________________ 112 यति-जीतकल्पे अव्वुच्छित्तिनिमित्तं जीविअट्ठी समाहिहेउं वा / गंडादीसुं किमिए जयणाए नीहरे भिक्खू / / सुत्तत्थाणं अव्वुच्छित्तिं करिस्सामि त्ति / जीवितही वा जीवंतो संजमं करिस्सामि, चउत्थाइणा वा तवेणं अप्पाणं भाविस्सामि, नाण-दसण-चरित्तसमाहिसाहणट्टा वा अथवा समाहिमरणेण वा मरिस्सामि त्ति / किमिए जयणाए नीहरिज / जयणा जहा जीवोवघाओ न भवतीत्यर्थः / तथा संखडेसङ्खड्यां चतुर्गुरु / इदमुक्तं भवति-सङ्खडी द्विविधा-आचीर्णा अनाचीर्णा च / साधूनां कल्पनीया आचीर्णा, इतरा अनाचीर्णा / तत्रैता अनाचीर्णाः'जावंतिआ पगणिआ सखित्त अखित्त बाहिराइण्णा / अविसुद्धा पंथ गमणा सपञ्चवाया सभेआ य' // तटिककार्पटिकादीनां सर्वेषां यस्यां दीयते सा यावन्तिका / यस्यां पुनः पाखण्डिनामेव दश सरजस्कानां दश शाक्यानां दश परिव्राजकानां दश श्वेतपटानामेवं गणितानां दीयते सा प्रगणिता / स्वक्षेत्रे या सक्रोशयोजनाभ्यन्तरे, अक्षेत्रे या सचित्तपृथिव्यां सचित्तवनस्पतिकायादिषु या स्थिता / बाह्या या सक्रोशयोजनप्रमाणक्षेत्रावग्रहाद् बहिः। आकीर्णा चरकपरिव्राजकसरजस्कादिभिस्तटिककार्पटिका-' दिभिश्च या आकुला। यस्या मार्गः पृथिव्यब्वनस्पतित्रसः संसक्तो भवति साऽविशुद्धपथा। सिंहादिश्वापदस्तेनादिप्रत्यपायसहिता सप्रत्यपाया / यस्यां विषकुटिलप्रयोगेण जोवितचरित्रभेदो भवति सा सभेदा / एताः सर्वा अपि सङ्खड्योऽनाचीर्णाः / यावन्तिकादिदोषविप्रमुक्ता आचीर्णाः / अनाचोर्णासु च नवसु सङ्खडीषु गच्छतः प्रायश्चित्तं, तद्यथा-यावन्तिकायां चतुर्लघु / प्रगणितायां चतुर्गुरु / स्वक्षेत्रसङ्खडयां चतुर्लघु / अक्षेत्रसङ्खडयां कायप्रायश्चित्तम् / बाह्यायामर्द्धयोजनार्द्धयोजनवृद्धौ चतुर्लघु-चतुर्गुरुप्रभृति / आकीर्णायां चतुर्गुरु / अविशुद्धपथायां कायप्रायश्चित्तमेव / सप्रत्यपायायां दर्शनापाये चतुर्लघु / ब्रह्माद्यपाये चतुर्गुरु / सभेदायां चतुर्गुरु / तथा वमने सजाते च चतुर्गुरु / तथा हस्तशताद् बहिर्गमनागमनादौ ईर्याया-ईर्यापथिक्या अप्रतिक्रमणे उपयोगाकरणे च लघुमासः। तथा पौरुषीचतुष्टये स्वाध्यायाकरणे गुरुको मासः / साधुना हि सततं विशुद्धस्वाध्यायध्यानबद्धादरेण भाव्यम् / यदुक्तं श्रीमहानिशीथे तहा गोयमा ! पवजादिवसप्पभिईए जहुत्तविणओवहाणेणं. जे केइ साहू वा साहुणी वा अपुव्वनाणगहणं न कुज्जा तस्स सुअं विराहिअं / सुत्तत्थोभयं सरमाणे एगग्गचित्ते पढमचरमपोरिसीसु दिआ राओ अनाणुगुणिज्जा से णं गोअमा ! नाणकुसीले णेए / जस्स य गुरुअनाणावरणोदएण अहं निसं पहोसेमाणस्स न संवच्छरेणावि सिलोगद्धमवि थिरपरिचिअं भविजा, तेणावि जावज्जोवाभिग्गहेणं सज्झायसीलाण वेआवञ्च तहा अणुदिणं अड्ढाइज्जे सहस्से 2500 पंचमंगलाणं सुत्तत्थोभए सरमाणे एगग्गमाणसे पहोसिज्जा / से भयवं ! केणं अद्वेणं ? गोअमा ! जे भिक्खू जावज्जीवाभिग्गहेणं चाउकालिअं वायणाइ जहासत्तोए सज्झायं न करिज्जा, से णं कुसीले णेए / अन्नं च जे केई जावज्जीवा भिग्गहेणं अपुव्वनाणोहिगम ण करिज्जा, तस्सासत्तीए पुव्वाहीअं गुणिज्जो / तस्सावि असत्तीए पवमंगलाण अड्ढाइज्जे सहस्से परोवत्ते, से भिक्खू आराहगे / तं च नाणावरणं खवित्ताणं तित्थयरे इ वा गणहरे इ वा भवित्ता णं सिज्झिज्जा / से भयवं! केणं अटेणं एवं वुच्चइ जहा णं चाउकालिअं सज्झायं कायव्वं? गोअमा! -