________________ आशाभङ्गादिदाषप्रायश्चित्तम् 'बत्तीसाई जा इक्कघास खवणं व नवि अ से हाणी। आवस्सएसु अत्थओ जा छम्मासे न य पलंवे'। ओदनस्य द्वात्रिंशत् कवलाः पुरुषम्य प्रमाणप्राप्त आहारः / यदि ते एकेन कवलेन न्यूनाः प्राप्यन्ते ततस्तैरेव तिष्ठतु / यदि से-तस्य साधोरावश्यकेषु-अवश्यकृत्ययोगेषु हानिर्नापि नैव भवति, न च प्रलम्बानि गहात / एवं द्वाभ्यां कवलाभ्यां न्यनाः द्वात्रिंशत् कवला लभ्यन्ते तस्तिष्ठतु यदि तस्यावश्यकयोगा न परिहीयन्ते / एवमेकैकं कवलं परिहापयतो तावद्वक्तव्यं यावद्यद्यको ग्रासः-कवलः प्राप्यते ततस्तेनैवास्ताम् / यदि तस्याऽऽवश्यकयोगा न परिहीयन्ते मा च प्रलम्बानि गृह्णातु / अथैकोऽपि कवलो न प्राप्यते तत एक दिवसं क्षपणमुपवासं कृत्वा आस्तां द्वितीयदिवसे द्वात्रिंशत्कवलैः पारयतु / यदि तावन्तो न लभ्यन्ते, तत एकैककवलपरिहाण्या तावद्वक्तव्यं यावद्योकोऽपि कवलो न लब्धः / ततः षष्ठं कृत्वा समाधिसौधमध्यास्ताम् / षष्ठस्य च पारणके प्रमाणप्राप्तमाहारमुपादत्ताम् / अथ न लभ्यते ततः पूर्वोक्तयुक्त्या यावदेकोऽपि कवलो न लभ्यते / ततोऽष्टमं कृत्वा तिष्ठतु | मा च प्रलम्बान्याददीत / एवमनयैव दिशा दशमादिकमुत्तरोत्तरक्षपणं वर्द्धयता तावन्नेतव्यं यावत् षण्मासक्षपणं करोतु यद्यावश्यकयोगा न परिहीयन्ते मा च प्रलम्बानि गृह्णातु / एवमादि प्रकारेण प्रलम्बविषया यतना प्रकल्पादौ विस्तरेण प्रदर्शिता तत एवोवसेया / एवं खादिमाहारविषयं प्रायश्चित्तं भणितम् / अथ स्वादिमाहारविषयं भण्यते / 'साइमि लवंगपूआइए गुरुग'त्ति / स्वादिमाहोरमध्ये लवङ्गपूगादिके-लवणं-देवकुसुमं, पूरी-पूगीफलम् , आदिशब्दात् खदिरवटिकाजातीयफलादिग्रहः / तस्मिन् गृहीते गुरुकाश्चत्वारो मासा भवन्तीति चतुर्विधाहारविषयं प्रायश्चित्तमुक्तम् / अथात्र प्रतिपदमाज्ञाभङ्गादयो ये दोषाः प्रोच्यन्ते तद्विषयं प्रायश्चित्तमाह - आणाभंगे चउगुरु लहुगा मिच्छे तहाणवत्थाए / गुरुगा आयविराहणि संजमि वयकायनिफन्नं // 174 // व्याख्या- इयं गाथा सामान्यविषयाऽपि प्रलम्बप्रक्रमात् प्रलम्बविषया प्रदर्यते / तद्यथाभगक्ता प्रतिषिद्धं यत् प्रलम्बं न कल्पते, तद् ग्रहणं कुर्वता भगवतामाज्ञाभङ्गः कृतो भवति / तस्मिँश्चाऽऽज्ञाभङ्गे चतुर्गुरुकाः / अत्राह परः'अवराहे लहुगतरो आणाभंगम्मि गुरुतरो किह णु? आणाइच्चिअ चरणं तब्भंगे जाण किं न भग्गं नु' / अपराधे चारित्रातिचारे लघुतरो दण्डो भवद्भिः पूर्व भणितः / तथाहि-अचित्ते प्रलम्बे मासलघु. सचित्ते चतुर्लघु / इह पुनराज्ञाभगे चतुर्गुरुकमिति गुरुतरो दण्डः कथं-कस्मात् ? नुरिति वितर्के / अपि च-अनपराधिजीवोपघातो दृश्यते तेन तत्र गुरुतरो दण्डो युक्तियुक्तः / आज्ञायां पुनर्नास्ति जीवोपघात इति लघुतर एवात्र भणितुमुचित इति / गुरुराह-आज्ञायामेव भागवत्यां चरणं-चारित्रं व्यवस्थितम् / अतः तद्भङ्गे-तस्या आज्ञाया भङ्गे किं तन्मूलोत्तरगुणादिकं वस्तु न भग्नम् ? / अपि तु सर्वमपि भग्नमत्त आज्ञायां गुरुतरो दण्ड उच्यते / अस्यैवार्थस्य प्रसाधनार्थमयं दृष्टान्तः'सोऊण य घोसणयं अपरिहरंता विणास जह पत्ता / एवं अपरिहरंतो हिअसव्वस्सा उ संसारे' /