________________ 76 सूत्रपाठ तत्वार्थाधिगमसूत्रम् (अध्यायः 7 स्तेपरलक्षणम् सूत्रम्-अदत्तादानं स्तेयम् // 7-10 // स्तेयलक्षणम् टी. ---प्रमत्तयोगादित्यनुवर्तते / दीयते स दत्तम् / कर्मणि निष्ठा / कर्म च कर्तुरीप्सिततम चेतनाचेतन वस्तु, ममेत्येवं परिगृहीतं पश्चभिर्देवेन्द्रादिभिः कस्मैचिद् दीयते यत् तद् दत्तमुच्यते / यत् तु तैः परिगृहीतमेव न दत्तं तस्यादानं-ग्रहणं धारणं च स्वेच्छया हठेन समक्षमेव चौर्येण वा (तत् स्तेय )मुच्यते, देवेन्द्रादिभिः परिग्रहीतृभिर्दीयमानमपि किश्चिद् भगवता नानुज्ञातमागमे शय्याहारोपधिष्षनेपणीयादि तदपि स्तेयमेव // ननु चैवंविधमेव सूत्रं कार्यम्-शास्त्रेणादत्तस्यादानं स्तेयमिति / सत्यम्, एवं संगृह्यते सकलं 1 लक्षणं तथापि लाघविकाशय आचार्यः सूत्रबन्धमेवं न चकारेति / अनेन विचारः च लक्षणेन खरकुटीसम्बन्धिमानुषकेशादेर्भावत उज्झितस्य सति प्रयोजने ग्रहणमवकरादिस्थानोज्झितचीवरादेर्वा न स्तेयमिति / भा०-स्तेयबुद्धया परैरदत्तस्य परिगृहीतस्य वा तृणादेव्यजातस्यादानं स्तेयम् // 10 // टी.-स्तेयबुद्धयेन्यादि भाष्यम् / स्तेनस्य भावः स्तेयं, हरामीत्यादातुः परिणामः स्तेयबुद्धिः / सा च प्रमत्तस्यैव कायवाङ्मनोयोगत्रयानुसारिणी, बुद्धिर्ज्ञानमिति, तया स्तेयबुद्धया कषायादिप्रमादकलुषितधिया करणभूतया कर्तुः परिणन्तुराददानस्य स्तेयमिति / आदानं च द्रव्यभावाभ्यामात्मनो यथासम्भवमायोज्यम् / स्तेयबुद्धिग्रहणात् तु कर्मादानं न स्तेयमिति / ज्ञानावरणादिकर्मणो हि यद्यप्यदत्तस्य ग्रहणमात्रं तथापि न तत्र स्तेयबुद्धि बन्धुरस्ति / सत्स्वपि प्रमादादिवन्धहेतुषु स्तेयबुद्धया त्वादित्समानस्य स्तेयम् / एतदेव स्फुटतरमाचष्टे भाष्यकारः-परैरदत्तस्येत्यादिना / परैः परिगृहीतस्य दानप्रवृत्तिरदानं वा सम्भपति नापरिगृहीतस्य, अतस्तैरदत्तस्यादानं स्तेयं, न तु ज्ञानावरणादिकर्मणः कश्चित् परिगृहीताऽस्ति यो दास्यति न वेति / यदा च परैः परिग्रहीतृभिः परिगृहीतस्यादत्तस्यादानं स्तेयं तदा नास्ति कर्मणि प्रसङ्गः / अपिच-प्रायोग्यमनुज्ञातं दक्षिणार्धदेवेन्द्रेण प्रथमतीर्थकरस्य तीर्थ एव भगवतः सुरासुरशिरोमालाकुसुमरजोरञ्जितचरणस्य नाभेयस्य / कियतः पुनरस्यादेयस्य स्वीकरणं स्तेयमित्याह-तृणादेव्यजातस्येति / तृणमादिर्यस्य द्रव्यजातस्य तत् तृणादि / तृणग्रहणं निःसारताप्रतिपादनार्थ अल्पताप्रतिपादनार्थं च / तृणेन निःसारेणाल्पेनकेनाप्यपहृतेनात्यन्तमैहिको दोषो न सम्भाव्यते, तादृशस्याप्यदत्तस्यादानं स्तेयं भवति, किमुत मरकतपद्मरागादेरिति / अत्र च परिगृहीतापरिगृहीतस्येति केचित् भाष्यमधी १दशचकालिके-"पि वत्थं च पायं वा अकप्पिन इच्छिना"। 2 'स्पष्टतरं' इति द-पाठः /