________________ सत्त्वार्थाधिगमसूत्रम् [ अध्यायः 7 कालान्तरेण शिरःपाण्याद्यवयवाभिव्यक्तिर्जनन्यभ्यवहृताहारनिस्यन्दप्रवाहपूरितरसहरणीकुल्यया परिप्रापिताशेषरमास्वादध्मायमानपोषः पुरीपमध्यासीनः पूर्णावयवः परिपाकवशान्मायोनिविवरनिःसृतः स्तन्यपीठिकाहारासेवनोपचीयमानरुधिरमासकीकसपुरीषप्रस्रवणसंघातः पश्चादागन्तुकशल्यशलाकाग्रभिन्नः श्लेष्मादिधातुप्रकोपोद्भूतश्वयथुः गण्डादिसंस्पर्शाद् वा क्षरदसगलवलसिकापूर्यपटलप्रायपरिणामः सर्वावस्थास्वशुचिरेव काय इत्येवं भावयेत् // एवं च भावयतः संवेगो वैराग्यं च भवतीति संवेगवैराग्यस्वरूपकथनायाह-तत्र संवेगो नामेत्यादि / तत्रेति तयोः संवेगवैराग्ययोः संवेगस्तावदित्थंलक्षणः / नामशब्दो पाक्यालङ्कारार्थम् / भीरु:-भीतिशीलः संसारो-नारकतिर्यड्मनुष्यामरभवप्रपश्चः संकलदुःखमूलः संसागद् भीरुः संसारभीरुस्तद्भावः संसारभीरुत्वम् / उद्विजते हि प्रेक्षापूर्वकारी दुःखात् / न जातुचित् प्रवणो भवति / आरम्भाः सूनास्थानानि प्राण्युपघातकराणि व्यापादनसङ्कल्पपरितापजननप्राणापहारलक्षणाः सर्व एवारम्भाः, चेतनाचेतनवस्तुस्पर्शिनो मुर्छाविशेषाः परिग्रहाः / तेष्वारम्भपरिग्रहेषु दोषदर्शनादरतिः ऐहिकामुष्मिकप्रत्यवायदोषाः तदर्शनात् तदुपलब्धेर्दुःखमुद्वेगोऽप्रीतिः-अरतिः तद्वतश्च धर्मे बहुमानो धार्मिकेषु च धर्मः क्षमादिदशलक्षणस्तदासेविनो धार्मिकास्तेषु बहुमानो धर्मे च / चकारः समुच्चयार्थः। बहुमानशब्दार्थनिरूपणायाह भा०-धर्मश्रवणे धार्मिकदर्शने च मनःप्रसाद उत्तरोत्तरगुणाप्रतिपत्ती च श्रद्धति // टी-धर्मश्रवण इत्यादि। प्राक् तावद्धर्मजिज्ञासा ततस्तदभिज्ञप्रच्छनं पश्चाच्छ्वणम्--आदरेणाकर्णनं ततः स्मरणानुष्ठाने एप खलु धर्मविषयो बहुमानः / आदरः-चित्तप्रसादः / धार्मिकदर्शने चेति / धार्मिकाः--सम्यक्त्वज्ञानक्रियांनुष्ठायिनः साधवोऽगारिणश्च तह ने च बहुमानः-चित्तप्रमोदपूर्वकोऽभ्युत्थानवन्दनासनदानभक्तपानवस्त्रपात्रोपकरणप्रदानानुव्रजनलक्षणो भक्तिविशेषश्चेतःप्रसादः संवेगस्याभिव्यञ्जकः, उत्तरोत्तरगुणप्रतिपत्तौ च श्रद्वेति / संवेगमूलगुणास्तावत् सम्यक्त्वादयोऽनगारागारिणोरवश्यंतया सन्ति तेषु सत्सुमौलेषु गुणेषुत्तरोत्तरा ये गुणाः प्रकाग्वत्तया क्रमेणास्थिताः विण्डोपधिशय्याविशुद्धिलक्षणाः समितिभावनातपःप्रतिमाभिग्रहादयस्तेषत्तरोत्तरेषु स्वशक्त्यपेक्षा प्रतिपत्तिरभ्युपगमोऽनुष्ठानं तद्विषया श्रद्धाऽभिलाप इच्छेत्यनान्तरम् / एवं तावत्संवेगः // १.पीठका' इति ग-पाठः / 2 'साकर यदुःख ' इति ग-पाठः / 3 'प्रश्न' इति ग-पाठः / 4 वच्छिन्नाः' इति हु-पाठः /