________________ 74 तत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 त्य वाऽभिधीयते, सर्वगतात्मनः सर्वत्र सर्वोपलब्धिप्रसङ्गः। अथ यत्रैवोपआत्मनो . भोगोपलब्ध्यधिष्ठानं शरीरमस्ति तत्रैवोपलब्धिस्तदभावान्नान्यत्र चेत् तदनिष्क्रियत्वस्य निरासः युक्तम् , अन्यत्रापि शरीरकाणां सम्भवात् / निजधर्माधर्मोत्पादितं यच्छ रीरकं तत्रेति चेत् तदसत्, निष्क्रियत्वात् / आत्मनस्तावेव धर्माधर्मों कथं निजाविति निष्क्रियस्य संसारमुक्तिप्रहाणप्राप्युपायानुष्ठानाभावादसमीचीन एव निष्क्रियस्वपक्षः। आदिग्रहणात् क्षणविनश्वरविज्ञानमात्रतोद्भावनं स्कन्धमात्रतोद्भावनमवक्तव्यतोद्भावनं वा सवमनृतमिति / असत एव द्वितीयभेदव्याख्यानायाह भा०-अर्थान्तरं यो गां ब्रवीत्यश्वं अश्वं च गौरिति / गर्हेति हिंसापारुध्यपैशुन्यादियुक्तं वचः सत्यमपि गर्हितमेव भवतीति // 9 // टी०-अर्थान्तरमित्यादि / अर्थादन्योऽर्थःअर्थान्तरम् / तद् दर्शयति-योगां ब्रवीत्यश्वमिति अश्वं च गौरिति / य इति प्रमत्तस्य कर्तु निर्देशः। गोशब्दः सङ्केतवशात् सानादिमतिपिण्डे लोकेन व्यवहारार्थं प्रयुज्यत इति रूढम् / अश्वशब्दोऽप्येकशफाद्यवयवसन्निवेशविशेषे प्रसिद्धः। वक्ता तु वैपरीत्येन मौढ्यात् प्रयोगं करोत्यश्वशब्दं गवि प्रयुङ्क्ते, शाठ्यावा, गोशब्दं चाश्व इति, एवम्, अचौरं चौर इत्यादि / असत एव तृतीयभेदो गर्दा / तद्विवरणायाह-गहेंति हिंसेत्यादि / गहणं गर्दा कुत्सा शास्त्रप्रतिपिद्धवागनुष्ठानं गर्हितं कुत्सित मितियावत् / युक्तशब्दः प्रत्येकमभिसम्बध्यते / हिंसायुक्तं वचः सद्भूतार्थप्रतिपत्तिकायप्यलीकमेव / यतो हिंसानिवतेषावादादिनिवृत्तिः परिकरः। हिंसानिवृत्तिपरिरक्षणार्थमेव हि मृषावादादिवृत्तय उपदिष्टाः। तत्र हिंसा-अभिहितलक्षणा येन वचसोच्यमानेन प्राणिनां परितापावद्रावणे भवतस्तद्धिसायुक्तं वचः सत्यमप्यागने कुत्सितत्वादनृतमेव भवति / यतः प्राणि पीडापरिरक्षणार्थे मृपावादादिनिवृत्तिरिति / तथा पारुष्ययुक्तं परुषो-निष्ठुरस्तद्भावः पारुष्यं-निष्ठुरवचनाभिव्यङ्गयमन्तगताशुभभावपिशुनं तदपि परपीडोत्पादहेतुत्वात् सत्यमपि गर्हितम् / ' तथा पैशुन्ययुक्तम् / मर्मसु तुदन् परान् पिशुन उच्यते, तद्भावः पैशुन्यम् / येन येन वचसोचार्यमाणेन परस्य प्रीतिर्विहन्यते तत् सर्व पैशुन्ययुक्तमिति / आदिशब्दाच्छलशठदम्भकल्कविकारोल्लप्तिकाकटुकसन्दिग्धाहितामिताप्रशस्त विकथाश्रितप्रवचनविरुद्धसावद्यग्रहण मिति / आगमश्च "जा य सच्चा अवत्तव्वा, सच्चामोसा य जा मुसा। जा य बुद्धेहिं णाइण्णा, ण तं भासिज्ज पण्णवं ॥१॥"-अनु० -दशवैकालिके ( अ०७, उ०२) ,'भावात् ' इति -पाठः / 2 'तमनृतमेव' इति घ-पाठः / 3 छाया या च सत्या अवतव्या सत्यामृषा च या मृषा / या च बुद्धैः अमाची नैना भाषेत प्रज्ञावान् // 1 //