________________ गोत्र-मीमांसा 327 उच्चनीचं गमयतीति गोत्रम् / जो उच्च और नीचका ज्ञान कराता है वह गोत्र है / -वर्गणाखण्ड, प्रकृति अनुयोगद्वार, 134 सूत्र, धवला उच्चैर्गोत्रस्य क्व व्यापारः ? न तावद् राज्यादिलक्षणायां सम्पदि, तस्याः सद्वेद्यतः समुत्पत्तेः / नापि पञ्चमहाव्रतग्रहणयोग्यता उच्चैर्गोत्रेण क्रियते, देवेष्वभव्येषु च तद्ग्रहणं प्रत्ययोग्येषु उच्चैर्गोत्रस्य उदायाभावप्रसङ्गात् / न सम्यग्ज्ञानोत्पत्तौ व्यापारः, ज्ञानावरणक्षयोपशमसहायसम्यग्दर्शनतस्तदुत्पत्तेः / तिर्यक-नारकेष्वपि उच्चैर्गोत्रस्योदयः स्यात्, तत्र सम्यग्ज्ञानस्य सत्वात् / नादेयत्वे. यशसि सौभाग्ये वा व्यापारः, तेषां नामतः समुत्पत्तेः / नेक्षाकुकुलाद्युपत्तौ, काल्पनिकानां तेषां परमार्यतोऽसत्त्वात् विडब्राह्मणसाधुष्वपि उच्चैर्गोत्रस्योदयदर्शनात् / न सम्पन्नेभ्यो जीवोत्पत्तौ तद्व्यापारः, म्लेच्छराजसमुत्पन्नपृथुकस्यापि उच्चैर्गोत्रोद्यप्रसङ्गात् / नाणुव्रतिभ्यः समुत्पत्तौ तद्व्यापारः, देवेष्वौपपादिकेषु उच्चैर्गोत्रोदयस्यासत्त्वप्रसङ्गात् नाभेयस्य नीचैर्गोत्रतापत्तेश्वः / ततो निष्फलमुच्चैर्गोत्रम् / तत एव न तस्य कर्मत्वमपि / तदभावे न नीचेगर्गोत्रमपि, द्वयोरन्योन्याविनाभावित्वात् / ततो गोत्रकर्माभाव इति ? न, जिनवचनस्यासत्यत्वविरोधात् / तद्विरोधोऽपि तत्र तत्कारणाभावतोऽव. गम्यते / न च केवलज्ञानविषयीकृतेष्वर्थेषु सकलेष्वपि रजोजुषां ज्ञानानि प्रवर्तन्ते येनानुपलम्भाज्जिनवचनस्याप्रमाणत्वमुच्येत / न च निष्फलं गोत्रम्, दीक्षायोग्यसाध्वाचाराणां साध्वाचारैः कृतसम्बन्धानां आर्यप्रत्ययामिधानव्यवहारनिबन्धनानां पुरुषाणां सन्तानः उच्चैर्गोत्रम् / तत्रोत्पत्तिहेतुकर्माप्युच्चैगोत्रम् / न चात्र पूर्वोक्तदोषाः सम्भवन्ति, विरोधात् / तद्विपरीतं नीचैर्गोत्रम् / एवं गोत्रस्य द्वे एव प्रकृती भवतः / . -प्रकृति अनुयोगद्वार, सूत्र 136, धवला - शंका–उच्चगोत्रका व्यापार कहाँ होता है ? राज्यादिरूप सम्पदाकी प्रातिमें तो उसका व्यापार होता नहीं है, क्योंकि उसकी उत्पत्ति साता