________________ सूत्रं 8 ] स्वोपज्ञभाष्य- टीकालङ्कृतम् भा०-वैराग्यं नाम शरीरभोगसंसारनिर्वेदोपशान्तस्य बाह्याभ्यन्तरेषुपधिष्वनभिष्वङ्ग इति // 7 // टी-वैराग्यं नामेत्यादि / विरागभावो वैराग्यम् / नामेत्यलङ्कारार्थम् / शरीरस्य भोगोऽभ्यञ्जनोद्वर्तनस्नानाङ्गगगधृपपुष्पमाल्यालङ्कारविचित्रनिवसनेष्टाहारादिलक्षणः / संसारश्चातुर्गतिकस्ताभ्यां शरीरभोगसंसाराभ्यां निर्वेदो निर्विण्णता शरीरभोगसंसारविषयवैमुख्यमुद्वेगस्तस्मानिर्वेदाल्लब्धोपशमस्य-प्रतनुकपायस्य बहिर्भवो बाह्यः वास्तुक्षेत्रादिदेशविधः पञ्चमव्रते वक्ष्यमाणो रागद्वेषादिराभ्यन्ताश्चतुर्दशभेदस्तत्रैव वक्ष्यते / तेषूपधिवनभिष्वङ्गो मूर्छा लोभो गायं तदाकारः परिणाम आत्मनः / नाभिष्वङ्गः-अनभिष्वङ्गः निरपेक्षता तेषु गाध्यमिति // 7 // भा०-अत्राह-उक्तं भवता (अ०७, सू०१)-हिंसादिभ्यो विरतिव्रतमिति। तत्र का हिंसा नामेति / अत्रोच्यते / / ___टी०-अत्राहेत्यादिना सम्बन्धमाचष्टे / अनवधारितहिंसादिलक्षणस्य निवृत्तिव्रतमित्यमिहितं भवताऽध्यायादौ, तत्र नावगच्छामः किंलक्षणा हिंसादयो येभ्यो विरतिव्रतमिस्यजानानस्य प्रश्नः-तत्र काहिंसा नामेति / नहि लक्ष्यमुपरतलक्षणव्यापारमभिधित्सितस्यार्थस्य जातुचिदामोदायेति / तत्र-तेषु पञ्चसु हिंसादिषु का हिंसा किंलक्षणेति हिंसैव तावत् पृच्छयते / तल्लक्षणवैपरीत्यात अहिंसा सुज्ञानैव / न च भिन्नजातीयानां पदार्थानां युगपल्लक्षणमभिधातुं शक्यम् / अतः क्रमेण निर्देशे सति हिंसामेव तावद् वाचकमुख्यो. निरूपयितुमाह-अत्रोच्यत इति / अत्र-हिंसालक्षणप्रश्ने भण्यते तल्लक्षणम्...... सूत्रम्-प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा // 7-8 // टी--प्रमाद्यतीति प्रमत्तः कषायविकथेन्द्रियनिद्रासवैर्निमित्तभूतैः / तत्र कषायाः पोडशानन्तानुबन्धादि मेदास्तत्परिणत आत्मा प्रमत्तः / इन्द्रियाणि स्पर्शनादीनि तद्वारको रागद्वेषौ / समासादिततत्परिणतिरात्मा प्रमत्तः / स्पर्शनादिनिमित्तभेदात् कषाया एव प्रमादहेतुत्वेनोपन्यस्ताः / प्रमादश्चात्मनः परिणामः कषायादिनिमित्तः, दर्शनावरणकर्मोदयात् स्वापो निद्रा पश्चप्रकारा तत्परिणामाच पीनहत्पूरपित्तोदयाकुलितान्तःकरणः पुरुषवदन्धो मूढः करपरणविक्षेपशरीरपर्यवसानक्रियाः कुर्वन् प्रमत्तः (आसवो)मद्यं मधुवारशीधुमदिरादि तदभ्यवहारे सत्यागतमूछे इव विहलतामुपेतः प्रमत्तोऽभिधीयते / विकथा स्त्रीभक्तजनपदराजवृत्तान्तप्रतिबद्धा। रागद्वेषाविष्टचेताः सयादिविकथापरिणतः प्रमत्तस्य योगः। कर्तरि पष्ठी। योगपरि 'परितः' इति -पाठः।