________________ योग व्याख्या तत्त्वार्थाधिगमसूत्रम् [अध्यायः 7 यः कश्चित् प्रमत्त इति / कर्तुश्च करणान्यभिन्नानि भिन्नानि च द्विराकाराणि / तत्र योगेन्द्रियवीर्यज्ञानकरणान्यभेदेन वर्तन्ते गमने निर्वत्ये पादवत् , कृपाणदात्रासिधेनुकादीनि भेदेन व्यवस्थितानि / करणकारकाविनाभूता च कर्तृशक्तिरित्यभिन्नाः कायादयः कारणत्वेन निर्दिश्यन्ते, कृतद्वन्द्वाः कायादयः तेषां योगस्त एव वा योगः / यथैव ह्यात्मा कायादिI.. भिर्युक्तस्तथा कायादिक्रिययाऽपीति / अतस्तद्व्यापारोऽपि योगः / युज्यतेऽसा वाऽऽत्मनेतियोगः सप्तचतुश्चतुर्भेदः दुर्बलवृद्धयष्टिकल्पः कर्तुरात्मनः, तदाश्रयश्च वीर्यान्तरायक्षयोपशमजनितो वीर्यपरिणामः, योगः कायादिचेष्टा / यथाऽऽह "जोगो विरियं थामो, उच्छाह परक्कमो तहा चेहा। सत्ती सामत्थं चिय, जोगस्स हवन्ति पन्जाया // १॥"-आर्या तथा अपर आह "मनसा वाचा काये-न वाऽपि युक्तस्य वीर्यपरिणामः / जीवप्रयोगजनितः, स योगसंज्ञो जिनदृष्टः ॥१॥"-आर्या कायः-शरीरं औदारिकादिभेदपुद्गलजालात्मप्रयोगनिवृत्तं प्रधानातिशयोपकारितया साधकतमत्वात् करणम् , एतदवष्टम्भात् कतो आत्मा गमनवल्गनलङ्घनावरोहणकूर्दनास्फोटनविपासनादिक्रियाः परिनिष्पादयति / वागपि वॉक्यार्थापत्तिपरिमृहीतभापावर्गणायोग्यपुद्गलस्कन्धविविधवर्णपदवाक्यलक्षणा कचिदनभिलक्षितवर्णविवेकात्मनोऽभिलपणीयपदार्थप्रकाशने साधकतमत्वात् करणतया व्याप्रियते / मनोऽपि मनोवर्गणायोग्यस्कन्धाभिनिवृत्तमशेषात्मप्रदेशवृत्ति द्रव्यरूपं मर्नुते साधकतमत्वात् करणमात्मनः / एवमेभिः कायवाङ्मनोयोगैः समुदितैर्दाभ्यामेकेन वा प्राणानां सम्भवतामिन्द्रियादीनां व्यपरोपणम्-आत्मनः पृथक्करणमाचरति यो द्रव्यभावाभ्यां भावतो वाऽपि प्रमत्तः सा हिंसेति / समुदिताश्च प्रतीता एव निवतेकाः, प्रत्येकं तु कथं निर्वर्तकाः प्राणातिपातावद्यस्येति भाव्यते, भूदकतेजोमारुतवनस्पतीनां काययोग एवैकः। स्पर्शनाख्यं चेन्द्रियमेकमेव, न तु वाङ्मनोयोगौ स्तः / तेषा च कायव्यापारजनित एवं प्राणातिपातः / द्वित्रिचतुरिन्द्रियाणां असंज्ञिपञ्चेन्द्रियाणां __ च कायवाग्योगाविन्द्रियद्वयं च स्पर्शनरसनाख्यं द्वीन्द्रियाणां, एकेन्द्रियादीनां हिंसायां योगविचारः 1. स्पर्शनरसनघ्राणानि त्रीन्द्रियाणां, स्पर्शनरसनघाणचढूंषि चतुरि"न्द्रियाणां, असंज्ञिना पश्चापीति / सर्वेषामन्तःकाणं नास्ति द्रव्यरूपम् / १'स्तयेव वा' इति ख-पाठः / 2 वाऽऽत्मनो' इति ग-पाठः / 3 छाया योगो वीर्य स्थाम उत्साहः पराक्रमः तथा चेष्टा / शक्तिः सामर्थ्य चैव योगस्य भवन्ति पर्यायाः // 1 // 4 ' वाक्पर्याप्ति ' इति ङ-पाठः / 5 'दभिलक्षित. ' इति ङ-पाठः। 6 'मनो' इति ङ-पाठः।