________________ यति जीतकल्पे तीर्थकृतामाज्ञाभङ्गः कृतो भवति / अनवस्था मिथ्यात्वं विराधना च संयमात्मविषया कृता भवति / तथा प्रलम्बान्यनाचीर्णानि / तथा चोक्तम् _ 'अविअ हु सव्व पलंबा जिणगणहरमाइएहिं नाइन्ना / लोउत्तरिआ धम्मा अणुगुरुणो तेण ते वज्जा'। व्याख्या-अपिचेति दूषणाभ्युच्चये / पूर्वोक्ता दोषास्तावत् स्थिता एव दूषणान्तरमप्यस्तीति भावः / हुः-निश्चितम् / सर्वाणि सचित्ताऽचित्तभेदभिन्नानि मूलकन्दादिभेदाद् दशविधानि वा प्रलम्बानि जिनैस्तीर्थकरैर्गणधरैश्च गौतमादिभिरादिग्रहणेन जम्बू-प्रभव-शय्यम्भवादिभिः स्थविरैरप्यनाचीर्णानिअनासेवितानि / लोकोत्तरिकाश्च ये केचन धर्माः-समाचारास्ते सर्वेऽप्यनुगुरवो यद्यथा-पूर्वगुरुभिराचरितं तत्तथैव पाश्चात्यैरप्याचरणीयमिति गुरुपारम्पर्यव्यवस्थया व्यवहरणीया इति भावः / येनैवं तेन तानि प्रलम्बानि-परिहर्त्तव्यानि / अत्र परः प्राह-यदि यद्यत् प्राचीनगुरुभिराचीणं तत्तत् पाश्चात्यैरप्या चरितव्यं तर्हि तीर्थकरैः प्राकारत्रयछत्रत्रयप्रभृतिका प्राभृतिका तेषामेवार्थाय सुरविरचिता यथा समुपजीविता / तथा वयमप्यस्मन्निमित्तकृतं किन्नोपजीवामः ? / नैवं, यतो यद्यप्यनुगुरवो धर्मास्तथापि न . . सर्वसाधात् किन्तु देशसाधादेव / तथाहि-तीर्थकरा यत् सुरेन्द्रादिकृतानतिशयानुपजीवन्ति स तीर्थकरजीतकल्प इति कृत्वा न तत्राऽनुधर्मता चिन्तनीया / यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते / सो चेयम्-अनाचीर्णेति दयते___ 'सगडदहसमभोमे अविअ विसेसेण विरहिअतरागं / तहवि खलु अणाइन्नं एसणुधम्मो पवयणस्स'।। यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रव्राजनाथ सिन्धुसौवीरदेशावतंसं वीतभयं नगरं प्रस्थितः / तदा किलापान्तराले बहवः साधवः क्षुधार्ताः तृषार्दिताः सज्ञाबाधिताच बभूवुः / यत्र च भगवानाऽऽवासितः तत्र बहूनि तिलशकटान्यासन् / तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुःक्षयेणाचित्तोभूताः , स्थण्डिले च स्थितास्तदुद्भवाऽऽगन्तुकत्रसविरहिताश्च तिलशकटस्वामिभिश्च दत्ताः / तथा हृदः पानीयपूर्णों यथाऽऽयुष्कक्षयादचित्तीभूतोऽचित्तपृथिव्यां च स्थितस्त्रसविवर्जितश्च हृदस्वामिना च दत्तः / साधवश्च ते क्षुधापीडिताः तृषार्दिताश्चाऽऽयुषः स्थितिक्षयमकार्युः / तथापि खलु भगवताऽनाचीण-नानुज्ञातं ग्रहणं, मा भूदशस्त्रोपहते ग्रहणप्रसङ्गः / तीर्थकरेणाऽपि गृहीतमिति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः / तथा स्वामी तृतीयपौरुष्यां भुक्तमात्रैः साधुभिः सार्धमेकामटवीं प्रपन्नः / तत्र च समभोमं गर्तागोष्पदबिलादिवर्जितं यथास्थितिक्षयव्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्त्तते, अपरं च शस्त्रोपहतं स्थण्डिलं नास्ति, साधवश्च ते सज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति / तथापि भगवान्नानुज्ञां करोति / यथा'अत्र व्युत्सृजत' इति / मा भूदशस्त्रोपहते प्रसङ्गः / युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् / यत उक्तम् 'प्रमाणानि प्रमाणस्थै रक्षणीयानि यत्नतः / विषीदन्ति प्रमाणानि प्रमाणस्थैर्विसंस्थुलैः / एषोऽनुधर्मः प्रवचनस्य-तीर्थस्य सर्वैरपि प्रवचनमध्यमध्यासीनैरशस्त्रोपहतपरिहारलक्षण एष एव धर्मोऽनु. गन्तव्य इति भावः / एवं प्रलम्बान्यपि तीर्थकरादिभिरनाचीर्णानि पाश्चात्यैरपि परिहर्त्तव्यानि / तथाअवमकाले असंस्तरणे प्रलम्बग्रहणे इयं यतना