चतस्रश्च मूलबेलय उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् / एते वसतेः सप्त मूलभेदा एतैर्मूलगुणैः सप्तभिरशुद्धा या एषा वसतिः आधाकृता भवति साधूनाधाय-सम्प्रधार्य कृता आधाकृता / पृषोदरादित्वादिष्टरूपनिष्पत्तेः / वंसगकडणुकंबणछायणलेवणदुवारभूमी अ। सपरिकम्मा वसही एसा मूलुत्तरगुणेहिं // 176 // व्याख्या-वंशका ये बेलीनामुपरि स्थाप्यन्ते पृष्ठवंशस्योपरि तिर्यक् / कटनं-कटादिभिः समन्ततः पार्थाणामाच्छांदनम् / उत्कम्बनम्-उपरि कम्बिकोनां बन्धनं छादन-दर्भादिमिराच्छादनम् / लेपनं कुड्यानां कर्दमेन गोमयेन च लेपप्रदानम् / 'दुवार 'त्ति / संयतनिमित्तमन्यतो वसतेभरकरणम् / 'भूमि'त्ति // समभूमिकरणम् / एतत् सप्तविधमुत्तरकरणम् / एषा सपरिकर्मा वसतिर्मूलगुणैरुत्तरगुणैश्च / एषा नियमेन विशोधिकोटिरन्येऽपि चोत्तरगुणा वसते विद्यन्ते, तैः कृता विशोधिकोटिः / के तेऽन्ये उत्तरगुणा ? इत्यत आहदूमिअधूमि(वि)अ वासिअ उज्जोइअवलिकडा अवत्ता य। सित्ता संमट्ठावि अविसोहिकोडीगया वसही॥ व्याख्या- दूमिता नास सुकुमारलेपेन-सुकुमारीकृतकुड्या सेटिकया धवलीकृतकुडथा च / धूपिता-अगुरुप्रभृतिभिः वासिता-पटवासकुसुमादिभिः / उद्योतिता-अन्धकारे-अग्निकायेन कृतोद्योता / बलिकृता यत्र सयतनिमित्तं बलिविधानं कृतम् / अवत्तानाम यत्र भूमिरुपलिप्ता / सिक्ता-आवर्षणकरणतः / सम्मृष्टा-सम्मार्जन्या, संयतनिमित्तमेवमुत्तरगुणैः कृता वसतिर्विशोधिकोटिगता भवति / अथाविशोधिकोटि -विशोधिकोटिगतवसत्यवस्थानविषयं प्रायश्चित्तमाहमूलुत्तरचउमंगो पढमे दोहिं गुरु गुरुग बिअतइए / तवगुरुकालगुरुकमा अत्तट्टकडो चरिम सुद्धो॥ व्याख्या- मूलगुणाः-पृष्ठवंशादय उत्तरगुणा-वंशकादयः / तेषु मूलोत्तरगुणेषु चतुर्भङ्गी / गाथायां पुंस्त्वं प्राकृतत्वात् / मूलगुणा अपि पृष्ठवंशादयः संयतनिमित्तमुत्तरगुणा अपि विशोधिकोटिगता वंशकादयः संयतनिमित्तमिति प्रथमो भङ्गः / अत्र प्रायश्चित्तं चत्वारो गुरुका द्वाभ्यां गुरवः तपसा कालेन च / मूलगुणाः संयतार्थ मुत्तरगुणा अविशोधिकोटिगताः स्वार्थमिति द्वितीयः / अत्र चत्वारो