________________ सूत्र 8] स्वोपज्ञभाष्य-टीकालङ्कृतम् सञ्चिन्त्य / अथैवं मन्येथास्तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुद्धया दन्दशकं कल्पयतः कथं न हिंसा ?, अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यान्मिन्यादर्शनमेतन तदिति, तुल्यमेव तत्सर्पच्छेदेऽपीति / अथ संशयहेतुत्वान्मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावा स्यात् / संसारमोचकगेलककयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचेतयतामधर्मोऽयमित्येवं वा संचेतयता नावा स्यात् , अन्याभिसन्धित्वात् / अथैवं मन्येथाः-संचेतयन्त्येव ते प्राणिनो वयं हन्म इति, सत्यमेव तत् , किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मो भवतीति / संविद्रते च स्फुटमेवं सौगताः-प्रमादारम्भयोरवश्यंभावी प्राणवध इति / तथा बुद्धस्य ये शोणितमाकर्षः यन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेषामवीचिनरकगंतिकारणमानन्तर्यकमबुद्धेरबुद्धित्वादेव नस्यात्, इप्यते चानन्तर्यक, अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासंचेतयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीयानामप्यवद्येन योगः स्यात् / यतस्तेऽ'विदस्माईतामव निदहनपवनजलवनस्पतयः प्राणिनः / अथैवमारेकया बुद्धोऽयमिति संज्ञानमात्रेण सं(सां?)ख्यादिरपि चिन्तयत्येव / एवं तर्हि संज्ञामात्रेण सञ्चेतयतः कल्पाकारमपि शुद्धनामानं घ्नत आनन्तर्यकं स्यात् / तथा मातापित्रहद्वधस्तूपभेदानन्तर्येष्वपि योज्यम् / बालस्य किल पांसनेव चेतयतोऽन्नमित्येवं वा.चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदा प्रतीतमेव / तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपातायहेतुतया प्रायो। अन्यथा बह त्रट्यति वृद्धभापितमिति / तथाऽऽत्मवधोऽपि जैनानामवद्यहेतरेव विहितमरणोपायाहते शस्रोल्लम्चनाग्निजलप्रवेशादिभिः / तस्मादात्मनोऽप्यविधिवधोऽवद्यहेतुरिति यत्किञ्चित् परग्रहणमपीति / एवं सति कचित् कचिद् भावत एव प्राणातिपाताद्यवद्यमप्रतिष्ठाननरकगामि / तन्दुलमत्स्यस्येव / कचिद् द्रव्यभावाभ्यां प्राणातिपातावद्यं हिंसा मारकस्येवेति / प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणस्ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावद्यम् अप्रमत्तस्य तु आगमानुसारिणो न भवति / यत आगमः " हत्थपायपलिच्छिन्नं, कण्णनासविकप्पितं / अवि चासमतं णारिं, दरतो परिवजए ॥१॥-अनु० चिंत्तभित्ति ण णिज्झाए, णारी वा सुअलंकिदं / भक्खरंपित्र दणं, दिहि पडिममाहरे // 2 ।।"-अनु० ___---दशवैकालिके ( अ०८, उ० 2, मू० 55, 54) 1 'गलाकर्तयाज्ञि..' इति ग-पाठः। 2 गमन' इति हु-पाटः / 3 विदन्त्यार्हता' इति ख-पाठः / छाया---- प्रतिच्छिन्नहस्तपादां विकल्पितकर्णनासिकाम् / अपि वर्षशतिकां नारी दूरतः परिवर्जयेत् // 1 // लिभित्ति न निरीक्षेत नारी वा स्वलकृताम् / भास्कररांमय दवा दृष्टिं प्रतिसमाहरेत् // 2 //