________________ यति-जोतकल्पे राज्ञा कारितां घोषणां श्रुत्वा घोषणया च निवारितमर्थमपरिहरन्तो यथा द्रव्यापहारलक्षणं विनाशं प्राप्ताः / एवं तीर्थकरनिषिद्धं प्रलम्बग्रहणमपरिहरन्तो हृतसर्वस्वा-अपहृतसंयमरूपसर्वसाराः संसारे दुःखमवाप्नुवन्ति / जहा कोइ नरवई सो छहिं पुरिसेहिं अन्नतरकज्जे तोसितो इमेणत्थेण घोषणं कारेइ / इमे छप्पुरिसा मज्झं पुरे अप्पणो इच्छाए विहरमाणा महाजणेणं अदिट्ठपुव्वा अणुवलद्धविभव नेवत्था अच्छति / जो ते छिवइ वा पीडेइ वा मारेइ वा तस्स उग्गं दंडं करेमि / एवं घोषणयं सोऊण ते पउरा जणवया य दंडभीता. ते पुरिसे पयत्तेण वण्णरूवाईहिं चिंधेहिं आगमिऊणं पीडापरिहारकयबुद्धी तेसिं छण्हं पुरिसाणं पीडं परिहरंति ते निदोसा / जे पुण अणायारमंता न परिहरंति ते रन्ना सव्वस्सावहारदंडेणं दंडिआ / एस दिÉतो / अयमत्थोवणओ-रायत्थाणीआ तित्थयरा / पुरत्थाणीओ लोगो / छप्पुरिसत्थाणीआ छक्काया / घोषणत्थाणीया छक्कायरक्खणपरूवणपरा छज्जीवणिआदओ आगमा / छिवणाइत्थाणोआ संघट्टणादी / पउरजणवयत्थाणीआ साहू / दंडत्थाणीओ संसारो। तत्थ जे य पयत्तेण छण्हं कायाणं सरूवं रक्खणोवायं च आगमेऊण जहुत्तविहीए पीडं परिहरंति ते कम्मबंधदंडेणं न दंडिजति / इअरे पुण संसारे पुणो पुणो सारीरमाणसेहि दुक्खसयसहस्से हिं दंडिज्जंति त्ति / तथा मिथ्यात्वे चत्वारो लघुका भवन्ति / शङ्कादयश्च दोषाः / यदुक्तम् -- 'मिच्छत्त संकाई जहेअ मोसं तहेव सेसंपि / मिच्छत्तथिरीकरणं अब्भुवगमवारणमसारं / मिथ्यात्वे विचार्यमाणे शङ्कादयो दोषा वक्तव्याः / शङ्का नाम किं मन्ये अमी यथावादिनस्तथाकारिणो न भवन्ति ? येन प्रलम्बानि गृह्णन्ति / आदिशब्दात् काङ्क्षादयो दोषाः। तथा यथतन्मृषा तथव शेषमन्यदप्येतेषां मिथ्यारूपमेवेति चित्तविप्लुतिः स्यात् , मिथ्यात्वाद्वा चलितभावस्य सम्यक्त्वाभिमुखस्य प्रलम्बग्रहणदर्शनात् पुनरपि मिथ्यात्वे स्थिरीकरणं भवति / अभ्युपगमं वो प्रव्रज्याया अनुव्रतानां वा सम्यग्दर्शनस्य वा कर्त्तकोमस्याऽपरः कश्चित वारणं कुर्यात्-मा एतेषां समीपे प्रतिपद्यस्व / असारं-निस्सारममीषां प्रवचनं मयेदं चेदं च दृष्टमिति / तथा अनवस्थायां चत्वारो लघुका भवन्ति / सा चेयम् - ___एगेण कयमकज्जं करेइ तप्पञ्चया पुणो अन्नो / सोयाबहुलपरंपरवुच्छेदो संजमतवाणं' // एकेन केनचिदाचार्यादिना किमप्यकार्य-प्रमादस्थानं कृतं-प्रतिसेवितं ततोऽन्योऽपि तत् प्रत्ययादेष आचार्यादिः श्रतधरोऽप्येवं करोति, नूनं नास्त्यत्र दोष इति तदेवाकार्य करोति / ततोऽपरोऽपि तथैव करोति तदन्योऽपि तथैवेत्येवं सातबहुलाना-सातगौरवप्रतिबद्धानां प्राणिनां परम्परया प्रमादस्थानमासेवमानानां संयमतपसोयवच्छेदः प्राप्नोति / यद्धि संयमस्थानं तपःस्थानं वा पूर्वाऽऽचार्येण सातगौरवगृध्नुतया वर्जितं तत पाश्चात्यैरदृष्टमिति कृत्वा व्यवच्छिन्नमेव / अथ विराधना सा च द्विधा-आत्मविषया संयमविषया च / तत्राऽऽत्मविराधना जिह्वालोलुपतया बहुप्रलम्बभक्षणे विसूचिकादिमिः / तस्यां च गुरुकाश्चत्वारो भवन्ति / संयमः-पञ्चमहाव्रतषड्विधजीवनिकायरक्षणात्मकः तस्मिन् या विराधना तस्यां व्रतकायनिष्पन्न प्रायश्चित्तं भवति / अयमर्थः-यत् पूर्वं व्रतषटूविराधनाविषयं षड्विधजीवनिकायविराधनाविषयं च प्रायश्चित्तं प्रतिपादितं तदत्र संयमविराधनायामवगन्तव्यमिति / संयमविराधना चात्रेत्थं भवति / प्रलम्बानि गृह्णानो वनस्पतिकोयान् न परित्यजति, तं चापरित्यजन् शेषानपि कायानसौ भावतः न . परित्यजति, तदपरित्यागे च प्रथमव्रतपरित्यागः। प्रथमव्रतपरित्यागे च शेषव्रतपरित्यागोऽप्युपजायते /