________________ सूत्र 8] . स्वोपनभाष्य-टीकालङ्कृतम् कारयतो नाधर्मप्रसङ्गः / न ह्यग्निमन्येन स्पर्शयन् प्रयोजयिता दह्यत इति / यदप्य भिहिसम्-अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्ग इति, इष्टमेवैतत् / यतो येषां जीवानां काष्ठादिशरीरं तदा वाच्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् बाधा / / यच्चोक्तम्-न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति, एतदप्ययुक्तम् / अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याग्निरुदाहृतः / प्रयोगस्तु-अजानानस्य प्राणवधक्रियाऽवद्यहेतुः प्रमत्तव्यापारनिवृत्तत्वात् तृतीयविकल्पप्राणवधक्रियावदिति / यश्चावघहेतुर्न भवति स प्रमत्तव्यापारनिवृत्तोऽपि न भवति, यथा प्रथम विकल्प इति / यच्चाशंक्योक्तं-स्वरसभरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्क्रान्तिः स्वयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वानाशस्य, किं तर्हि प्रयत्नः करोति? अनागतस्य क्षणस्योत्पत्ति प्रतिबध्नातीति। एतदप्यत्यन्तमयुक्तम् / अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः ? असत्वरूपत्वात् शरशृङ्गस्येव / अतो नाभावः कर्तुं शक्यः / प्रतिबन्धाप्रतिवन्धौ च भावविषयौ / स्मर्तव्यं च प्राणातिपातलक्षणं व सौगतेन-प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुर्न वा भावः प्राणी न च प्राणिसंज्ञा तत्र हेतु रिति वैरसिकप्रायोगिकविनाशभेदाच न सर्व एव निष्कारणो नाशः प्रागभूतात्मलाभादकरादिवत् ,हेतुमत्त्वात् , तर्हि किसलयादिवद् विनाशोऽपि विनाशवानित्यनिष्टप्रसङ्गः / यदा विनाशशब्देनावस्थान्तरपरिणतिर्वस्तुनोऽभिधीयते तदा किमनिष्टम् ? / अत्रापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यम् / एवमपि न विनाशस्य विनाशे किश्चित् कारणमुपलभामहे / प्रष्टव्यश्च पूर्वपक्षवादी-निष्कारणो विनाशः किमसन्नुत नित्य इति / असत्त्वे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः / अथ नित्यो विनाशः, कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् // यच्चोक्तं-कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते न त्वन्यस्यात्मनोऽभावादिति तदप्यसमीचीनम् / यत एकस्थितवस्तुनिबन्धनाः सर्वेऽप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः, स चैकः स्थितश्चात्मा / सति तस्मिन् पुरुपार्थप्रवृत्तिप्रतिपत्तिरिति // ननु चानुभवस्मरणादयः स्कन्धमात्रे विज्ञानमात्रतायां वा न विरुद्धाः / तत्र निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपबमिति, तत् न, परमार्थतस्तस्यासत्त्वात् / न चासत्यात्मनि तत्प्रणीतप्राणातिपातलक्षणविषयावधारणं शक्यं कर्तुम् / सश्चिन्त्य परस्याभ्रान्तिमारणमिति भिन्नाः सञ्चेतनादिलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपातः किं सञ्चेतयितुः ? अथ यस्य परविज्ञानमुभयस्याभ्रान्तिः 1 अथ येन मारित इति / सर्वथा गृहीतशरणत्रया अपयशरणा एव सौगता इत्येवं विचायमाणं सुगतशासनं निःसारत्वान युक्तिं क्षमत इति // प्रकृतमुच्यते व्यवस्थितमिदं प्रमत्त एव हिंसकः, नाप्रमत्त इति / सामान्येन कर्दनिर्देश: १'चाव्युत्सृष्टं ' इति ङ-पाठः / 2 'हन्तुरिति ' इति ग-पाठः /