________________ 72 तत्वार्थाधिगमसूत्रम् [ अध्यायः 7 हिंसनं हिंसा द्रव्यभावाभ्यां, द्रव्यतः पजीवनिकायविषयं प्राणिनां पृथकरणं सकललोकप्रमाणोपाधिविशिष्टं रात्रिंदिवव्यवच्छिन्नं रागद्वेपमोहपरिणतिविशिष्टं च / मारणमपि यथाविहितप्राणपरित्याजनम् / अतिपातो विनाशः षधपर्यायाः प्राणानामतिपातः, अथवा अतिपात:-पातनं शाटनं प्राणानामति पातनं प्राणातिपातः / वधः-उपमर्दः प्राणानां वधः प्राणवधः / देहः-शरीरं देहादन्यो देहान्तरं, संक्रामणं-नयनं प्रापणं देहान्तरे संक्रामणं देहान्तरसंक्रामणं साधनं "कृते"ति समासः (1) / पूर्वशरीरकं त्याजितः शरीरान्तरं परिप्राप्यते संसारभावी, न पुनर्यो मुक्तिमाप्स्यतीति / रोपणं जन्मपरिणापणं संवर्धनं च, आरोपणं-उत्सादनं उत्खननं विशेषेणारोपणं प्रमादपरवत्तया, मारणादिशब्दार्थेष्वपि एतद् विशेषणं द्रष्टव्यम् / प्राणानां व्यपरोपणं प्राणव्यपरोपणम् / इतिशब्द एवंशब्दार्थे / एवमुक्तेन प्रकारेणानन्तरं सूत्रन्यस्तहिंसाशब्दार्थान्नार्थान्तरं मारणादिशब्दवाच्यमेकमिदमिति प्रतिपादयति, एक एवार्थः शब्दैरेभिः प्रतिपाद्यत इति // 8 // भा०-अत्राह-अथानृतं किमिति ? / अत्रोच्यते टी--अनाहेत्यादिना सम्बन्धं व्याचिख्यासते-अथानृतं किमिति / अथेति हिंसानन्तरं अनृतं निर्दिष्टं प्राक, तत् किंलक्षणमित्यजानानः प्रश्नयति / आचार्यस्तु तल्लक्षणं वक्तुकाम आह-अत्रोच्यत इति / अत्र प्रश्नेऽभिधीयत इति / एतदुक्तं भवति-अभिहितहिंसालक्षणानस्तरोद्दिष्टमनृतं किंलक्षणमित्यत्रोच्यते-नानाप्रकारं परपीडापादनसमर्थम्-- अनूतस्य लक्षणम् सूत्रम्-असदभिधानमनृतम् // 7-9 // टी-प्रमत्तयोगादित्यनुवर्तते अतो वाक्यार्थः-प्रमत्तयोगादसदभिधानमन्तमिति / प्रमत्तो यः कायवाङ्मनोयोगैरसदभिधानं प्रयुङ्क्ते यत् तदनृतम् / भावसाधनः करजसाधनो वाऽभिधानशब्दः / अव्ययम् / ऋतमिति सत्यार्थे / न ऋतमनृतम् / मिथ्याऽनृत _ मिति सूत्रविन्यासो युक्तो लघुत्वादिति चेत् तन्न / सत्याभासस्य परपीसूत्रविन्यास न्यास डाकारिणो वचसः पापादानहेतुकस्य प्रतिषेधाय कोशिकादिवाक्यस्येवाविचारः सदभिधानग्रहणम् / एवंविधे च मूत्रविन्यासे पोयमात्रमित्युक्तं स्यात्, नतु लक्षणं मृषावादस्येत्यसद्ग्रहणे तु सर्वमुपपद्यते / अभिधानं--वाग्योगविषयः भावसाधनपक्षे प्रमत्तस्याभिनिविष्टचेतस आत्मनः कर्तुर्विवक्षितार्थप्रतिपादने साधकतम मिति / कायेन हस्तलोचनौष्टपादाद्यवयवक्रियाभिरलीकाभिः परं वञ्चयति, वाचाऽप्यसद् ब्रवीति, मनसाऽप्यालोचयति-एवं परः प्रतारणीय इति / सच्छब्दः प्रशंसार्थो लोके प्रतीतः सत्पुरुषः सज्जन इत्यादिषु प्रयोगेषु / न सद् असत् अप्रशस्तमाप्तप्रणीतागमनिन्दितं निषिद्धं वा / तच्च त्रिविधमसदित्यादिना भाष्यकारो दर्शयति----- 1 'व्यवस्थितं' इति पाठः। २'प्रतिपादिते इति' ग-पाठः।