________________ सूत्रं 9] . स्वोपज्ञभाष्य-टीकालङ्कृतम् 73 भा०-असदिति सद्भावप्रतिषेधोऽर्थान्तरंगहीं च। तत्र सद्भावअसतस्पैविध्यम् / प्रतिषेधो नाम भूतनिह्नवः अभूतोद्भावनं च। तद्यथा-नास्त्यात्मा नास्ति परलोक इत्यादि भूतनिह्नवः / टी०-असदित्यस्य शब्दस्यायमर्थः-सतो भावः सद्भावः। सच्च उत्पादव्ययध्रौव्यमुक्तं (अ०५, सू० 29) तस्य भावस्तदेव न तथा भवतीत्यनेकेन पर्यायरूपेणास्य प्रतिषेधो-निराकरणं यदेतदुत्पद्यतेऽवतिष्ठते व्येति च तदेकमेवंविधं नास्तीत्यपढुवते। तत्र सद्भावप्रतिषेधव्याचिख्यासयेदमाह-तत्र सद्भावप्रतिषेधो नामेति / नामशब्दो वाक्यालङ्कारार्थः / सद्भावप्रतिषेधो द्विविधः-भूतनिहवः अभूतोद्भावने च / भूतस्य-विद्यमानस्य निगवः-अपलापः। तद्यथानास्त्यात्मा नास्ति परलोक इति विद्यमानस्यात्मनः कर्तुः शुभाशुभानां कर्म गामनुभवस्मरणादिक्रियाधारस्य नास्तित्वं केचिन्मोहात् प्रतिजानते / आत्माभावे च परलोकिनोऽभर वात् परलोकाभाव इति सुज्ञानम् / आदिग्रहणाच्छुभाशुभकर्मतदुपभोगदानफलाभावपरिग्रहः / सद्भावप्रतिषेधभेद एवाभूतोद्भावनम् / चशब्दः समुच्चयार्थः / यथाऽवस्थितात्मसद्भावमसंख्येयप्रदेशपरिमाणमाश्रयवशात् संकोचविकासधर्मकमरूपरसगन्धस्पर्शमनेकप्रकारक्रियमवधूयाज्ञानबलेनात्मानमभूतमेवात्मतत्वं समुद्भावयन्ति स्वरुच्या। भा०-श्यामाकतन्दुलमानोऽयमात्मा, अङ्गुष्ठपर्वमात्रोऽयमात्मा, आदित्यवर्णः, निष्क्रिय इत्येवमाद्यभूतोद्भावनम् // टी०-श्यामाकतन्दुलमात्रोऽयमित्यादि / श्यामाकः-कुधान्यविशेषः तस्य तन्दुलस्तत्प्रमाणः श्यामाकतन्दुलमात्रः / अयमित्यनुभवगम्यः स्वप्रत्यक्ष आत्मा निर्दिश्यते / तथा अङ्गुष्ठपर्वमात्र इति / अङ्गुष्ठः-पाणेरवयवस्तस्य ले(रे)खावच्छिन्न उपरितनो भागः पर्व, तत् भासन प्रमाणमस्येति अङ्गुष्ठपर्वमात्र आत्मा / इत्थं चाभ्युपगमे तस्यात्मनः परिमाणस्य शरीरैकदेशावस्थाने सति शेषदेशानां चेतनाऽभावप्रसङ्गः / ततश्च दंशमश विचारः कमक्षिकादितोदने शस्त्रच्छेदने च तेषु देशेषु न दुःखवेदना स्यात् / चन्दनादिविलेपने च न सुखानुभवः / स्वानुभवसिद्धाश्च सुखदुःखवेदना इत्यतः प्रमाणविरुद्ध एष पन्था प्रहातव्यः / आदित्यवर्ण इति भास्वररूपस्तस्य चारूपादित्वादमूर्तत्वात् कुतो भास्वरता / कर्मात्मप्रदेशानामन्योऽन्यानुगतिलक्षणपरिणामाभ्युपगमे समस्ति रूपादिमत्ता चेत् तदसत्, ज्ञानावरणादिपुद्गलानामभासुरवात / तस्मादयमपि हेयः पक्षः। निष्क्रिय इति। आत्मा सर्वगतस्तस्य च गमनागमनवीक्षणभोजनादिका क्रिया कायवामनःकरणजनिता, तदभावानिष्क्रिय इति व्याचक्षते, तदप्यसद् दर्शनम् , आत्मनः सर्वगतत्वे प्रमाणाभावात् / उपे , 'सद्भुतनिहवः' इति घ-पाठः। 'अभूतनिहवश्व ' इति ग-पाठः / . 3 'शनच्छेददेशेषु' इति स-पाठः।