________________ सूत्र 9] . स्त्रोपज्ञभाष्य-टीकालङ्कृतम् 75 वाचकेनाप्युक्तम् " यद रोगदोषवद् वाक्यं, तत्वादन्यत्र वर्तते / सावधं वापि यत् सत्यं, तत् सर्वमनृतं विदुः // 1 // " तथा परेणाप्युक्तम् " अनृतमसद्वचनं स्या-चतुर्विधमसच्च जिनवरैदृष्टम् / सद्भूतप्रतिषेधो-ऽसद्भूतोद्भावनं च तथा ॥१॥"-आर्या नास्ति घटः, शशशङ्गमस्तीति, गर्हितवचनं व्य(ह्य)सत् सतोऽपि वा वचनमन्यथा यत् स्यात्, गर्हितमुपघातादि, इतरच गौरश्व इति वचनं, तस्मात् प्रमत्तयोगादसदभिधानमनृतमिति व्यवस्थितम् / तच्च संक्षेपतश्चतुःस्थानसंगृहीतं सर्वद्रव्य विषयमेन्यूनम् / द्रव्याणि च लोकालोकावच्छिन्नानि, कालो रात्रिंदिवलक्षणः, भावतो रागद्वेषमोहपरिणत आत्मा। अनेनैतदपि प्रतिक्षिप्तमवसेयम् न नर्मयुक्तं वचनं हिनस्ति, न स्त्रीषु राजन् ! न विवाहकाले / तानिरासा प्राणात्यये सर्वधनापहारे, पश्चानृतान्याहुरपातकानि ॥१॥"-उपजातिः इति / अपरे तु मोहादयुक्तं मृषावादलक्षणं ब्रुवते / अन्यथासंज्ञिनो वाक्यमर्थाभिज्ञे मृपावचः / यद्वचनं यमय ब्रवीति तस्मिन्नन्यथासंज्ञीभवति चौरमचौरमिति, यं वाऽधिकृत्य ब्रवीति स तस्य वाक्यस्यार्थाभिज्ञो यदि भवति ततस्तद्वाक्यं मृषावादः, अर्थाभिज्ञश्वाभिज्ञातुं समर्थों यश्च उत्पन्नभावः उत्पन्ने श्रोत्रविज्ञाने, वाक्यार्थश्च मनोविज्ञान विषयोन श्रोत्रविषयश्च, अभिज्ञातुं समर्थे श्रोतरीत्येतदभ्युपेतं भवति / वाक्यार्थानभिज्ञे तु संभिन्नः प्रलापः स्यान्न मृषावाद इति, तदेतदयुक्तं, प्रमत्तभापितत्वात् / अर्थाभिज्ञोऽनभिज्ञो वा भवतु श्रोता, किं तेन बाह्येन वस्तुतो निमित्तमात्रतयोपयुज्यमानेन ? स्वाश्रयोऽत्रापराध्यति / सर्वथाऽपि प्रमत्तो यः कायवाङ्मनो. योगैरसदभिधत्ते तदनृतम् , आशयस्याविशुद्धत्वात् / संभिन्न प्रलापश्च परिभाषान्तरमात्मरुच्या व्यवस्थापितमनृतवचनात् परमार्थतो न भियत एव वाचकमुख्यप्रणीतानृतलक्षणात् इति // 9 // भा०-अत्राह-अथ स्तेयं किमिति ? / अनोच्यते टी०---अत्राहेत्यादि सम्बन्धं वक्ति / पूर्वमूत्रक्रमोपन्यसहिंसाद्यवधृतलक्षणानन्तरं स्तेयलक्षणं प्रश्नयति-अथ स्तेयं किमिति / लक्षणविषयप्रश्ने यल्लक्षणं पृच्छयते कीगिति / आचार्यस्तु अत्रोच्यत इत्याह / अत्र प्रश्ने स्तेयलक्षणमुच्यते १'भावदोष' इति ग-पाठः। २'मद्भुतं' इति ङ-पाठः / ३'स्वाशयो' इति -पाठः।